योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६६

विकिस्रोतः तः
Jump to navigation Jump to search


षट्षष्टितमः सर्गः ६६
वाल्मीकिरुवाच ।
वसिष्ठमुनिसंयुक्ता विश्वामित्रादिसंयुताः ।
स्थिताः खेचरसिद्धौघा विश्रान्ता नृपनायकाः ।। १
सरामलक्ष्मणा सैव तथैवाथ सभा बभौ ।
सौम्या समसमाभोगा शान्तवातेव पद्मिनी ।। २
अनवेक्ष्य वचः प्रश्नमुवाचाथ मुनीश्वरः ।
बोधयन्ति बलादेव सानुकम्पा हि साधवः ।। ३
श्रीवसिष्ठ उवाच ।
राजन् रघुकुलाकाशशशाङ्क रघुनन्दन ।
ह्यो मया ज्ञाननेत्रेण स भिक्षुः प्रेक्षितश्चिरम् ।। ४
ध्यानेनाहं चिरं भ्रान्तस्तादृग्भिक्षुदिदृक्षया ।
द्वीपानि सप्त विपुलां कुलशैलसपर्वताम् ।। ५
यावत्कुतश्चिदप्येवं भिक्षुर्लब्धो न तादृशः ।
कथं किल मनोराज्यं बहिरप्युपलभ्यते ।। ६
ततस्त्रिभागशेषायां रात्र्यां पुनरहं धिया ।
उत्तराशान्तरं यातो वेलावात इवार्णवम् ।। ७
जिननामैष तत्रास्ति श्रीमान् जनपदो महान् ।
वल्मीकोपरि तत्रास्ति विहारो जनसंश्रयः ।। ८
तस्मिन्विहारे स्वकुटीकोशे कपिलमूर्धजः ।
भिक्षुर्दीर्घदृशो नाम स्थित एव समाधये ।। ९
एकविंशतिरात्रं च तस्यैवं स्थितिशालिनः ।
दृढार्गलं गृहं ध्यानभङ्गभीता विशन्ति नो ।। १०
भृत्याः प्रियाः किल तथा संतिष्ठति स भिक्षुकः ।
अद्यैव तस्य संवेत्तुं नियतेरीदृशी स्थितिः ।। ११
रात्रयो ध्याननिष्ठस्य गतास्तस्यैकविंशतिः ।
स तु वर्षसहस्त्रानी तथा चित्तेन भूतवान् ।। १२
कस्मिंश्चित्प्राक्तने कल्पे भिक्षुरेव पुराऽभवत् ।
अद्य त्विह द्वितीयोऽस्मिंस्तृतीयो नोपलभ्यते ।। १३
मया तु पुनरन्विष्य चेतसा चतुरात्मना ।
तादृग् भिक्षुस्तृतीयोऽन्यो जगत्पद्मोदरालिना ।। १४
अस्मात्सर्गात्ततो लब्धस्तृतीयस्तादृशाशयः ।
अथान्ये लीलया सर्गा मया संप्रेक्षितास्ततः ।। १५
यावत्तस्मिंश्चिदाकाशकोशशायिनि सर्गके ।
तृतीयो विद्यते भिक्षुर्ब्राह्मश्च सदृशक्रमः ।। १६
एवं तेनैव तेनैव संनिवेशेन भूरिशः ।
भविष्यन्त्यभवन्सर्वे पदार्थाः सर्गसंततौ ।। १७
अस्यां सभायामपि ये मुनयो ब्राह्मणास्तथा ।
भाव्यमेवं समाचौरस्तैरन्यैरप्यनेकशः ।। १८
नारदेनामुना भाव्यं पुनरन्येन चामुना ।
एवं कलनकर्मभ्यां युक्तेनान्येन भूरिशः ।। १९
एवं जन्मादिना भाव्यं व्यासेनापि शुकेन च ।
शौनकेन पुनर्भाव्यं क्रतुना पुलहेन च ।। २०
अगस्त्येन पुलस्त्येन भृगुणाऽङ्गिरसापि च ।
एत एव तथान्ये च एवंरूपक्रियास्पदम् ।। २१
चिराच्चिराद्भविष्यन्ति मायेयं वितता यतः ।
सदृशाचारजन्मानस्त एवान्ये च भूरिशः ।। २२
भूयोभूयो विवर्तन्ते सर्गेष्वप्स्विव वीचयः ।
अत्यन्तसदृशाः केचित्केचिदर्धसमक्रमाः ।। २३
केचिदीषत्समाः केचिन्न कदाचित्पुनस्तथा ।
एवमेषातिवितता महतामपि मोहिनी ।। २४
क्षणेनेहास्ति नो कर्म प्रतिपत्तिर्हि जृम्भते ।
क्वैकविंशत्यहोरात्रा अनन्ताकृतयोऽनघ ।। २५
क्व तासामुपलम्भोऽलमहो भीमा मनोगतिः ।
प्रतिभामात्रमेवेदमित्थं विकसितं स्थितम् ।। २६
नानाकलहकल्लोलं जले प्रातरिवाम्बुजम् ।
जातं संवेदनादेव शुद्धादिदमशुद्धिमत् ।
संसारजालमखिलं सार्चिर्वह्निकणादिव ।। २७
प्रत्येकमेवमुदितः प्रतिभासखण्डः
खण्डान्तरेष्वपि च तस्य विचित्रखण्डः ।
सर्वे स्वयं ननु च तेऽपि मिथो न मिथ्या
सर्वात्मनि स्फुरति कारणकारणेऽस्मिन् ।। २८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्र० पू० जीवटोपाख्याने भिक्षुसंसृतिकथनं नाम षट्षष्टितमः सर्गः ।। ६६ ।।