योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १२७

विकिस्रोतः तः


सप्तविंशत्यधिकशततमः सर्गः १२७
भरद्वाज उवाच ।
इति वरमुनिनोक्तं ज्ञानसारं पुराणं
सकलमनुनिशम्य श्रीरघूणां कुलाग्र्यः ।
विमलमतिरपृच्छत्किंचिदन्यत्स्वयं वा
समसुखपरिपूर्णः पूर्णबोधस्थितोऽसौ ।। १
स खलु परमयोगी विश्ववन्द्यः सुरेशो
जननमरणहीनः शुद्धबोधस्वभावः ।
सकलगुणनिधानं संनिधानं रमाया-
स्त्रिजगदुदयरक्षानुग्रहाणामधीशः ।। २
श्रीवाल्मीकिरुवाच ।
इति श्रुत्वा वसिष्ठस्य वाक्यं वेदान्तसंग्रहम् ।
विदिताखिलविज्ञानो रामः कमललोचनः ।। ३
शक्तिपातवशोन्मेषप्रकटामलचिद्धनः ।
मुहूर्तमासीदुद्बुद्धश्चैतन्यानन्दसागरः ।। ४
प्रश्नोत्तरविभागादिपरिपाटीविवर्जितः ।
आनन्दामृतपूर्णासू रोमकण्टकिताङ्गकः ।। ५
महासामान्यरूपत्वाच्चिद्व्यापकतया स्थितः ।
नित्यमष्टगुणैश्वर्यतृणप्रायमनोरथः ।। ६
न किंचिदूचे संपन्नः शिवे परिणतः पदे ।
भरद्वाज उवाच ।
अहो खलु ममाश्चर्यं रामः प्राप्तो महत्पदम् ।। ७
कथमेतादृशी प्राप्तिरस्माकं मुनिनायक ।
मूर्खाः स्तब्धाश्च किंचिज्ज्ञा मादृशाः क्व च पापिनः ।
क्व च ब्रह्मादिभिः प्रार्थ्या दुर्लभा रामसंस्थितिः ।। ८
अहो मुनीश्वरगुरो कथं विश्राम्यते मया ।
दुष्पारस्य भवाम्भोधेस्तीर्यते तद्वदाशु मे ।। ९
श्रीवाल्मीकिरुवाच ।
श्रीरामवृत्तान्तमशेषमादितो
वसिष्ठवाक्यानुगतं निरूपितम् ।
धिया विचार्यानु परामृश प्रभो
मयापि तादृक्कथनीयमत्र ते ।। १०
अविद्यायाः प्रपञ्चोऽयं नास्ति सत्यमिहाण्वपि ।
विवेचयन्ति विबुधा विवदन्त्यविवेकिनः ।। ११
नास्ति भिन्नं चितः किंचित्किं प्रपञ्चेन रुध्यसे ।
अभ्यासेन रहस्यानां वयस्य विशदो भव ।। १२
प्रपञ्चविषया वृत्तिर्जाग्रन्निद्रेति कीर्तिता ।
संप्रबुद्धस्तु यस्यान्तश्चित्प्रदीपो निरञ्जनः ।। १३
शून्यमूलः प्रपञ्चोऽयं शून्यताशिखरः सखे ।
सारशून्यतया मध्येऽप्यनास्था सन्मनीषिणाम् ।। १४
अनादिवासनादोषादसन्नेवायमीक्ष्यते ।
गन्धर्वनगराकारः संसारो बहुविभ्रमः ।। १५
त्वमनभ्यस्य कल्याणीं चैतन्यामृतकन्दलीम् ।
संमुह्यसि किमध्यास्य वासनाविषवीरुधः ।। १६
जाग्रदेतन्न पतितं ज्ञानालम्बग्रहादधः ।
न सन्त्युपरि सर्वेषां ये निरालम्बसंविदः ।। १७
तावद्रूढा सुधाकाररसा संविन्महानदी ।
न यावदात्मरूपेण निपुणैरवगाह्यते ।। १८
प्राङ्नास्ति चरमे नास्ति वस्तु सर्वमिदं सखे ।
विद्धि मध्येऽपि तन्नास्ति स्वप्नवृत्तमिदं जगत् ।। १९
अविद्यायोनयो भेदाः सर्वेऽमी बुद्बुदा इव ।
