योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ००९

विकिस्रोतः तः


नवमः सर्गः ९
श्रीराम उवाच ।
आकारजातमुदितं शुद्धं हरिहराद्यपि ।
अविद्यैवेत्यहं श्रुत्वा ब्रह्मन्भ्रममिवागतः ।। १
श्रीवसिष्ठ उवाच ।
संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् ।
तत्सच्चिदाभासमयमस्तीह कलनोज्झितम् ।। २
समुदेति स्वतस्तस्मात्कला कलनरूपिणी ।
जलादावर्तलेखेव स्फुरज्जलतयोदिता ।। ३
सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा ।
पश्चान्मनस्तया तेन ज्ञातैव वपुषा पुनः ।। ४
तिष्ठत्येतास्ववस्थासु भेदतः कल्प्यते त्रिधा ।
सत्त्वं रजस्तम इति एषैव प्रकृतिः स्मृता ।। ५
अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् ।
एषैव संसृतिर्जन्तोरस्याः पारं परं पदम् ।। ६
अत्र ते ये त्रयः प्रोक्ता गुणास्तेऽपि त्रिधा स्मृताः ।
सत्त्वं रजस्तम इति प्रत्येकं भिद्यते गुणः ।। ७
नवधैवं विभक्तेयमविद्या गुणभेदतः ।
यावत्किंचिदिदं दृश्यमनयैव तदाश्रितम् ।। ८
ऋषयो मुनयः सिद्धा नागा विद्याधराः सुराः ।
इति भागमविद्यायाः सात्त्विकं विद्धि राघव ।। ९
सात्त्विकस्यास्य भागस्य नागविद्याधरास्तमः ।
रजस्तु मुनयः सिद्धाः सत्त्वं देवा हरादयः ।। १०
सत्त्वजातौ देवयोनावविद्या प्राकृतैर्गुणैः ।
निर्मलं पदमायाताः सत्त्वं हरिहरादयः ।। ११
सात्त्विकः प्राकृतो भागो राम तज्ज्ञो हि यो भवेत् ।
न समुत्पद्यते भूयस्तेनासौ मुक्त उच्यते। ।। १२
तेन रुद्रादयो ह्येते सत्त्वभागा महामते ।
तिष्ठन्ति मुक्ताः पुरुषा यावद्देहं जगत्स्थितौ ।। १३
यावद्देहं महात्मानो जीवन्मुक्ता व्यवस्थिताः ।
विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वरे ।। १४
भाग एष त्वविद्याया एवं विद्यात्वमागतः ।
बीजं फलत्वमायाति फलमायाति बीजताम् ।। १२
उदेत्यविद्या विद्यायाः सलिलादिव बुद्बुदः ।
विद्यायां लीयतेऽविद्या पयसीव हि बुद्बुदः ।। १६
पयस्तरङ्गयोर्द्वित्वभावनादेव भिन्नता ।
विद्याविद्यादृशोर्भेदभावनादेव भिन्नता ।। १७
पयस्तरङ्गयोरैक्यं यथैव परमार्थतः ।
नाविद्यात्वं न विद्यात्वमिह किंचन विद्यते ।। १८
विद्याविद्यादृशौ त्यक्त्वा यदस्तीह तदस्ति हि ।
प्रतियोगिव्यवच्छेदवशादेतद्रघूद्वह ।। १९
विद्याविद्यादृशौ न स्तः शेषे बद्धपदो भव ।
नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया ।। २०
किंचिदस्ति नकिंचिद्यच्चित्संविदिति तत्स्थितम् ।
तदेवाविदिताभासं सदविद्येत्युदाहृतम् ।। २१
विदितं सत्तदेवेदमविद्याक्षयसंज्ञितम् ।
विद्याभावादविद्याख्यामिथ्यैवोदेति कल्पना ।। २२
मिथः स्वान्ते तयोरन्तश्छायातपनयोरिव ।
अविद्यायां विलीनायां क्षीणे द्वे एव कल्पने ।। २३
एते राघव लीयेते अवाप्यं परिशिष्यते ।
अविद्यासंक्षयात्क्षीणो विद्यापक्षोऽपि राघव ।। २४
यच्छिष्टं तन्न किंचिद्वा किंचिद्वापीदमाततम् ।
तत्रैवं दृश्यते सर्वं न किंचन च दृश्यते ।। २५
वटश्च वटधानायामिव पुष्पफलादिमान् ।
सर्वशक्तिर्हि किंचित्त्वं सर्वशक्तिसमुद्गकम् ।। २६
नभसोऽप्यधिकं शून्यं नच शून्यं चिदात्मकम् ।
सूर्यकान्ते यथा वह्निर्यथा क्षीरे घृतं तथा ।। २७
तत्रेदं संस्थितं सर्वं देशकालक्रमोदये ।
यथा स्फुलिङ्गा अनलाद्यथा भासो दिवाकरात् ।। २८
तस्मात्तथेमा निर्यान्ति स्फुरन्त्याः संविदश्चितः ।
यथाम्भोधिस्तरङ्गाणां यथामलमणिस्त्विषाम् ।। २९
कोशो नित्यमनन्तानां तथा तत्संविदां त्विषाम् ।
सबाह्याभ्यन्तरे सर्वं वस्तुन्यस्त्येव वस्तुसत् ।। ३०
सर्वदैवाविनाशात्म कुम्भानां गगनं यथा ।
यथा मणेरयःस्पन्दे अयस्कान्तस्य कर्तृता ।। ३१
अकर्तुरेव हि तथा कर्तृता तस्य कथ्यते ।
मणिसंनिधिमात्रेण यथायः स्पन्दते जडम ।
तत्सत्तया तथैवायं देहश्चेतत्यचिद्वपुः ।। ३२
तत्र स्थितं जगदिदं जगदेकबीजे
चिन्नाम्नि संविदितकल्पितकल्पनेन ।
लोलोर्मिजालमिव वारिणि चित्ररूपं
खादप्यरूपवति यत्र न किंचिदस्ति ।। ३३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० विद्यानिराकरणं नाम नवमः सर्गः ।। ९ ।।