सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ००१

विकिस्रोतः तः
योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)
सर्गः ००१
अज्ञातलेखकः
सर्गः २ →
निर्वाणप्रकरणस्य पूर्वार्धम्

सर्गः १

सर्गः २

सर्गः ३

सर्गः ४

सर्गः ५

सर्गः ६

सर्गः ७

सर्गः ८

सर्गः ९

सर्गः १०

सर्गः ११

सर्गः १२

सर्गः १३

सर्गः १४

सर्गः १५

सर्गः १६

सर्गः १७

सर्गः १८

सर्गः १९

सर्गः २०

सर्गः २१

सर्गः २२

सर्गः २३

सर्गः २४

सर्गः २५

सर्गः २६

सर्गः २७

सर्गः २८

सर्गः २९

सर्गः ३०

सर्गः ३१

सर्गः ३२

सर्गः ३३

सर्गः ३४

सर्गः ३५

सर्गः ३६

सर्गः ३७

सर्गः ३८

सर्गः ३९

सर्गः ४०

सर्गः ४१

सर्गः ४२

सर्गः ४३

सर्गः ४४

सर्गः ४५

सर्गः ४६

सर्गः ४७

सर्गः ४८

सर्गः ४९

सर्गः ५०

सर्गः ५१

सर्गः ५२

सर्गः ५३

सर्गः ५४

सर्गः ५५

सर्गः ५६

सर्गः ५७

सर्गः ५८

सर्गः ५९

सर्गः ६०

सर्गः ६१

सर्गः ६२

सर्गः ६३

सर्गः ६४

सर्गः ६५

सर्गः ६६

सर्गः ६७

सर्गः ६८

सर्गः ६९

सर्गः ७०

सर्गः ७१

सर्गः ७२

सर्गः ७३

सर्गः ७४

सर्गः ७५

सर्गः ७६

सर्गः ७७

सर्गः ७८

सर्गः ७९

सर्गः ८०

सर्गः ८१

सर्गः ८२

सर्गः ८३

सर्गः ८४

सर्गः ८५

सर्गः ८६

सर्गः ८७

सर्गः ८८

सर्गः ८९

सर्गः ९०

सर्गः ९१

सर्गः ९२

सर्गः ९३

सर्गः ९४

सर्गः ९५

सर्गः ९६

सर्गः ९७

सर्गः ९८

सर्गः ९९

सर्गः १००

सर्गः १०१

सर्गः १०२

सर्गः १०३

सर्गः १०४

सर्गः १०५

सर्गः १०६

सर्गः १०७

सर्गः १०८

सर्गः १०९

सर्गः ११०

सर्गः १११

सर्गः ११२

सर्गः ११३

सर्गः ११४

सर्गः ११५

सर्गः ११६

सर्गः ११७

सर्गः ११८

सर्गः ११९

सर्गः १२०

सर्गः १२१

सर्गः १२२

सर्गः १२३

सर्गः १२४

सर्गः १२५

सर्गः १२६

सर्गः १२७

सर्गः १२८


प्रथमः सर्गः १
श्रीवाल्मीकिरुवाच ।
उपशमप्रकरणादनन्तरमिदं श्रृणु ।
त्वं निर्वाणप्रकरणं ज्ञातं निर्वाणदायि यत् ।। १
कथयत्येवमुद्दामवचने मुनिनायके ।
श्रवणैकरसे मौनस्थिते राजकुमारके ।। २
मुनिवागर्थनिक्षिप्तमनस्यस्ततपःक्रिये ।
राजलोके गतस्पन्दे चित्रार्पित इव स्थिते ।। ३
वसिष्ठवचसामर्थं विचारयति सादरम् ।
लसदङ्गुलिभङ्गेन मुनिसार्थे स्फुरद्भुवि ।। ४
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालिनि ।
पुरन्ध्रिवर्गे गम्भीरतरुमञ्जरितां गते ।। ५
खे वासरचतुर्भागदेशे दिनकरे स्थिते ।
किंचिज्ज्ञानोदयात्सौम्ये किंचिच्छममुपेयुषि ।। ६
श्रवणायेव संशान्ते वितानस्पन्दमालिते ।
मौनं मरुति मन्दारमधुरामोददायिनि ।। ७
पुष्पदामसुषुप्तासु महाभ्रमरपंक्तिषु ।
ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्विव ।। ८
मुक्ताजालकलापान्तर्गतास्वन्तरभूमिषु ।
कचत्यपगतस्पन्दं तोये श्रोतुमिवास्थिते ।। ९
गृहान्तरं प्रविष्टेषु गवाक्षे दूरमंशुषु ।
विश्रामार्थमिवादीर्घं नभःपान्थेषु शीतलम् ।। १०
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्मनि ।
शंसतीव शमं शाम्यद्दिनदेहे दिवातपे ।। ११
करे लीलासरोजेषु शेखरेषु च भूभृताम् ।
श्रुत्वा सुरसमामोदादवृत्तिषु मनस्स्विव ।। १२
बालकेष्वज्ञलोकेषु लीलापक्षिषु सादरम् ।
भोजनार्थं वधूलोकमुपरुन्धत्स्वनारतम् ।। १३
भ्रमद्भ्रमरपक्षोत्थवातधूतरजस्यलम् ।
कौमुदे परिविश्रान्ते चामरेष्वक्षिपक्ष्मसु ।। १४
रश्मिष्वगगुहोन्मुक्तच्छायाजालभयादिव ।
गवाक्षादिष्विवोड्डीय प्रविष्टेषु गृहान्तरम् ।। १५
आसीद्दिनचतुर्भागसत्तावेदनतत्परः ।
