सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६८

विकिस्रोतः तः


अष्टषष्टितमः सर्गः ६८
श्रीवसिष्ठ उवाच ।
सुषुप्तमौनवान्भूत्वा त्यक्त्वा चित्तविलासिताम् ।
कलनामलनिर्मुक्तस्तिष्ठावष्टब्धतत्पदः ।। १
श्रीराम उवाच ।
वांग्मौनमक्षमौनं च काष्ठमौनं च वेद्म्यहम् ।
सुषुप्तमौनं मौनेश ब्रह्मन्ब्रूहि किमुच्यते ।। २
श्रीवसिष्ठ उवाच ।
द्विविधः प्रोच्यते राम मुनिर्मुनिवरैरिह ।
एकः काष्ठतपस्वी स्याज्जीवन्मुक्तस्तथेतरः ।। ३
अभावितायां शुष्कायां क्रियायां बद्धनिश्चयः ।
हठाज्जितेन्द्रियग्रामो मुनिः स्यात्काष्ठतापसः ।। ४
यथाभूतमिदं बुद्ध्वा भावितात्मात्मनि स्थितः ।
लोकोपमोपि तृप्तोऽन्तर्यः स मुक्तमुनिः स्मृतः ।। ५
एतयोर्यो भवेद्भावः शान्तयोर्मुनिनाथयोः ।
चित्तनिश्चयरूपात्मा मौनशब्देन स स्मृतः ।। ६
चतुष्प्रकारमाहुस्तं मौनं मौनविदो जनाः ।
वांग्मौनमक्षमौनं च काष्ठं सौषुप्तमेव च ।। ७
वांग्मौनं वचसां रोधो बलादिन्द्रियनिग्रहः ।
अक्षमौनं परित्यागश्चेष्टानां काष्ठसंज्ञकम् ।। ८
मनोमौनं पञ्चमं च तन्मृतौ काष्ठतापसे ।
भावे सुषुप्तमौनाख्यं जीवन्मुक्तोऽनुजीवति ।। ९
त्रिषु मौनविशेषेषु विषयः काष्ठतापसः ।
सुषुप्तमौनावस्थायां सा तुर्या सैव मुक्तधीः ।। १०
वांग्मौनं मौनमित्येतत्सिद्धं तच्च मनः किल ।
मलिनं जीवबन्धाय तत्रस्थः काष्ठतापसः ।। ११
अस्मत्संस्मरणं वापि दृश्यं वाङ्मयमस्पृशन् ।
अपश्यन्नेव पश्यन् हि काष्ठमौनी तु तिष्ठति ।। १२
प्रस्फुरच्चित्तकलनमेतन्मौनत्रयं स्मृतम् ।
भवन्ति मौनिनस्तत्र न तज्ज्ञास्तत्स्थलीलया ।। १३
नात्रोपादेयताज्ञानमेतन्मौनत्रये किल ।
लीलया कथितं तेन तज्ज्ञाः कुप्यन्तु वा न वा ।। १४
इदं सुषुप्तमौनं तु जीवन्मुक्तमितिस्थितम् ।
अपुनर्जन्मनो जन्तोः श्रृणु श्रवणभूषणम् ।। १५
नात्र संयम्यते प्राणस्त्रिविधो नापि योज्यते ।
नोल्लस्यन्ते न ग्लायन्ते समस्तेन्द्रियसंविदः ।। १६
नानाताकलनेयं च न वल्गति न शाम्यति ।
चेतो न चेतो नाचेतो न सन्नासन्न चेतरत् ।। १७
अविभागमनभ्यासं यदनाद्यन्तमास्थितम् ।
ध्यायतोऽध्यायतश्चैतत्सौषुप्तं मौनमुच्यते ।। १८
यथाभूतमिदं बुद्ध्वा जगन्नानात्वविभ्रमम् ।
यथास्थितमसंदेहं सौषुप्तं मौनमेव तत् ।। १९
अनेकसंविद्रूपात्म शिवेनैवेदमाततम् ।
इत्यास्थितमनन्तं यत्सौषुप्तं मौनमुच्यते ।। २०
आकाशं नैव चाकाशं सर्वमस्ति च नास्ति च ।
इति चित्तं समं शान्तं यत्तन्मौनं सुषुप्तवत् ।। २१
सर्वशून्यं निरालम्बं शान्तिविज्ञप्तिमात्रकम् ।
न सन्नासदिति यस्यामासितं मौनमुत्तमम् ।। २२
भावाभावादशादेशविशेषैर्वितथोत्थितैः ।
संविदो यदनाभासस्तन्मौनं परमं विदुः ।। २३
अत्यन्तमसतैवान्तश्चेतसाऽवृत्तिरूघिणा ।
यदनावर्तनं संविद्वृत्तेस्तन्मौनमक्षयम् ।। २४
नाहमस्मि न चान्योऽस्ति न मनो न च मानसम् ।
इति संविदसंवित्तिरविच्छिन्नातिमौनिता ।। २५
अहमस्मि जगत्यस्मिन्स्वस्ति शब्दार्थमात्रकम् ।
सत्तासामान्यमेवेति सौषुप्तं मौनमुच्यते ।। २६
यस्मात्संविदमेव स्यात्स्वान्यादिकलना कुतः ।
अनन्तमेव सौषुप्तं सर्वं मौनमतस्ततम् ।। २७
सुषुप्तमौनमेवेदमनन्तत्वात्प्रबोधवत् ।
तुर्यमेवामलं विद्धि तुर्यातीतमथापि च ।। २८
सौषुप्तैकसमाधानस्तथा तुर्यसमाधिकः ।
तुर्यातीतसमाधिर्वा जाग्रत्यपि भवन्ति वै ।। २९
तुर्यस्य एव सकलामलशान्तिवृत्ति-
र्जाग्रत्यपि व्यवहरन्निपुणं समन्तात् ।
नित्यं सदेह उत वापि विदेह एव
ब्रह्मन्नभोभवत एव किलास्ति साधो ।। ३०
ओंमित्युदस्तभववासनमेकमास्स्व
न त्वं न चाहमपि नान्यदिहास्ति सत्यम् ।
सर्वं च विद्यत इतीह किलान्तराभं
ज्ञस्तिष्ठ चिद्गगनकोशकलैकनिष्ठः ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० महामौनयत्नोपदेशो नामाष्टषष्टितमः सर्गः ।। ६८ ।।