योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०१९
← सर्गः १८ | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्) सर्गः १९ अज्ञातलेखकः |
सर्गः २० → |
निर्वाणप्रकरणस्य पूर्वार्धम् | |
---|---|
भुशुण्ड उवाच ।
इत्युत्सवे वर्तमाने तासां वाहास्त उत्तमाः ।
तथैव मत्ता जहसुर्ननृतुः पपुरप्यसृक् ।। १
तत्रैकत्रासवोन्मत्ताः काश्चिन्ननृनुरम्बरे ।
रथहंस्यः स्थिता ब्राहम्यः काकश्चालम्बुसारथः ।। २
नृत्यन्तीनां च हंसीनां पिबन्तीनामथासवम् ।
तले चाब्धितटानां तु रतिः सम्यगजायत ।। ३
संजातरतयो मत्ताः सर्वा हंस्य क्रमेण ताः ।
रेमिरे सह काकेनाप्यथ मत्तास्तदा किल ।। ४
सप्तानां कुलहंसीनां दयितो वायसस्त्वसो ।
क्रमेणारमतैकत्र यावदन्योन्यमीप्सितम् ।। ५
अथ ता गर्भधारिण्यो बभूवुरतितोषिताः ।
देव्यश्च कृतनृत्यास्ताः सुप्रशान्तमथाययुः ।। ६
ददुरोदनतां यातमीश्वराय प्रियामुमाम् ।
भोजनाय महामायां देव्यस्ताः शूलपाणये ।। ७
प्रिया मे भोजने दत्तेत्येवं च शशिशेखरः ।
बुद्ध्वा बभूव रुषितो यदा मातृगणं प्रति ।। ८
तदा तास्तां समुत्पाद्य स्वाङ्गदानेन वै पुनः ।
ददुर्भूयो विवाहेन पार्वतीमिन्दुमौलये ।। ९
ततो देव्यो हरश्चैव परिवारस्तथैतयोः ।
सर्वे संतुष्टमनसः स्वां स्वामुपययुर्दिशम् ।। 6.1.19.१०
अन्तर्वत्न्यो बभूवुस्ता ब्राह्म्यो हंस्यो मुनीश्वर ।
वृत्तान्तं कथयामासुर्ब्राह्म्या देव्या यथास्थितम् ।। ११
ब्राह्म्युवाच ।
हे वत्स्यः सांप्रतं वत्सवत्यो मे रथकर्मणि ।
न समर्था भवन्त्यो हि स्वैरं चरत सांप्रतम् ।। १२
इति गर्भालसा हंसीरुक्त्वा देवी दयापरा ।
निर्विकल्पसमाधाने ब्राह्मी तस्थौ यथासुखम् ।। १३
अजनाभिसरोजान्तवैरिञ्चकमलाकरे ।
गर्भालसा विचेरुस्ता राजहंस्यो मुनीश्वर ।। १४
एवं विपक्वगर्भास्ता नाभीकमलपल्लवे ।
सुवते स्म मृदून्यण्डान्यथ वल्ल्य इवाङ्कुरान् ।। १५
तानि कालं समासाद्य ततोऽण्डान्येकविंशतिः ।
गर्भाक्रान्त्या द्विधा जग्मुर्ब्रह्माण्डानीव सारवत् ।।१६
अण्डेभ्यस्तेभ्य एवं हि जाता वयमिमे मुने ।
भ्रातरश्चण्डतनया वायसा एकविंशतिः ।। १७
ते संजाता गता वृद्धिं तस्मिन्कमलपल्लवे ।
संजातपक्षाः संपन्ना गगनोड्डयने क्षमाः ।। १८
मातृभिः सह हंसीभिर्ब्राह्मी भगवती ततः ।
चिरमाराधिता सम्यक्समाधिविरता सती ।। १९
प्रसादपरया काले भगवत्या ततः स्वयम् ।
तथाङ्गानुगृहीता स्मो येन मुक्ता वयं स्थिताः ।। 6.1.19.२०
संशान्तमनसः शान्ता एकान्ते ध्यानसंस्थितौ ।
तिष्ठाम इति निश्चित्य पितुः पार्श्वे वयं गताः ।। २१
आलिङ्गितास्ततः पित्रा पूजितालम्बुसा वयम् ।
तया दृष्टाः प्रसादेन संस्थितास्तत्र संयताः ।। २२
चण्ड उवाच ।
पुत्राः कच्चिदपर्यन्तवासनातन्तुगुण्ठितात् ।
भवन्तो निर्गता नूनमस्मात्संसारजालकात् ।। २३
नो चेद्वयं भगवतीं तदिमां भृत्यवत्सलाम् ।
प्रार्थयामो यथा यूयं भवथ ज्ञानपारगाः ।। २४
काका ऊचुः ।
तात ज्ञातमलं ज्ञेयं ब्राह्म्या देव्याः प्रसादतः ।
