योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०५८
अष्टपञ्चाशः सर्गः ५८
अर्जुन उवाच ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ।। १
श्रीभगवानुवाच ।
वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् ।
तच्चित्तं शान्तमेवान्तर्विद्धि सत्त्वमुपागतम् ।। २
अत्र तच्चेत्यरहितं प्रत्यक्चेतननामकम् ।
यत्त्वशेषविनिर्मुक्तं यत्सर्वं सर्वतश्च यत् ।। ३
न केचन विदन्त्येते तत्पदं जागतादयः ।
भूतलाद्गगनोड्डीनं विहंगममिवोन्नतम् ।। ४
प्रत्यक्चेतनमाभासं शुद्धं संकल्पवर्जितम् ।
अगम्यमेनमात्मानं विद्धि दूरं दृशामिव ।। ५
सर्वातीतं यदत्यच्छं विना शुद्धं स्ववासना ।
न शक्नोति पदं द्रष्टुं जनदृष्टिरणूनिव ।। ६
यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः ।
वराकी वासना तत्र किं करोतु परे पदे ।। ७
यथाऽनलगिरिं प्राप्य हिमलेशो विलीयते ।
शुद्धमासाद्य चित्तत्त्वमविद्या लीयते तथा ।। ८
क्व वराकी रजस्तुच्छा वासना भोगबन्धनम् ।
क्व पूरितजगज्जालश्चित्तत्त्वविपुलानिलः ।। ९
तावत्स्फुरत्यविद्येयं नानाकारविकारिणी ।
यावन्न संपरिज्ञातः शुद्धः स्वात्माऽयमात्मना ।। १०
सर्वा दृश्यदृशः क्षीणाः स्वच्छतैवोदिता तथा ।
नभसीव पदे तस्मिन्स्वात्मन्यखिलपूरणे ।। ११
समग्राकाररूपं तत्समग्राकारवर्जितम् ।
वागतीतं परं वस्तु केन नामोपमीयते ।। १२
विषयविषविषूचिकामतस्त्वं
निपुणमहंस्थितिवासनामपास्य ।
अभिमतपरिहारमन्त्रयुक्त्या
भव विभवो भगवान्भियामभूमिः ।। १३
श्रीवसिष्ठ उवाच ।
इति गदितवति त्रिलोकनाथे
क्षणमिव मौनमुपस्थिते पुरस्तात् ।
अथ मधुप इवाऽसिताब्जखण्डे
वचनमुपैष्यति तत्र पाण्डुपुत्रः ।। १४
अर्जुन उवाच ।
परिगलितसमस्तशोकभारा
परमुदयं भगवन्मतिर्गतेयम् ।
मम तव वचनेन लोकभर्तु-
र्दिनपतिना परिबोधिताब्जिनीव ।। १५
इत्युक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः ।
अर्जुनो गतसंदेहो रणलीलां करिष्यति ।। १६
करिष्यति क्षतगजवाजिसारथि-
द्रुतक्षरद्रुधिरमहानदीं भुवम् ।
शरोत्करप्रसरमहारजःस्थली-
तिरोहितद्युमणिविलोचनां दिवम् ।। १७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनकृतार्थता नामाष्टपञ्चाशः सर्गः।।५८।।
अर्जुनोपाख्यानं समाप्तम् ।