योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ११५

विकिस्रोतः तः


पञ्चदशाधिकशततमः सर्गः ११५
श्रीवसिष्ठ उवाच ।
महाकर्ता महाभोक्ता महात्यागी भवानघ ।
सर्वाः शङ्काः परित्यज्य धैर्यमालम्ब्य शाश्वतम् ।। १
श्रीराम उवाच ।
किमुच्यते महाकर्ता महात्यागी किमुच्यते ।
किमुच्यते महाभोक्ता सम्यक्कथय मे प्रभो ।। २
श्रीवसिष्ठ उवाच ।
एतद्व्रतत्रयं राम पुरा चन्द्रार्धमौलिना ।
भृङ्गीशाय तु संप्रोक्तं येनासौ विज्वरः स्थितः ।। ३
सुमेरावुत्तरे श्रृङ्गे पूर्वं शशिकलाधरः ।
अतिष्ठदग्निसंकाशे समग्रपरिवारवान् ।। ४
तमपृच्छन्महातेजास्तनुविज्ञानवान्स्थितः ।
भृङ्गीशः प्रणतो राम बद्धाञ्जलिरुमापतिम् ।। ५
भृङ्गीश उवाच ।
भगवन्देवदेवेश सर्वज्ञ परमेश्वर ।
यदहं परिपृच्छामि कृपया तद्वदाशु मे ।। ६
संसाररचनां नाथ तरङ्गतरलामिमाम् ।
अवलोक्य विमुह्यामि तत्त्वविश्रान्तिवर्जितः ।। ७
कमन्तर्निश्चयं कान्तमुररीकृत्य सुस्थितम् ।
अस्मिञ्जगज्जीर्णगृहे तिष्ठामि विगतज्वरम् ।। ८
ईश्वर उवाच ।
सर्वाः शङ्काः परित्यज्य धैर्यमालम्ब्य शाश्वतम् ।
महाभोक्ता महाकर्ता महात्यागी भवानघ ।। ९
भृङ्गीश उवाच ।
किमुच्यते महाकर्ता महाभोक्ता किमुच्यते ।
किमुच्यते महात्यागी सम्यक्कथय मे प्रभो ।। १०
ईश्वर उवाच ।
धर्माधर्मौ महाभाग शङ्काविरहिताक्षयः ।
यः करोति यथाप्राप्तौ महाकर्ता स उच्यते ।। ११
रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ।
यः करोत्यनपेक्षेण महाकर्ता स उच्यते ।। १२
मौनवान्निरहंभावो निर्मलो मुक्तमत्सरः ।
यः करोति गतोद्वेगं महाकर्ता स उच्यते ।। १३
शुभाशुभेषु कार्येषु धर्माधर्मैः कुशङ्कया ।
मतिर्न लिप्यते यस्य महाकर्ता स उच्यते ।। १४
सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः ।
निरिच्छं वर्तते कार्ये महाकर्ता स उच्यते ।। १५
उद्वेगानन्दरहितः समया स्वच्छया धिया ।
न शोचते यो नोदेति महाकर्ता स उच्यते ।। १६
यथार्थकाले मतिमानसंसक्तमना मुनिः ।
कार्यानुरूपवृत्तस्थो महाकर्ता स उच्यते ।। १७
उदासीनः कर्तृतां च कर्माकर्माचरंश्च यः ।
समं यात्यन्तरत्यन्तं महाकर्ता स उच्यते ।। १८
स्वभावेनैव यः शान्तः समतां न जहाति वै ।
शुभाशुभं ह्याचरन्यो महाकर्ता स उच्यते ।। १९
जन्मस्थितिविनाशेषु सोदयास्तमयेषु च ।
सममेव मनो यस्य महाकर्ता स उच्यते ।। २०
न किंचन द्वेष्टि तथा न किंचिदभिकाङ्क्षति ।
भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते ।। २१
नादत्तेऽप्याददानश्च नाचरत्याचरन्नपि ।
भुञ्जानोऽपि न यो भुङ्क्ते महाभोक्ता स उच्यते ।।२२
