योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ००२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)
सर्गः ०२
अज्ञातलेखकः
सर्गः ३ →
निर्वाणप्रकरणस्य पूर्वार्धम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२

सर्गः ६३

सर्गः ६४

सर्गः ६५

सर्गः ६६

सर्गः ६७

सर्गः ६८

सर्गः ६९

सर्गः ७०

सर्गः ७१

सर्गः ७२

सर्गः ७३

सर्गः ७४

सर्गः ७५

सर्गः ७६

सर्गः ७७

सर्गः ७८

सर्गः ७९

सर्गः ८०

सर्गः ८१

सर्गः ८२

सर्गः ८३

सर्गः ८४

सर्गः ८५

सर्गः ८६

सर्गः ८७

सर्गः ८८

सर्गः ८९

सर्गः ९०

सर्गः ९१

सर्गः ९२

सर्गः ९३

सर्गः ९४

सर्गः ९५

सर्गः ९६

सर्गः ९७

सर्गः ९८

सर्गः ९९

सर्गः १००

सर्गः १०१

सर्गः १०२

सर्गः १०३

सर्गः १०४

सर्गः १०५

सर्गः १०६

सर्गः १०७

सर्गः १०८

सर्गः १०९

सर्गः ११०

सर्गः १११

सर्गः ११२

सर्गः ११३

सर्गः ११४

सर्गः ११५

सर्गः ११६

सर्गः ११७

सर्गः ११८

सर्गः ११९

सर्गः १२०

सर्गः १२१

सर्गः १२२

सर्गः १२३

सर्गः १२४

सर्गः १२५

सर्गः १२६

सर्गः १२७

सर्गः १२८


द्वितीयः सर्गः २
श्रीवाल्मीकिरुवाच ।
ततः क्लिन्नेन्दुवदना पर्याकुलतमःपदा ।
क्षीयमाणा बभौ श्यामा विवेक इव वासना ।। १
पूर्वे ध्वस्ततयालोकं दृश्यमाने परेऽचले ।
शयालीकावतंसाभं तापको निकरो दधौ ।। २
अवश्यायकणाकर्षी परामृष्टेन्दुमण्डलः ।
ज्योत्स्नाकवलनालोको बभौ प्राभातिकोऽनिलः ।। ३
रामलक्ष्मणशत्रुघ्ना उत्थायानुचरैः सह ।
ययुर्वन्दितसंध्यास्ते पुण्यं वासिष्ठमाश्रमम् ।। ४
तत्र वन्दितसंध्यस्य निर्गतस्यापि सद्मतः ।
मुनेर्ववन्दिरे पादौ पदोर्दत्वार्घ्यसंततिम् ।। ५
क्षणात्तत्सदनं मौनं मुनिब्राह्मणराजभिः ।
हस्त्यश्वरथयानैश्च शनैर्नीरन्ध्रतां ययौ ।। ६
अथासौ मुनिशार्दूलस्तयैव सह सेनया ।
गृहं दाशरथं काले रामाद्यनुगतो ययौ ।। ७
तत्रैनं पूर्वसंबन्धः कृतसंध्यो महीपतिः ।
दूरमार्गं विनिर्गत्य पूजयामास सादरम् ।। ८
पुष्पमुक्तामणिव्रातैर्भूयोऽत्यधिकभूषिताम् ।
सभा प्रविश्य ते सर्वे विविशुर्विष्टरालिषु ।। ९
अथ तस्मिन्नवसरे ह्यस्तनाः सर्व एव ते ।
श्रोतारः समुपाजग्मुर्नभश्चरमहीचराः ।। १०
विवेश सा सभा सौम्या कृतान्योन्याभिवन्दना ।
बभौ राजसमाभोगा शान्तवातेव पद्मिनी ।। ११
यथाप्रदेशमेवाशु निविष्टेषु यथासुखम् ।
तेषु तद्देशयोगेषु विप्रर्षिमुनिराजसु ।। १२
मृदुनि स्वागतरवे शनैः शममुपागते ।
सभाकोणोपविष्टेषु शान्तशब्देषु बन्दिषु ।। १३
तरसैवोदितेष्वाशु श्रोतुमभ्यागतेष्विव ।
गवाक्षादिव जालेषु प्रविष्टेष्वर्करश्मिषु ।। १४
