योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२७
← सर्गः २६ | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्) सर्गः २७ अज्ञातलेखकः |
सर्गः २८ → |
निर्वाणप्रकरणस्य पूर्वार्धम् | |
---|---|
सप्तविंशः सर्गः २७
भुशुण्ड उवाच ।
एतत्ते कथितं ब्रह्मन्यथास्मि यदिहास्मि च ।
त्वदाज्ञामात्रसिद्ध्यर्थं धार्ष्ट्येन ज्ञानपारग ।। १
श्रीवसिष्ठ उवाच ।
अहो नु चित्रं भगवन्भवता भूषणं श्रुतेः ।
आत्मोदन्तः प्रकथितः परं विस्मयकारणम् ।। २
धन्यास्ते ये महात्मानमत्यन्तचिरजीवनम् ।
भवन्तं परिपश्यन्ति द्वितीयमिव पद्मजम् ।। ३
यावदद्य दृशो धन्याः स्वात्मोदन्तमखण्डितम् ।
यथावत्पावनं बुद्धेः सर्वं कथितवानसि ।। ४
प्रभातं दिक्षु सर्वासु दृष्टा विबुधभूतयः ।
भवानिव जगत्यस्मिन्न महानवलोकितः ।। ५
कथंचित्प्राप्यते कश्चिद्भ्रान्त्वेव हि महाजनः ।
न भवानिव भव्यात्मा सुलभो जगति क्वचित् ।। ६
वंशखण्डे हि कस्मिंश्चिज्जायते मौक्तिकं यथा ।
जगत्खण्डे हि कस्मिंश्चिद्दृश्यते त्वादृशस्तथा ।। ७
मया तु सुमहत्कार्यमद्य संपादितं शुभम् ।
पुण्यदेहविमुक्तात्मा यद्भवानवलोकितः ।। ८
तदस्तु तव कल्याणं प्रविशात्मगुहां शुभाम् ।
मध्याह्नसमयो यन्मे व्रजामि सुरमन्दिरम् ।। ९
इत्याकर्ण्य भुशुण्डोऽसौ जग्राहोत्थाय पादपात् ।
संकल्पिताभ्यां हस्ताभ्यामुपात्तं हेमपल्लवम् ।। 6.1.27.१०
कल्पवृक्षलतापुष्पकेसरेण हिमत्विषा ।
तत्पात्रं मौक्तिकार्घ्येण पूरयामास पूर्णधीः ।। ११
तेनार्घ्यपाद्यपुष्पेण त्रिनेत्रमिव मामसौ ।
आपादमस्तकं भक्त्या पूजयामास पूर्वजः ।। १२
अनुव्रज्याकदर्थेन खगेन्द्रालमिति ब्रुवन् ।
विष्टरादहमुत्थाय ततः खगवदाप्लुतः ।। १३
व्योम्नि योजनमात्रं तु मदनुव्रज्यया गतः ।
करं करेणावष्टभ्य बलात्संरोधितः खगः ।। १४
मयि याते क्षणेनैव गगनाध्वन्यदृश्यताम् ।
निवृत्तोऽसौ विहंगेन्द्रो दुस्त्यजा संगतिः सताम् १५
अन्योन्यमपि कस्मिंश्चित्तरङ्गक इवाम्बुधौ ।
व्योमन्यदृश्यतां यातो खगस्मृत्या मुनीनहम् ।। १६
सप्तर्षिमण्डलं प्राप्य जायया परिपूजितः ।
याते कृतयुगस्यादौ पुरा वर्षशतद्वये ।। १७
संगतोऽहं भुशुण्डेन मेरोः शृङ्गद्रुमेऽभवम् ।
अद्य राम कृते क्षीणे त्रेता संप्रति वर्तते ।। १८
मध्ये त्रेतायुगस्यास्य जातस्त्वं रिपुमर्दन ।
पुनरद्याष्टमे वर्षे तत्रैवोपरि भूभृतः ।
मिलितोऽभूद्भुशुण्डो मे तथेवाजररूपवान् ।। १९
इति संकथितं चित्रं भुशुण्डोदन्तमुत्तमम् ।
श्रुत्वा विचार्य चैवान्तर्यद्युक्तं तत्समाचर ।। 6.1.27.२०
श्रीवाल्मीकिरुवाच ।
इति सुमतिभुशुण्डसत्कथां यो
विमलमतिः प्रविचारयिष्यतीह ।
भवभयबहुलाकुलास्थितां स
प्रसभमसत्सरितं तरिष्यतीति ।। २१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भुशुं० समाप्तिर्नाम सप्तविंशः सर्गः ।। २७ ।।