साक्षिवत्सकलं लोकव्यवहारमखिन्नधीः ।
पश्यत्यपगतेच्छं यो महाभोक्ता स उच्यते ।। २३
सुखैर्दुःखैः क्रियायोगैर्भावाभावैर्भ्रमप्रदैः ।
यस्य नोत्क्रामति मतिर्महाभोक्ता स उच्यते ।। २४
जरा मरणमापच्च राज्ये दारिद्र्यमेव च ।
रम्यमित्येव यो वेत्ति महाभोक्ता स उच्यते ।। २५
महान्ति सुखदुःखानि यः पयांसीव सागरः ।
समं समुपगृह्णाति महाभोक्ता स उच्यते। ।। २६
अहिंसा समता तुष्टिश्चन्द्रबिम्बादिवांशवः ।
नोप यस्माच्चोपयाता महाभोक्ता स उच्यते ।। २७
कट्वम्ललवणं तिक्तममृष्टं मृष्टमुत्तमम् ।
अधमं योऽत्ति साम्येन महाभोक्ता स उच्यते ।।२८
सरसं नीरसं चैव सुरतं विरतं तथा ।
यः पश्यति समं सौम्यो महाभोक्ता स उच्यते ।।२९
क्षारे खण्डप्रकारे च शुभे वाप्यशुभे तथा ।
समता सुस्थिरा यस्य महाभोक्ता स उच्यते ।। ३०
इदं भोज्यमभोज्यं चेत्येवं त्यक्त्वा विकल्पितम् ।
गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते ।। ३१
आपदं संपदं मोहमानन्दमपरं परम् ।
यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते ।। ३२
धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी ।
धिया येनेति संत्यक्तं महात्यागी स उच्यते ।। ३३
सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः ।
धिया येन परित्यक्ता महात्यागी स उच्यते ।। ३४
देहस्य मनसो दुःखैरिन्द्रियाणां मनःस्थितेः ।
नूनं येनोज्झिता सत्ता महात्यागी स उच्यते ।। ३५
न मे देहो न जन्मापि युक्तायुक्ते न कर्मणी ।
इति निश्चयवानन्तर्महात्यागी स उच्यते ।। ३६
येन धर्ममधर्मं च मनोमननमीहितम् ।
सर्वमन्तः परित्यक्तं महात्यागी स उच्यते ।। ३७
यावती दृश्यकलना सकलेयं विलोक्यते ।
सा येन सुष्ठु संत्यक्ता महात्यागी स उच्यते ।। ३८
इत्युक्तं देवदेवेन भृङ्गीशाय पुरानघ ।
एतां दृष्टिमवष्टभ्य तिष्ठ राम गतज्वरः ।। ३९
नित्योदितं विमलरूपमनन्तमाद्यं
ब्रह्मास्ति नेतरकलाकलनं हि किंचित् ।
इत्येव भावय निरञ्जनतामुपेतो
निर्वाणमेहि सकलामलशान्तवृत्तिः ।। ४०
अनामयं ब्रह्म समस्तकल्प
कार्यैकबीजं परमात्मरूपम् ।
बृहच्च तद्ब्रंहितसर्वभावं
खमस्ति भातीह यदङ्ग किंचित् ।। ४१
अन्यत्क्वचित्किंचिदिदं कदाचि-
न्न संभवत्येव सदप्यसच्च ।
इत्येव साधो दृढनिश्चयोऽन्तः
स्थित्वा गताशङ्कविलासमास्स्व ।। ४२
अन्तर्मुखः सन्सततं समस्तं
कुर्वन्बहिष्ठं खलु कार्यजातम् ।
न खेदमायासि कदाचिदेव
निराकृताहंकृतितामुपैषि ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०मो० निर्वाणप्रकरणे पू० व्रतत्रयनिरूपणं नाम पञ्चदशाधिकशततमः सर्गः ।। ११५ ।।