सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १०३

विकिस्रोतः तः


त्र्यधिकशततमः सर्गः १०३
श्रीवसिष्ठ उवाच ।
निर्विकल्पसमाधानात्काष्ठकुड्योपमस्थितिः ।
एवं शिखिध्वजो राजा चूडालामधुना श्रृणु ।। १

शिखिध्वजं तं भर्तारं कुम्भवेषेण तेन सा ।
प्रबोध्यान्तर्धिमागत्य ततार तरसा नभः ।। २
देवपुत्राकृतिं व्योम्नि जहौ मायाविनिर्मिताम् ।
विदग्धमुग्धमाकारं स्त्रैणं जग्राह सुन्दरम् ।। ३
नभसा स्वपुरं प्राप विवेशान्तःपुरं क्षणात् ।
दृश्या बभूव लोकस्य नृपकर्म चकार च ।। ४
वासरत्रितयेनाथ पुनरम्बरमेत्य सा ।
बभूव कुम्भो योगेन शिखिध्वजवनं ययौ ।। ५
तथा तत्रैव तं भूपमपश्यद्वनभूमिगा ।
निर्विकल्पसमाधिस्थं समुत्कीर्णमिव द्रुमम् ।। ६
अहो नु खलु भो दिष्ट्या विश्रान्तोऽयमिहात्मनि ।
स्थितः स्वस्थः समः शान्त इत्युवाच पुनःपुनः ।। ७
तदेनं तावदेतस्माद्बोधयामि परात्पदात् ।
इदानीमेव किं देहत्यागमेष करोति वै ।। ८
किंचित्कालं स्फुरत्वेष राज्येन विपिनेन वा ।
सममेव गमिष्यावस्त्यक्तदेहाविमौ समौ ।। ९
तस्योपदेशो विषमः परिणामं न गच्छति ।
अनेनाभ्यासयोगेन तावदाबोधयाम्यहम् ।। १०
इति संचिन्त्य चूडाला सिंहनादं चकार सा ।
भूयोभूयः प्रभोरग्रे वनेचरभयप्रदम् ।। ११
न चचाल शिलेवाद्रौ यदा नादेन तेन सः ।
भूयोभूयः कृतेनापि तदा सा तं व्यचालयत् ।। १२
चालितः पातितोऽप्येष यदा न बुबुधे नृपः ।
तदा संचिन्तयामास चूडाला कुम्भरूपिणी ।। १३
अहो परिणतः साधुः स्वपदे भगवानयम् ।
तदेनं हि कया युक्त्या सांप्रतं बोधयाम्यहम् ।। १४
अथवैनं महात्मानं किमर्थं बोधयाम्यहम् ।
विदेहं बोधमासाद्य तिष्ठत्वेष यथासुखम् ।। १५
अहमप्यंगनादेहमिमं त्यक्त्वा परं पदम् ।
अपुनर्जननायैव गच्छामीह हि किं समम् ।। १६
इति संचिन्त्य देहं स्वं त्यक्तुमभ्युद्यता सती ।
पुनः संचिन्तयामास चूडाला सा महामतिः ।। १७
आलोकयामि चैतावदेनं देहं महीपतेः ।
यद्यस्य सत्त्वशेषोऽस्ति बोधबीजं हृदन्तरे ।। १८
तत्कालेनैष भगवान्संप्रबोधमुपैष्यति ।
मूलकोशरसालीनं पुष्पजालमिव द्रुमे ।। १९
तदेवं विरहञ्जीवन्मुक्त एव भवत्यलम् ।
मुक्तो भवत्यथ यदि मन्ये गच्छामि तत्समम् ।। २०
इति संचिन्त्य चूडाला स्पर्शनेन नयेन च ।
पतिमालोक्य साशङ्कमुवाच वरवर्णिनी ।। २१
अस्त्येव सत्त्वशेषोऽस्य हृदि संबोधकारणम् ।
संबोधहेतूदयेन सत्त्वशेषं व्यबुध्यत ।। २२
श्रीराम उवाच ।
भृशं संशान्तचित्तस्य काष्ठलोष्टसमस्थितेः ।
सत्त्वशेषः कथं ब्रह्मन्ज्ञायते ध्यानशालिनः ।। २३
श्रीवसिष्ठ उवाच ।
