योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०७०

विकिस्रोतः तः


सप्ततितमः सर्गः ७०
श्रीवसिष्ठ उवाच ।
जीवोऽजीवो भवत्याशु याति चित्तमचित्तताम् ।
विचारादित्यविद्यान्तो मोक्ष इत्यभिधीयते ।। १
मृगतृष्णाजलमिव मनोऽहंतादि दृश्यते ।
असदेव मनागेव तद्विचारात्प्रलीयते ।। २
संसृतिस्वप्नविभ्रान्तौ वेतालोदाहृतानिमान् ।
प्रश्नानाकर्णय शुभान्प्रसङ्गात्स्मृतिमागतान् ।। ३
अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः ।
स किंचिन्मण्डलं गर्वादाजगाम जिघांसया ।। ४
स वेतालोऽवसत्पूर्वं कस्मिंश्चित्सज्जनास्पदे ।
बहुबल्युपहारेण नित्यतृप्ततया सुखी ।। ५
निर्निमित्तं निरागस्कं पुरोऽप्यभ्यागतं न सः ।
क्षुधितोऽपि नरं हन्ति सन्तो हि न्यायदर्शकाः ।। ६
स कालेनाटवीगेहो जगाम नगरान्तरम् ।
न्याययुक्त्या जनं भोक्तुं क्षुधा समभिचोदितः ।। ७
तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम् ।
तमाह घनघोरेण शब्देनोग्रनिशाचरः ।। ८
वेताल उवाच ।
राजँल्लब्धोऽसि भीमेन वेतालेन मयाधुना ।
क्व गच्छसि विनष्टोऽसि भव भोजनमद्य मे ।। ९
राजोवाच ।
हे रात्रिचर निर्न्याय्यं मां चेदत्सि बलादिह ।
तत्ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः ।। १०
वेताल उवाच ।
न त्वामद्म्यहमन्यायं न्यायोऽयं हि मयोच्यते ।
राजासि सकलाशाश्च पूरणीयास्त्वयार्थिनाम् ।। ११
ममैतामर्थितां राजन्संभवार्थां प्रपूरय ।
प्रश्नानिमान्मयोक्तांस्त्वं सम्यगाख्यातुमर्हसि ।। १२
कस्य सूर्यस्य रश्मीनां ब्रह्माण्डान्यणवः कृशाः ।
कस्मिन्स्फुरन्ति पवने महागगनरेणवः ।। १३
स्वप्नात्स्वप्नान्तरं गच्छञ्छतशोऽथ सहस्रशः ।
त्यजन्न त्यजति स्वच्छं कः स्वरूपं प्रभास्वरम् ।। १४
रम्भास्तम्भो यथा पत्रमात्रमेवं पुनःपुनः ।
अन्तरन्तस्तथान्तश्च तथा कोऽणुः स एव हि ।। १५
ब्रह्माण्डाकाशभूतौघसूर्यमण्डलमेरवः ।
अपरित्यजतोऽणुत्वं कस्याणोः परमाणवः ।। १५
कस्यानवयवस्यैव परमाणुमहागिरेः ।
शिलान्तर्निविडैकान्तरूपमज्जा जगत्त्रयी ।। १७
इति कथयसि चेन्न मे दुरात्मं-
स्तदिह निगीर्य भवन्तमात्मघातिन् ।
फलमिव तव मण्डलं ग्रसेयं
प्रसभमुपेत्य जगद्यथा कृतान्तः ।। १८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० वेतालप्रश्नो नाम सप्ततितमः सर्गः ।। ७० ।।