सत्वरप्रविशच्छ्रोतृहस्तस्पर्शघटोद्भवे ।
मुक्ताजालझणत्कारे निद्रायामिव शाम्यति ।। १५
कुमारः शंकरस्येव कचो देवगुरोरिव ।
प्रह्लाद इव शुक्रस्य सुपर्ण इव शार्ङ्गिणः ।। १६
वसिष्ठस्यानने रामः शनैर्दृष्टिं न्यवेशयत् ।
भ्रमन्तीमम्बरोपान्ते फुल्लपद्म इवालिनीम् ।। १७
मुनिस्त्वनुज्झितेनाथ तेनैव रघुनन्दनम् ।
क्रमेणोवाच वाक्यज्ञो वाक्यं वाक्यार्थकोविदम् ।।१८
श्रीवसिष्ठ उवाच ।
कच्चित्स्मरसि यत्प्रोक्तं ह्यो मया रघुनन्दन ।
वाक्यमत्यन्तगुर्वर्थं परमार्थावबोधनम् ।। १९
इदानीमवबोधार्थमन्यच्च रिपुमर्दन ।
उच्यमानं मयेदं च श्रृणु शाश्वतसिद्धये ।। २०
वैराग्याभ्यासवशतस्तथा तत्त्वावबोधनात् ।
संसारस्तीर्यते तेन तेष्वेवाभ्यासमाहर ।। २१
सम्यक्तत्त्वावबोधेन दुर्बोधे क्षयमागते ।
गलिते वासनावेशे विशोकं प्राप्यते पदम् ।। २२
दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् ।
एकं ब्रह्मैव हि जगत्स्थितं द्वित्वमुपागतम् ।। २३
सर्वभावानवच्छिन्नं यत्र ब्रह्मैव विद्यते ।
शान्तं समसमाभासं तत्रान्यत्वं कथं भवेत् ।। २४
इति मत्वाहमित्यन्तर्मुक्त्वा मुक्तवपुर्महान् ।
एकरूपः प्रशान्तात्मा साक्षात्स्वात्मसुखो भव ।। २५
नास्ति चित्तं न चाविद्या न मनो नच जीवकः ।
एताः स्वकलना राम कृता ब्रह्मण एव ताः ।। २६
याः संपदो याश्च दृशो याश्चितो यास्तदेषणाः ।
ब्रह्मैव तदनाद्यन्तमब्धिवत्प्रविजृम्भते ।। २७
पाताले भूतले स्वर्गे तृणे प्राण्यम्बरेऽपि च ।
दृश्यते तत्परं ब्रह्म चिद्रूपं नान्यदस्ति हि ।। २८
उपेक्ष्यहेयोपादेयबन्धवो विभवा वपुः ।
ब्रह्मैव विगताद्यन्तमब्धिवत्प्रविजृम्भते ।। २९
यावदज्ञानकलना यावदब्रह्मभावना ।
यावदास्था जगज्जाले तावच्चित्तादिकल्पना ।। ३०
देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मना ।
यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ।। ३१
यावन्नोदितमुच्चैस्त्वं सज्जनासङ्गसङ्गतः ।
यावन्मौर्ख्यं न संक्षीणं तावच्चित्तादिनिम्नता ।। ३२
यावच्छिथिलतां यातं नेदं भुवनभावनम् ।
सम्यग्दर्शनशक्त्यान्तस्तावच्चित्तादयः स्फुटाः ।। ३३
यावदज्ञत्वमन्धत्वं वैवश्यं विषयाशया ।
मौर्ख्यान्मोहसमुच्छ्रायस्तावच्चित्तादिकल्पना ।। ३४
यावदाशाविषामोदः परिस्फुरति हृद्वने ।
प्रविचारचकोरोऽन्तर्न तावत्प्रविशत्यलम् ।। ३५
भोगेष्वनास्थमनसः शीतलामलनिर्वृतेः ।
छिन्नाशापाशजालस्य क्षीयते चित्तविभ्रमः ।। ३६
तृष्णामोहपरित्यागान्नित्यशीतलसंविदः ।
पुंसः प्रशान्तचित्तस्य प्रबुद्धा त्यक्तचित्तभूः ।। ३७
असंस्तुतमिवानास्थमवस्तु परिपश्यतः ।