भेरीपटहशङ्खानां दिङ्मुखापूरको ध्वनिः ।। १६
तेन तत्तारमप्याशु वचोऽन्तर्धानमाययौ ।
मौनं जलदनादेन मायूर इव निस्वनः ।। १७
आक्षुब्धा क्षुब्धपक्षालिः पञ्जरस्था खगावली ।
भूकम्पे तरसाऽऽतालीपल्लवेव वनावली ।। १८
आययुर्भयवित्रस्ता बाला धात्रीकुचान्तरम् ।
सारवं प्रावृषीवाब्दाः प्रोन्नतं श्रृङ्गकोटरम् ।। १९
उत्तस्थुरवतंसेभ्यो भूभृतां भ्रमरस्रजः ।
ईषत्करालवाहाभ्यः सरिद्भ्योऽम्बुकणा इव ।। २०
एवं प्रक्षुभिते तस्मिन्गृहे दाशरथे तदा ।
प्राप्ते वासरवृद्धत्वे शान्तशङ्खस्वने शनैः ।। २१
संहरन्प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् ।
उवाच मुनिशार्दूलः सभामध्ये रघूद्वहम् ।। २२
राघवानघ वाग्जालं मयैतत्प्रविसारितम् ।
तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय ।। २३
कच्चिद्गृहीतो भवता मद्गिरामर्थ ईदृशः ।
त्यक्त्वा दुर्बोधमक्षीणो हंसेनेवाम्भसः पयः ।। २४
विचार्यैतदशेषेण स्वधियैवं पुनःपुनः ।
अनेनैव पथा साधो गन्तव्यं भवताधुना ।। २५
अनयैव धिया राम विहरन्नैव बध्यसे ।
अन्यथाधः पतस्याशु विन्ध्यखाते यथा गजः ।। २६
सुगृहीतं धिया राम मद्वचो न करोषि चेत् ।
तत्पतस्यवटे त्यक्तदीपो वान्धो निशास्विव ।। २७
असङ्गेन यथाप्राप्तो व्यवहारोऽस्य सिद्धये ।
इत्येव शास्त्रसिद्धान्तमादायोदारवान्भव ।। २८
हे सभ्या हे महाराज रामलक्ष्मणभूमिपाः ।
सर्व एव भवन्तोऽद्य तावद्व्यापारमाह्निकम् ।। २९
कुर्वन्त्वयं हि दिवसः प्रायः परिणताकृतिः ।
शेषं विचारयिष्यामो विचार्यं प्रातरागताः ।। ३०
श्रीवाल्मीकिरुवाच ।
इत्युक्ता मुनिना तेन सा सर्वैव तदा सभा ।
प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी ।। ३१
राजानः स्तुतराजानः कृतराघववन्दनाः ।
परिष्टुते वसिष्ठे ते जग्मुरात्मनिवेशनम् ।। ३२
विश्वामित्रेण सहितो वसिष्ठो गन्तुमाश्रमम् ।
उत्तस्थावासनाच्छ्रीमान्नमस्कृतनभश्चरः ।। ३३
दशरथप्रभृतयो राजानो मुनयस्तथा ।
यथानुरूपं वक्तारमनुगम्य मुनिं चिरम् ।। ३४
आपृच्छ्य केचिद्गगनं ययुः केचिद्वनान्तरम् ।
केचिद्राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव ।। ३५
वसिष्ठपादयोस्त्यक्त्वा पुष्पाञ्जलिमनाविलम् ।
दारैरनुगतो राजा प्रविवेश गृहान्तरम् ।। ३६
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः ।
अभ्यर्च्य चरणौ भक्त्या त्वाजग्मुर्नृपमन्दिरम् ।। ३७
सदनानि समासाद्य श्रोतारः सर्व एव ते ।
सस्नुरानर्चुरभ्येयुर्देवान्विप्रान्पितृंस्तथा ।। ३८
यथाक्रमं स्वभृत्यान्तैर्विप्राद्यैश्च परिच्छदैः ।
समं बुभुजिरे भोज्यं वर्णधर्मक्रमोदितम् ।। ३९
अस्तं गते दिनकरे समं दिवसकर्मभिः ।
अभ्यागते रात्रिकरे समं रजनिकर्मभिः ।। ४०
स्थित्वा तल्पेषु कौशेयशयनेष्वासनेषु च ।
भूचरा मुनिराजानो राजपुत्रा महर्षयः ।। ४१
संसारोत्तरणोपायं वसिष्ठवदनेरितम् ।
यथावदेकाग्रधियश्चिन्तयामासुरादृताः ।। ४२
ततः प्रहरमात्रेण निद्रामामुद्रिताननाः ।
उत्स्वप्नसुन्दरीमीयुः पद्मा इव दिनार्थिनः ।। ४३
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयमेव तत् ।
वासिष्ठमुपदेशं ते चिन्तयामासुरक्षतम् ।। ४४
प्रहरस्यार्धमात्रं ते तत आमुद्रितेक्षणाः ।
उत्स्वप्नमाययुर्निद्रां क्षणाद्विद्रावितश्रमाम् ।। ४५
इति शुभमनसां विवेकभाजा-
मधिगतसारतयोदिताशयानाम् ।
अभजत विरतिं तदा त्रियामा
मलिननिशाकरवक्रतां जगाम ।। ४६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे दिवसव्यवहारवर्णनं नाम प्रथमः सर्गः ।। १ ।।