पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
[ सर्गः ८
कुमारसंभवे

 तेनेति ॥ तेन हरेण भङ्गिभिर्भङ्गैर्विषमो निम्नोन्नत उत्तरच्छदः प्रच्छदपटो यस्मिंस्तत् । मध्ये पिण्डिता पुञ्जीकृता विसूत्रमेखला छिन्नरसना यस्मिंस्तत्तथोक्तं चरणयो रागेण लाक्षारागेण लाञ्छितं चिह्नितं शयनं निशात्यये प्रभाते निर्मलेऽपि । सूर्योदये सत्यपीत्यर्थः । नोज्झितं न त्यक्तम् । अत्र देव्या सकलसुरतोपचारसंपन्नत्वं पुरुषायितं सूच्यते ॥ ८९ ॥

 स प्रियामुखरसं दिवानिशं हर्पवृद्धिजननं सिपेविषुः ।
 दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदितः ॥ ९० ॥

 स इति ॥ स हरो हर्षवृद्धिजननं सुग्वातिशयकारणं प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् । द्वन्द्वैकवद्भावः । सिषेविपुः सेवितुमिच्छुः सन् । विजयानाम्नी काचिद्देव्याः सखी तया निवेदितः, एतदर्थमागतेति ज्ञापितोऽपीत्यर्थः । दर्शनप्रणयिनामदृश्यतामाजगाम, दर्शनं न ददावित्यर्थः ॥ ९० ॥

 समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
  शतमगमदृतूनां सार्धमेका निशेव ।
 न स सुरतसुखेभ्यश्छिन्नतृष्णो बभूव
  ज्वलन इव समुद्रान्तर्गतस्तञ्जलौघैः ॥ ९१ ॥

 समेति ॥ निशीथोऽत्र निशामात्रलक्षकः । समदिवसनिशीथं तुल्याहर्निशं यथा तथा तत्र तस्यां पार्वत्यां सङ्गिन आसक्तस्य । रात्रिंदिवं रममाणस्येत्यर्थः । शंभोः शिवस्य सार्धमर्धेन सहितमृतूनां शतं पञ्चाशदुत्तरं मानुपमानेन पञ्चविंशतिवर्षाण्यगमन् । स शंभुः समुद्रान्तर्गतः समुद्रस्यान्तर्वृत्तिर्ज्वलनो वडवाग्निरिव तज्जलौघैस्तस्य समुद्रस्य प्रवाहैरिव सुरतसुखेभ्यश्छिन्नतृष्णो निवृत्ताभिलाषो न बभूव । किंतु चिरमवर्धतेत्यर्थः ॥ ९१ ।।

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये उमा-
सुरतवर्णनं नामाष्टमो सर्गः ॥