सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०८७

विकिस्रोतः तः


सप्ताशीतितमः सर्गः ८७
शिखिध्वज उवाच ।
सर्गे स्फुरद्भिर्मत्पुण्यैर्मन्ये संप्रेषितो भवान् ।
अलक्ष्यैः संभृतैरद्रौ बृहद्वातैरिवाम्बुदः ।। १
अद्य तिष्ठाम्यहं साधो धन्यानां धुरि धर्मतः ।
अमृतस्यन्दिवचसा यत्त्वयास्मि समागतः ।। २
न केचन तथा भावाश्चेतः शीतलयन्ति मे ।
राज्यलाभादयोऽप्येते यथा साधुसमागमः ।। ३
निरर्गलरसो यत्र सामान्येन विजृम्भते ।
मुक्तरागादिमननं तत्कल्पनसुखावहम् ।। ४
श्रीवसिष्ठ उवाच ।
एवंवादिनि सैवास्य वाक्यमाक्षिप्य भूपतेः ।
भूयः प्रोवाच चूडाला मुनिदारकरूपिणी ।। ५
चूडालोवाच ।
आस्तामेषा कथा तावत्सर्वं ते वर्णितं मया ।
त्वं मे कथय हे साधो कस्त्वमद्रौ करोषि किम् ।। ६
कियत्पर्यवसानेयं भवतो वनवासिता ।
सत्यं कार्यं च नोऽसत्यं वक्तुं जानन्ति तापसाः ।। ७
शिखिध्वज उवाच ।
देवपुत्रोऽसि जानासि सर्वमेव यथास्थितम् ।
लोकवृत्तान्ततज्ज्ञोऽसि किमन्यत्कथयाम्यहम् ।। ८
संसारभयभीतत्वान्निवसामि वनान्तरे ।
जानतोपि हि मामार्य कथयाम्येव ते मनाक् ।। ९
शिखिध्वजोऽहं भूपालस्त्यक्त्वा राज्यमिहास्थितः ।
भृशं भीतोस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः ।। १०
सुखं पुनः पुनर्दुःखं पुनर्मरणजन्मनी ।
भवतस्तेन तप्येऽहं तत्त्वज्ञ वनवीथिषु ।। ११
भ्रमन्नपि दिगन्तेषु चरन्नपि परंतपः ।
नासादयामि विश्रान्तिमेकां निधिमिवाधनः ।। १२
अयत्नोऽप्यफलोऽप्येको ह्यपूर्णोऽप्यस्तसंगतिः ।
शुष्याम्यत्र वने साधो घुणक्षुण्ण इव द्रुमः ।। १३
इमामखण्डितां सम्यक् क्रियां संपादयन्नपि ।
दुःखाद्गच्छामि दुःखौघममृतं मे विषं स्थितम् ।। १४
चूडालोवाच ।
पितामहमहं पूर्वं कदाचित्पृष्टवानिदम् ।
यत्क्रियाज्ञानयोरेकं श्रेयस्तद्ब्रूहि मे प्रभो ।। १५
ब्रह्मोवाच ।
ज्ञानं हि परमं श्रेयः कैवल्यं तेन वेत्त्यलम् ।
कालातिवाहनायैव विनोदायोदिता क्रिया ।। १६
अलब्धज्ञानदृष्टीनां क्रिया पुत्रपरायणम् ।
यस्य नास्त्यम्बरं पट्टं कम्बलं किं त्यजत्यसौ ।। १७
वासनामात्रसारत्वादज्ञस्य सफलाः क्रियाः ।
सर्वा एवाफला ज्ञस्य वासनामात्रसंक्षयात् ।। १८
सर्वा हि वासनाभावे प्रयान्त्यफलतां क्रियाः ।
अशुभाः फलवन्त्योपि सेकाभावे लता इव ।। १९
ऋत्वन्तरे यथा याति विलयं पूर्वमार्तवम् ।
तथैव वासनानाशे नाशमेति क्रियाफलम् ।। २०
न स्वभावेन फलति यथा शरलता फलम् ।
क्रिया निर्वासना पुत्र फलं फलति नो तथा ।। २१
सयक्षवासनो बालो यक्षं पश्यति नान्यथा ।
सदुःखवासनो मूढो दुःखं पश्यति नान्यथा ।। २२
आकारभासुरात्युच्चैर्न ददाति फलं क्रिया ।
शुभाशुभा वा तज्ज्ञस्य फुल्ला शरलता यथा ।। २३
वासना चेह नास्त्येव साहंकारादिरूपिणी ।