दूरस्थमिव देहं स्वमसन्तं चित्तभूः कुतः ।। ३८
भावितानन्तचित्तत्त्वरूपरूपान्तरात्मनः ।
स्वान्तावलीनजगतः शान्तो जीवादिविभ्रमः ।। ३९
असम्यग्दर्शने शान्ते मिथ्याभ्रमकरात्मनि ।
उदिते परमादित्ये परमार्थैकदर्शने ।। ४०
अपुनर्दर्शनायैव दग्धसंशुष्कपर्णवत् ।
चित्तं विगलितं विद्धि वह्नौ घृतलवं यथा ।। ४१
जीवन्मुक्ता महात्मानो ये परावरदर्शिनः ।
तेषां या चित्तपदवी सा सत्त्वमिति कथ्यते ।। ४२
जीवन्मुक्तशरीरेषु वासना व्यवहारिणी ।
न चित्तनाम्नी भवति सा हि सत्त्वपदं गता ।। ४३
निश्चेतसो हि तत्त्वज्ञा नित्यं समपदे स्थिताः ।
लीलया प्रभ्रमन्तीह सत्त्वसंस्थितिहेलया ।। ४४
शान्ता व्यवहरन्तोऽपि सत्त्वस्थाः संयतेन्द्रियाः ।
नित्यं पश्यन्ति तज्जयोतिर्न द्वैतैक्येन वासना ।। ४५
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् ।
जुह्वतोऽन्तर्निवर्तन्ते मुनेश्चित्तादिविभ्रमाः ।। ४६
विवेकविशदं चेतः सत्त्वमित्यभिधीयते ।
भूयः फलति नो मोहं दग्धबीजमिवाङ्कुरम् ।। ४७
यावत्सत्त्वं विमूढान्तः पुनर्जननधर्मिणी ।
चित्तशब्दाभिधानोक्ता विपर्यस्यति बोधतः ।। ४८
प्राप्तप्राप्यो भवान्नाम सत्त्वभावमुपागतम् ।
चित्तं ज्ञानाग्निना दग्धं न भूयः परिरोहति ।। ४९
संरोहतीषणाविद्धं यथा परशुनाग्निना ।
न तु ज्ञानाग्निनिर्दग्धं प्रबोधविशदं मनः ।। ५०
ब्रह्मबृंहैव हि जगज्जगच्च ब्रह्मबृंहणम् ।
विद्यते नानयोर्भेदश्चिद्घनब्रह्मणोरिव ।। ५१
चिदन्तरस्ति त्रिजगन्मरिचे तीक्ष्णता यथा ।
नातश्चिज्जगती भिन्ने तस्मात्सदसती मुधा ।। ५२
शब्दशब्दार्थसंकेतवासनेह न संविदा ।
चिद्व्योमत्वादुभे भातस्त्यजातः सदसन्मती ।। ५३
अचिन्मयत्वान्नासि त्वं स्वात्मा किमिव रोदिषि ।
अचिन्मयत्वे जगतामभावे कल्पनं कुतः ।। ५४
चिन्मयं चेत्सदा सर्वं तच्चित्त्वं प्रविचारय ।
शुद्धं सत्त्वमनाद्यन्तं तत्राङ्ग कलना कुतः ।। ५५
चिदात्मासि निरंशोऽसि पारावारविवर्जितः ।
रूपं स्मर निजं स्फारं माऽस्मृत्या संमितो भव ।। ५६
तां स्वसत्तां गतः सर्वमसर्वं भावयोदयी ।
तादृग्रूपोऽसि शान्तोऽसि चिदसि ब्रह्मरूप्यसि ।। ५७
चिच्छिलोदरमेवासि नासि नानास्यथाप्यसि ।
योसि सोसि न सोसीव सदस्यसदसि स्वभाः ।। ५८
यः पदार्थविशेषोऽन्तर्न त्वं न ह्येव सोऽस्ति ते ।
तदस्यतदसि स्वस्थश्चिद्घनात्मन्नमोऽस्तु ते ।। ५९
आद्यन्तवर्जितविशालशिलान्तराल-
संपीडचिद्घनवपुर्गगनामलस्त्वम् ।
स्वस्थो भवाजठरपल्लवकोशलेखा
लीलास्थिताखिलजगज्जय ते नमस्ते ।। ६०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू०
विश्रान्तिसुदृढीकरणं नाम द्वितीयः सर्गः ।। २ ।।