क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ।। २०
सुशीतलोदकनदीं विदित्वाथ विगाह्य ताम् ।
बहिर्भ्रान्तिनिदाघास्ते निर्यान्तु कलितासुखम् ।। २१
एकश्चाज्ञानजलधिर्जगदाप्लाव्य तिष्ठति ।
ज्येष्ठोऽयमहमित्यूर्मिरविद्यावातसंभवः ।। २२
चित्तस्खलनभेदाली रागाद्याश्च प्रकल्पिताः ।
ममतोत्कलितावर्तः स्वतः स्वैरं प्रवर्तते ।। २३
रागद्वेषावतिग्राहौ गृहीतसमनन्तरः ।
ततश्चानर्थपातालप्रवेशः केन वार्यते ।। २४
प्रशान्तामृतकल्लोले केवलामृतवारिधौ ।
मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ।। २५
कस्तिष्ठति गतः को वा कस्य केन किमागतम् ।
किं नु मज्जसि मायायां पत मा त्वमतन्द्रितः ।। २६
तत्त्वमेकं यदात्मेति जगदेतत्प्रचक्षते ।
ततोऽन्यः कस्तवातीतो यस्तात विषयः शुचाम् ।। २७
बालान्प्रति विवर्तोऽयं ब्रह्मणः सकलं जगत् ।
अविवर्तितमानन्दमास्थिताः कृतिनः सदा ।। २८
अविविक्तो जनः शोचत्यकस्माच्च प्रहृष्यति ।
तत्त्ववित्तु हसन्नास्ते तस्य मोहो विडम्बनम् ।। २९
तच्च सूक्ष्ममिदं तत्त्वं तिरोहितमविद्यया ।
यथा स्थलेषु लोकानां जलेष्वात्मसु संशयः ।। ३०
पृथिव्यादिमहाभूतपरमाणुमयं जगत् ।
स्थितं यदा तदापीह को गतो योऽनुशोच्यते ।। ३१
असतः संभवो नास्ति नास्त्वभावः सतः सखे ।
आविर्भावतिरोभावाः संस्थानानाममी परम् ।। ३२
किंत्वनेकपुरोत्साहाद्विषतामुपगच्छति ।
भज संभरिताभोगं परमेशं जगद्गुरुम् ।। ३३
दुरितानि समस्तानि पच्यन्तेऽद्यापि न ध्रुवम् ।
कृतमेवास्य देवस्य पाशा विश्रवतां गताः ।। ३४
साकारं भज तावत्त्वं यावत्सत्त्वं प्रसीदति ।
निराकारे परे तत्त्वे ततः स्थितिरकृत्रिमा ।। ३५
इमामुद्दामतमसो जित्वा सत्त्वबलाद्ध्रुवम् ।
यमस्यानुसराध्वानं विश्वस्तेनान्तरात्मना ।। ३६
समाधाय क्षणं पश्य प्रत्यगात्मानमात्मना ।
इयं विभातु सा व्यक्तं प्राग्बुद्धिरजनी तव ।। ३७
कृतं पुरुषकारेण केवलेन च कर्मणा ।
महेशानुग्रहादेव प्राप्तव्यं प्राप्यते नरैः ।। ३८
नाभिजात्यं न चारित्र्यं न नयो न च विक्रमः ।
बलवन्ति पुराणानि सखे कर्माणि केवलम् ।। ३९
अप्रतर्क्यात्प्रतीकारात्किमेवमवसीदसि ।
न लुम्पति ललाटस्थामीश्वरोऽप्यक्षरावलिम् ।। ४०
क्व चिद्वक्ता क्व वैदग्ध्यं क्व चेयं मोहवल्लरी ।
अचिन्तनीया नियतिर्यदियं द्वन्द्वमाहिता ।। ४१
हे भरद्वाज मोहं त्वं विवेकेन जहि स्फुटम् ।
असामान्यमिदानीं त्वं ज्ञानं प्राप्स्यस्यसंशयम् ।। ४२
दूरमुत्सहते राजा महासत्त्वो महापदि ।
अल्पसत्त्वो जनः शोचत्यल्पेऽपि हि परिक्षते ।। ४३