किंत्वेकान्तस्थितेः स्थानमभिवाञ्छाम उत्तमम् ।।२५
चण्ड उवाच ।
सर्वरत्नगणाधारः समस्तसुरसंश्रयः ।
अस्ति ह्येव महोत्सेधो मेरुर्नाम महीधरः ।। २६
लसच्चन्द्रार्कदीपस्य भूतवृन्दकलत्रिणः ।
ब्रह्माण्डमण्डपस्यान्तः स्तम्भः कनकनिर्मितः ।। २७
सौवर्णचन्द्रपीठाढ्यो रत्नाढ्यशिखराङ्गुलिः ।
ध्वनद्द्वीपाब्धिवलयो भुवेवोन्नमितो भुजः ।। २८
वृतः कुलाद्रिसामन्तैर्जम्बूद्वीपासने स्थितः ।
राजा चन्द्रार्कनयने भ्रमयञ्छैलसंसदि ।। २९
तारौघमालतीमाल्यो दिग्दशैकाम्बराम्बरः ।
नागजातिद्वयस्थात्मा नाकनायकभूषणः ।। 6.1.19.३०
दिगङ्गनाभिरभितो रम्याभिः पुरभूषणैः ।
एष निस्यन्दिभिः शीतैर्वीजितो घनचामरैः ।। ३१
षोडशास्य सहस्राणि योजनानामधः क्षितौ ।
स्थिताः पादाः प्रपूज्यन्ते नागासुरमहोरगैः ।। ३२
अशीतिश्च सहस्राणि देहोऽस्यार्केन्दुलोचनः ।
पूज्यते नाकसदने सुरगन्धर्वकिंनरैः ।। ३३
चतुर्दशविधान्येनं गृहस्थमिव बान्धवाः ।
उपजीवन्ति भूतानि मिथो दृष्टपुरास्पदम् ।। ३४
अस्य त्वीशानदिग्भागे पद्मरागमयं बृहत् ।
विद्यते शृङ्गमपरो दिवाकर इवोदितः ।। ३५
अस्यास्ति पृष्ठे भूतौघवृतः कल्पतरुर्महान् ।
जगतः शिखरादर्शे प्रतिबिम्बमिव स्थितः ।। ३६
तस्यास्ति दक्षिणस्कन्धे शाखा कनकपल्लवा ।
रत्नस्तबकनीरन्ध्रा चन्द्रबिम्बोल्लसत्फला ।। ३७
तत्र पूर्वं मया नीडं कृतमासीत्स्फुरन्मणि ।
देव्या ध्याननिषण्णायां यस्मिन्किल रमे सुताः ।। ३८
रत्नपुष्पदलच्छन्नं रसायनफलान्वितम् ।
चिन्तामणिशलाकाभिर्विहितालिन्दसंस्थिति ।। ३९
बुद्धिपूर्वसमाचारैः संपूर्णं काकपुत्रकैः ।
शीतलाभ्यन्तरं हृद्यं पूरितं कुसुमोत्करैः ।। 6.1.19.४०
तद्गच्छत सुता नीडं दुर्गं नाकवतामपि ।
भोगं मोक्षं च तत्रस्था निर्विघ्रमलमाप्स्यथ ।। ४१
इत्युक्त्वास्मान्पिता तत्र चुचुम्बाभ्यालिलिङ्ग च ।
ददौ देव्या यदानीतमस्मभ्यं च तदामिषम् ।। ४२
तद्भुक्त्वा चरणौ देव्याः पितुश्चैवाभिवाद्य च ।
विन्ध्यकच्छाद्वयं तस्मात्स्थानादालम्बुसात्प्लुताः ।। ४३
क्रमेणाकाशमुल्लङ्घ्य निर्गत्याम्बुदकोटरैः ।
पवनस्कन्धमासाद्य वन्दितव्योमचारिणः ।। ४४
परिहृत्य दिनाधीशं लोकान्तरपुरं गताः ।
स्वर्गमुल्लङ्घ्य याताः स्मो ब्रह्मलोकं मुनीश्वर ।। ४५
प्रणामपूर्वं तत्रैतद्यथावत्तत्पितुर्वचः ।
मात्रे च भगवत्यै च ब्राह्म्यै चाशु निवेदितम् ।। ४६
ताभ्यां सस्नेहमालिङ्ग्य गच्छतेत्याज्ञयैधिताः ।
वयं कृतनमस्कारा ब्रह्मलोकाद्विनिर्गताः ।। ४७
उल्लङ्घ्य लोकपालानां पुरीस्तपनभास्वराः ।
आकाशगामिनो लोलाः पवनस्कन्धचारिणः ।। ४८
इमं कल्पतरुं प्राप्य निजं नीडं प्रविश्य च ।
दूरस्थबाधास्तिष्ठामो मुने मौनमवस्थिताः ।। ४९
जाता यथा वयमिमे स्थितिमागताश्च
संप्राप्य बोधमुपशान्तधियो यथावत् ।
एतत्तदुक्तमविखण्डमलं मया ते
शेषेण मां समनुशाधि महानुभाव ।। 6.1.19.५०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निवाणप्र० पू० भुशुं० आलयलाभो नामैकोनविंशतितमः सर्गः १९।।