योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०१३
← सर्गः १२ | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्) सर्गः १३ अज्ञातलेखकः |
सर्गः १४ → |
निर्वाणप्रकरणस्य पूर्वार्धम् | |
---|---|
त्रयोदशः सर्गः १३
श्रीराम उवाच ।
सम्यग्ज्ञानविलासेन वासनाविलयोदये ।
जीवन्मुक्तपदे ब्रह्मन्नूनं विश्रान्तवानहम् ।। १
प्राणस्पन्दनिरोधेन वासनाविलयोदये ।
जीवन्मुक्तपदे ब्रह्मन्वद विश्रम्यते कथम् ।। २
श्रीवसिष्ठ उवाच ।
संसारोत्तरणे युक्तिर्योगशब्देन कथ्यते ।
तां विद्धि द्विप्रकारां त्वं चित्तोपशमधर्मिणीम् ।। ३
आत्मज्ञानं प्रकारोऽस्या एकः प्रकटितो भुवि ।
द्वितीयः प्राणसंरोधः श्रृणु योऽयं मयोच्यते ।। ४
श्रीराम उवाच ।
सुलभत्वाददुःखत्वात्कतरः शोभनोऽनयोः ।
येनावगतमात्रेण भूयः क्षोभो न बाधते ।। ५
श्रीवसिष्ठ उवाच ।
प्रकारौ द्वावपि प्रोक्तौ योगशब्देन यद्यपि ।
तथापि रूढिमायातः प्राणयुक्तावसौ भृशम् ।। ६
एको योगस्तथा ज्ञानं संसारोत्तरणक्रमे ।
समावुपायो द्वावेव प्रोक्तावेकफलप्रदौ ।। ७
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।
मम त्वभिमतः साधो सुसाध्यो ज्ञाननिश्चयः ।। ८
अज्ञानं पुनरज्ञातं स्वप्नेष्वपि न तद्भवेत् ।
ज्ञानं सर्वास्ववस्थासु नित्यमेव प्रवर्तते ।। ९
धारणासनदेशादिसाध्यत्वेन सुसाध्यताम् ।
नायाति योगो ह्यथवा विकल्पो नैव शोभनः ।। १०
द्वावेव किल शास्त्रोक्तौ ज्ञानयोगौ रघूद्वह ।
तत्रोक्तं भवते ज्ञानमन्तस्थं ज्ञेयनिर्मलम् ।। ११
प्राणापानतया रूढो दृढदेहगुहाशयः ।
अनन्तसिद्धिदः साधो योगोऽयं बुद्धिदः श्रृणु ।। १२
मुखानिलस्फुरणनिरोधसंभव-
स्थितिं गतो नृपसुत चेतसाऽक्षये ।
समाहितस्थितिरिह योगयुक्तितः
परे पदे प्रगलितगीर्निवत्स्यसि ।। १३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० ज्ञानविचारयोगोपदेशो नाम त्रयोदशः सर्गः ।। १३ ।।