सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ११२

विकिस्रोतः तः


द्वादशाधिकशततमः सर्गः ११२
श्रीवसिष्ठ उवाच ।
इति प्राप्य परं योगमुपदेशमनुत्तमम् ।
जीवन्मुक्तो बभूवासौ ततो देवगुरोः सुतः ।। १
निर्ममो निरहंकारश्छिन्नग्रन्थिः प्रशान्तधीः ।
कचो यथा स्थितो राम तथा तिष्ठाविकारवान् ।। २
अहंकारमसद्विद्धि मैनमाश्रय मा त्यज ।
असतः शशशृङ्गस्य किल त्यागग्रहौ कुतः ।। ३
असंभवत्यहंकारे क्व ते मरणजन्मनी ।
नभःक्षेत्रे तथा व्युप्तं केन संगृह्यते फलम् ।। ४
निरंशं शान्तसंकल्पं सर्वभावात्मकं ततम् ।
परमादप्यणोः सूक्ष्मं चिन्मात्रं त्वमनोमयम् ।। ५
यथाम्भसस्तरङ्गादि यथा हेम्नोऽङ्गदादि च ।
तदेवातदिवाभासं तथाहंभावभावितः ।। ६
अबोधेन जगत्सर्वं मायामयमिव स्थितम् ।
बोधेन सकलं ब्रह्मरूपं संपद्यतेऽनघ ।। ७
द्वित्वैकत्वमती त्यक्त्वा शेषस्थः सुखितो भव ।
मा दुःखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा ।। ८
मायेयमतिदुष्पारा सांसारी गाढतां गता ।
शरदा मिहिकेवाशु बोधेनायाति तानवम् ।। ९
श्रीराम उवाच ।
परमामागतोऽस्म्यन्तस्तृप्तिं ज्ञानामृतेन ते ।
अवग्रहभयाक्रान्तः स्वासारेणेव चातकः ।। १०
अमृतेनेव सिक्तोऽहमन्तर्गच्छामि शीतताम् ।
उपर्यपि समस्तानां तिष्ठाम्यतुलसंपदाम् ।। ११
न तृप्तिमनुगच्छामि वचांसि वदतस्तव ।
ऐन्दवीनां मरीचीनां चकोरस्तृषितो यथा ।। १२
तृप्तोऽपि भूयः पृच्छामि त्वां प्रश्नमिममीश्वर ।
को नाम तृप्तोऽप्यग्रस्तं न पिबत्यमृतासवम् ।। १३
किमुच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् ।
वस्त्ववस्तु कृतं जगद्वस्तुजातं वदाशु मे ।। १४
श्रीवसिष्ठ उवाच ।
मिथ्यापुरुषबोधाय श्रृणु राघव शोभनाम् ।
इमामाख्यायिकां हासजननीं मदुदीरिताम् ।। १५
अस्ति कश्चिन्महाबाहो मायायन्त्रमयः पुमान् ।
बालपेलवधीमूढो गूढो मौर्ख्येण केवलम् ।। १६
स एकान्ते क्वचिज्जातः शून्ये तत्रैव तिष्ठति ।
केशोण्ड्रकमिव व्योम्नि मृगतृष्णेव वा मरौ ।। १७
तस्मादन्यन्न तत्रास्ति यदस्ति च स एव तत् ।
यच्चान्यत्तत्तदाभासं न च पश्यति दुर्मतिः ।। १८
संकल्पस्तस्य संजातस्तत्र वृद्धिमुपेयुषः ।
खस्याहं खमहं खं मे खं रक्षामीति निश्चलः ।। १९
खं स्थापयित्वा रक्षामि वस्त्विष्टं स्वयमादरात् ।
इति संचिन्तयन्व्योमरक्षार्थं सोऽकरोद्गृहम् ।। २०
तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्यसौ ।
गृहाकाशेन संतुष्टस्ततः स रघुनन्दन ।। २१
अथ कालेन तत्तस्य गृहं नाशमुपाययौ ।
ऋत्वन्तरेणाब्द इव वातेनेव तरङ्गकः ।। २२
हा गृहाकाश नष्टं त्वं हा क्व यातमसि क्षणात् ।
हा हा भग्नमसि स्वच्छमित्येवैतच्छुशोच सः ।। २३
इति शोकशतं कृत्वा पुनस्तत्रैव दुर्मतिः ।
कूपं चक्रे खरक्षार्थं कूपाकाशपरोऽभवत् ।। २४
ततो नाशं स कालेन नीतः कूपोऽपि तस्य वै ।
कूपाकाशे गते शोकनिमग्नोऽसौ ततोऽभवत् ।। २५
कूपाकाशप्रलापान्ते कुम्भं शीघ्रमथाकरोत् ।
कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिमाययौ ।। २६
कुम्भोऽपि तस्य कालेन नाशं नीतो रघूद्वह ।
यामेव दिशमादत्ते दुर्भगः सा हि नश्यति ।। २७
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः ।
कुण्डं तथैव तेनासौ कुण्डाकाशपरोऽभवत् ।। २८
कुण्डमप्यस्य कालेन केनचिन्नाशमाययौ ।
तेजसेव तमस्तेन कुण्डाकाशं शुशोच सः ।। २९
कुण्डाकाशस्य शोकान्ते खरक्षार्थं चकार सः ।
चतुःशालं महाशालं तदाकाशमयोऽभवत् ।। ३०
तदप्यस्य जहाराशु कालः कवलितप्रजः ।
जीर्णपर्णं यथा वातस्ततः शोकपरोऽभवत् ।। ३१
स चतुःशालशोकान्ते खरक्षार्थं चकार ह ।
कुसूलमम्बुदाकारं तदाकाशपरः स्थितः ।। ३२
तदप्यस्य जहाराशु कालो वात इवाम्बुदम् ।
कुसूलनाशशोकेन तेनासौ पर्यतप्यत ।। ३३
एवं गृहचतुःशालकुम्भकुण्डकुसूलकैः ।
तस्यापर्यवसानात्मा कालोऽयमतिवर्तते ।। ३४
एवं स्थितः स विवशो गगनं गुहायां
गृह्णन्गृहेण गहनेन किलात्मबुद्ध्या ।
दुःखान्तराद्धनतराद्धनदुःखजात-
मायाति याति च गतागतिसङ्गमूढः ।। ३५
इत्यार्षे श्रीवासिष्ठमहा० वा० दे०मो०निर्वाणप्रकरणे पू०चू०मिथ्यापुरुषोपाख्याने आकाशरक्षणं नाम द्वादशोत्तरशततमः सर्गः ।। ११२ ।।