बोधः पुण्यपराधीनः प्रथते बहुजन्मभिः ।
अनुमीयेत धीरेषु जीवन्मुक्तेषु कार्यतः ।। ४४
द्विषद्भूतेन येनैव कर्मणा बन्ध ईदृशः ।
सुहृद्भूतेन तेनैव मोक्षमाप्स्यसि पुत्रक ।। ४५
सतां सत्कर्मसंवेगः पुराणं प्रणुदन्नयम् ।
वर्षौघ इव भूतानां दवानलमसेचयत् ।। ४६
सखे संन्यस्य कर्माणि ब्रह्मणः प्रणयी भव ।
नेष्यसे यदि संसारचक्रावर्तभ्रमः शमम् ।। ४७
तावदेतद्विकल्पोत्थमिदं यावद्बहिर्ग्रहः ।
प्रतिकूलोऽब्धिरुल्लोले केवलं निश्चले जले ।। ४८
अयं किमन्धकरणस्त्वया शोकोऽवलम्ब्यते ।
निर्वाहयतु सैव त्वां प्रज्ञायष्टिरभङ्गुरा ।। ४९
न जातु ते विगण्यन्ते गणनासु गरीयसाम् ।
ये तरङ्गैस्तृणानीव ह्रियन्ते हर्षशोकयोः ।। ५०
समारूढं दशादोलामहोरात्रमिदं जगत् ।
क्रीड्यते षड्विधैः प्रेङ्खैः सखे किमिति खिद्यते ।। ५१
सूते संहरति क्षिप्रं पुनः सृजति हन्ति च ।
जगन्ति बहुपर्यायैः काल एव कुतूहली ।। ५२
न विशेषग्रहः कश्चिन्न च कश्चिन्न कश्चन ।
जन्तुष्वभ्यवहार्येषु प्राक्रम्य कालभोगिनः ।। ५३
का कथा मर्त्यपिण्डानां निमेषान्तरवासिनाम् ।
अपि देवनिकाया ये तेऽपि दुष्कालगोचराः ।। ५४
स्वयं नृत्यसि किं प्रीतो विपत्तौ विकलेन्द्रियः ।
क्षणं निश्चलमासीनः पश्य संसारनाटकम् ।। ५५
अस्यानेकतरङ्गस्य जगतः क्षणभङ्गिनः ।
न विषीदति मनस्वी भरद्वाज मनागपि ।। ५६
त्यज शोकममङ्गल्यं मङ्गलानि विचिन्तय ।
चिदानन्दघनं स्वच्छमात्मानं च विभावय ।। ५७
देवद्विजगुरुश्रद्धाभरबन्धुरचेतसाम् ।
सदागमप्रमाणानां महेशानुग्रहो भवेत् ।। ५८
भरद्वाज उवाच ।
ज्ञातं तव प्रसादेन सर्वमेतदशेषतः ।
न वैराग्यात्परो बन्धुर्न संसारात्परो रिपुः ।। ५९

इदानीं श्रोतुमिच्छामि वसिष्ठेनोपपादितम् ।
ज्ञानसारमशेषेण ग्रन्थेनोक्तं पदात्मना ।। ६०
श्रीवाल्मीकिरुवाच ।
भरद्वाज श्रृणुष्वेदं महाज्ञानं विमुक्तिदम् ।
यस्य श्रवणमात्रेण भवाब्धौ न निमज्जसि ।। ६१
संहृतिस्थितिसंभूतिभेदैर्योऽनेकधा स्थितः ।
एकोऽपि सन्नमस्तस्मै सच्चिदानन्दमूर्तये ।। ६२
कृते प्रपञ्चविलये यथा तत्त्वं प्रकाशते ।
तवोपायं प्रवक्ष्यामि संक्षेपाच्छ्रुतिशासनात् ।। ६३
पूर्वापरविचारार्हा कथं नष्टा तव स्मृतिः ।
तयैव ज्ञायते सर्वं करामलकवत्स्वयम् ।। ६४
स्वयं विचार्यं स्वयमेव चेतसा
तत्प्राप्यते येन न शोचते पुनः ।
सत्संगसच्छास्त्रविवेकतः पुन-
र्वैराग्ययुक्तेन विभाव्यमेतत् ।। ६५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० पू० भरद्वाजानुशासनं नाम सप्तविंशत्यधिकशततमः सर्गः ।। १२७।।