योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १०७

विकिस्रोतः तः
Jump to navigation Jump to search


सप्ताधिकशततमः सर्गः १०७
श्रीवसिष्ठ उवाच ।
अथ सूर्याख्यरङ्गेण रञ्जिते भुवनोदरे ।
शिखिध्वजाङ्गना प्रातर्मदनी कुम्भतां ययौ ।। १
एवं महेन्द्रदर्यां तावुभौ कुम्भशिखिध्वजौ ।
स्वयं विवाहिताविष्टौ संपन्नौ देवदंपती ।। २
विलेसतुर्विचित्रासु प्रत्यहं वनराजिषु ।
प्रपक्वफलभारासु पुष्पपल्लविनीषु च ।। ३
दिवा प्रीततरौ मित्रे यामिन्यामिष्टदंपती ।
प्रभादीपाविव श्लिष्टौ न वियुक्तौ बभूवतुः ।। ४
रेमाते वनकुञ्जेषु गुहासु च महीभृताम् ।
तमालजालखण्डेषु मन्दारगहनेषु च ।। ५
सह्यदर्दुरकैलासमहेन्द्रमलयेषु च ।
गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च ।। ६
दिनैस्त्रिभिस्त्रिभिर्गत्वा निद्रां गतवति प्रिये ।
चूडाला राजकार्याणि कृत्वा स्वभ्याययौ पुनः ।। ७
तौ दिवा सुहृदौ मित्रे दंपती कुम्भभूमिपौ ।
नानाकुसुमसंवीतौ तस्थतुर्मुदितौ मिथः ।। ८
मासमेकं महेन्द्राद्रौ रम्ये सरलसंकुले ।
रत्नकुड्ये गुहागेहे पूजितौ सुरकिंनरैः ।। ९
हस्तलभ्योदितामोघमन्दारवनमालिते ।
एवं शुक्तिमतः पृष्ठे पक्षं कल्पलतागृहे ।। १०
मासद्वयं पक्षवतो गिरेर्दक्षिणदिक्तटे ।
पारिजातवने देवपुष्पस्तबकमण्डपे ।। ११
जम्बूखण्डतले मेरोः पादे जम्बूनदीतटे ।
जाम्बूनदमये मासं जम्बूफलरसासवैः ।। १२
दशोत्तरकुरूणां च मण्डले दिवसानि तौ ।
कोसलेषूत्तरस्थेषु सप्तविंशतिवासरान् ।। १३
एवमन्येषु देशेषु विचित्रेषु महीभृताम् ।
स्थितवन्तौ महाभागौ सुहृदौ निशि दम्पती ।। १४
ततो यातेषु मासेषु शनैः कतिपयेषु सा ।
चूडाला चिन्तयामास देवपुत्रकरूपिणी ।। १५
सुरूपभोगभारेण परीक्षेऽहं शिखिध्वजम् ।


मा कदाचन चेतोऽस्य भोगेषु रतिमेष्यति ।। १६
इति संचिन्त्य चूडाला मायया विपिनावनौ ।
आगतं दर्शयामास ससुराप्सरसं हरिम् ।। १७
इन्द्रमभ्यागतं दृष्ट्वा परिवारसमन्वितम् ।
यथावत्पूजयामास वनसंस्थः शिखिध्वजः ।। १८
शिखिध्वज उवाच ।
आत्मना किं कृता दूरादभ्यागमकदर्थना ।
देवराज यथा तन्मे प्रसादाद्वक्तुमर्हसि ।। १९
इन्द्र उवाच ।
इमे वयमिहायातास्त्वद्गुणातिशयेन खात् ।
हृदि लग्नेन सूत्रेण खगा वनगता इव ।। २०
उत्तिष्ठ स्वर्गमागच्छ तत्र सर्वे त्वदुन्मुखाः ।
त्वद्गुणश्रवणाश्चर्याः स्थिता देवाङ्गनागणाः ।। २१
पादुकागुटिकाखङ्गरसादीदमथापि च ।
गृहीत्वा सिद्धमार्गेण स्वीकुरु स्वर्गमण्डलम् ।। २२
आगत्य विविधा भोगास्त्वया विबुधसद्मनि ।
जीवन्मुक्तेन भोक्तव्यास्तेन त्वामहमागतः ।। २३
विमानयन्ति संप्राप्तां न तिरस्करणैः श्रियम् ।
नाभिवाञ्छन्ति न प्राप्तां त्वादृशाः साधु साधवः ।। २४
अविघ्नमागतेनाद्य सुखं विहरता त्वया ।
स्वर्गः पवित्रतां यातु हरिणेव जगत्त्रयम् ।। २५
शिखिध्वज उवाच ।
सर्व स्वर्गसमाचारं वेद्मि देवाधिनायक ।
किंतु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित् ।। २६
सर्वत्रैव हि तुष्यामि सर्वत्रैव रमे प्रभो ।
अवाञ्छनत्वान्मनसः सर्वत्रानन्दवानहम् ।। २७
नियतं किंचिदेकत्र स्थितं स्वर्गकमीदृशम् ।
शक्र गन्तुं न जानामि त्वदाज्ञां न करोम्यहम् ।। २८
शक्र उवाच ।
साधो विदितवेद्यानां परिपूर्णधियां समम् ।
सज्जनाचरितं युक्तं मन्ये भोगोपसेवनम् ।। २९
देवेशे प्रोक्तवत्येवं तूष्णीमेव स्थिते नृपे ।
किमितो नापयाम्येष त्वमिति प्रोक्तवान् हरिः।। ३०
नाहमद्यैव कालेन वदतीति शिखिध्वजे ।
कल्याणं तेऽस्तु कुम्भेति वदन्नन्तर्धिमाययौ ।। ३१
तद्देववृन्दमखिलं त्रिदशेशयुक्तं
तत्र क्षणादलमदृश्यमभूद्द्वितीयम् ।
कल्लोलराशिरिव वारिनिधौ प्रशान्ते
वाते स्फुरन्मकरफेनफणीन्द्रवृन्दम् ।। ३२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शक्रगमनं नाम सप्तोत्तरशततमः सर्गः ।। १०७ ।।