असत्यैवोदिता मौर्ख्यान्मरुभूमाविवाम्बुधिः ।। २४
यस्य मौर्ख्यं क्षयं यातं सर्वं ब्रह्मेति भावनात् ।
नोदेति वासना तस्य प्राज्ञस्येवाम्बुधिर्मरौ ।। २५
वासनामात्रसंत्यागाज्जरामरणवर्जितम् ।
पदं भवति जीवोऽन्तर्भूयो जन्मविवर्जितम् ।। २६
सवासनं मनो ज्ञेयं ज्ञानं निर्वासनं मनः ।
ज्ञानेन ज्ञेयमभ्येत्य पुनर्जीवो न जायते ।। २७
चूडालोवाच ।
ज्ञानमेव परं श्रेय इति ब्रह्मादयोऽपि ते ।
प्राहुर्महान्तो राजर्षे त्वं किमज्ञानवान्स्थितः ।। २८
इतः कमण्डलुरितो दण्डकाष्ठमितो बृसी ।
इत्यनर्थविलासेऽस्मिन्रमसे किं महीपते ।। २९
कोऽहं कथमिदं जातं कथं शाम्यति चेति भोः ।
राजन्नावेक्षसे कस्मात्किमज्ञ इव तिष्ठसि ।। ३०
कथं बन्धः कथं मोक्ष इति प्रश्रानुदाहरन् ।
पारावारविदां पादान्कस्माद्राजन्न सेवसे ।। ३१
दुःस्पन्दसंविदा शैलकोटरे क्रिययानया ।
जीवितं क्षिपयन्किं त्वं शिलाकीटवदास्थितः ।। ३२
साधूनां समदृष्टीनां परिप्रश्नेन सेवया ।
संगमेन च सा युक्तिर्लभ्यते मुच्यते यया ।। ३३
साधुनैव समं ग्रासं भुञ्जानो वनकोटरे ।
तिष्ठावष्टब्धदुश्चेष्टो धराविवरकीटवत् ।। ३४
श्रीवसिष्ठ उवाच ।
कान्तया देवरूपिण्या तयैवं प्रतिबोधितः ।
अश्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह ।। ३५
शिखिध्वज उवाच ।
अहो नु बोधितोऽस्म्यद्य चिरात्सुरसुत त्वया ।
मौर्ख्यादार्यसमासङ्गं मुक्त्वाहमवसं वने ।। ३६
अहो नु मे क्षयं यातं मन्ये पापमशेषतः ।
यत्त्वमेव समागत्य संप्रबोधयसीह माम् ।। ३७
गुरुस्त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन ।
शिष्यो नमस्करोम्यद्य पादौ तव कृपां कुरु ।। ३८
यदुदारतमं वेत्सि यस्मिन् ज्ञाते न शोच्यते ।
भवामि निर्वृतो येन तद्ब्रह्मोपदिशाशु मे ।। ३९
घटज्ञानादयो ज्ञाने विभागाः सन्त्यनेकशः ।
ज्ञानानां परमं ज्ञानं कतरत्तारकं भवेत् ।।
चूडालोवाच ।
यद्युपादेयवाक्योऽहं राजर्षे तद्वदामि ते ।
यथा ज्ञानमिदं किंचिन्न वक्ष्ये स्थाणुकाकवत् ।। ४१
अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया ।
व्रजन्त्यफलतां वाचस्तमसीवाक्षसंविदः ।। ४२
शिखिध्वज उवाच ।
यद्वक्षि तदुपादेयं मया विधिरिव श्रुतेः ।
अविचारितमेवाशु सत्यमेतद्वचो मम ।। ४३
चूडालोवाच ।
यथा बालः पितुर्वाक्यं मुक्तहेतूपपादनम् ।
आदत्ते हि तथैव त्वं गृहाणैतद्वचो मम ।। ४४
श्रवणानन्तरं बुद्ध्या शुभमित्येव भावयन् ।
श्रृणु गीतमिव त्यक्त्वा हेत्वर्थित्वं वचो मम ।। ४५
स्वचरितसदृशं तथोदयन्त्या-
श्चिरसमयेन विबोधनं च बुद्धेः ।
भवभयसुतरं महामतीनां
श्रृणु कथयामि कथाक्रमं मनोज्ञम् ।। ४६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० पू० चू० शिखिध्वजावबोधो नाम सप्ताशीतितमः सर्गः ।।८७।।