प्रबोधकारणं यस्य दुर्लक्ष्याणुवपुर्हृदि ।
विद्यते सत्त्वशेषोऽन्तर्बीजे पुष्पफलं यथा ।। २४
चित्तस्पन्दवियुक्तस्य तस्यास्पन्दितसच्चितः ।
द्वित्वैकत्वविहीनस्य समस्याचलसंस्थितेः ।। २५
कायः समसमाभोगो न ग्लायति न हृष्यति ।
नास्तमेति न चोदेति सममेवावतिष्ठते ।। २६
द्वित्वैकत्वादियुक्तस्य यस्य प्रस्पन्दते मनः ।
तस्य देहोऽन्यतामेति नास्पन्दस्य कदाचन ।। २७
चित्तस्पन्दो हि सर्वेषां कारणं जगतः स्थितेः ।
राम भावविकाराणां कुसुमानां यथा मधुः ।। २८
अस्मिन्प्रयास्यतो देहे चेतसो हि मुहुर्मुहुः ।
हर्षः कोपो न संमोहो वशमेति रघूद्वह ।। २९
चित्ते प्रशममायाते कायो यः सत्त्ववर्जितः ।
बाधते नाम्बरस्येव तस्य भावविकारभूः ।। ३०
वीच्यादि न यथोदेति समाया जलसंततेः ।
तथा न दृश्यते दोषः समायाः सत्त्वसंततेः ।। ३१
सत्त्वस्यानुपलम्भोऽस्ति न तस्योपशमादृते ।
यावद्भाति समं तत्त्वं कालाच्छाम्यति केवलम् ।।३२
देहे यस्मिंस्तु नो चित्तं नापि सत्त्वं च विद्यते ।
स तापे हिमवद्राम पञ्चत्वेन विलीयते ।। ३३
शिखिध्वजस्य देहोऽसौ निश्चित्तस्तेजसोर्जितः ।
सत्त्वांशेन च संयुक्तस्तेन न ग्लानिभाजनम् ।। ३४
तं तथाभूतमालोक्य भर्तुर्देहं वराङ्गना ।
अनुज्झितवती देहं चिन्तयामास सत्वरम् ।। ३५
चित्तत्त्वं सर्वगं शुद्धं प्रविश्याबोधयाम्यहम् ।
भविष्यद्बोधनं कान्तमथ तत्र हि संस्थिता ।। ३६
न बोधयामि यद्येनं चिरात्तद्बुध्यते स्वयम् ।
किमेकैवावतिष्ठेऽहमित्येवं बोधयाम्यहम् ।। ३७
इति संचिन्त्य चूडाला देहं करणपञ्जरम् ।
संत्यज्य प्राप चित्तत्त्वे स्थितिमाद्यन्तवर्जिते ।। ३८
तत्र सा चेतनास्पन्दं कृत्वा सत्त्ववतः प्रभोः ।
स्वं विवेश पुनर्देहं स्वं नीडमिव पक्षिणी ।। ३९
कुम्भाकृतिरथोत्थाय निविष्टा कुसुमस्थले ।
साम गातुं प्रवृत्ता सा भ्रमरीवृन्दनिःस्वना ।। ४०
तं सामस्वनमाकर्ण्य चित्सत्त्वगुणशालिनी ।
बुबुधे भूपतेर्देहे वसन्त इव पद्मिनी ।। ४१
दृशं विकासयामास तां तदार्क इवाब्जिनीम् ।
गृहीतसत्त्वसंपत्तिः शिखिध्वजमहीपतिः ।। ४२
अपश्यत्कुम्भमग्रस्थं सामगायनतत्परम् ।
परेण वपुषा युक्तं सामवेदमिवापरम् ।। ४३
अहो बत वयं धन्याः पुनः प्राप्तो मुनिः स्वतः ।
इत्येवोदाहरव्राजा कुम्भाय कुसुमं ददौ ।। ४४
दिष्ट्योदिताः स्मो भगवंस्तव चेतसि पावने ।
के नाम वा महासत्त्वाः प्रसादेष्वङ्ग नो स्थिताः ।। ४५
अस्मत्पवित्रीकरणमेवागमनकारणम् ।
न चेत्किं चागमे ब्रूहि द्वितीयं कारणं भवेत् ।। ४६
कुम्भ उवाच ।
यतः प्रभृति यातोऽस्मि त्वत्सकाशादनिन्दितः ।
ततः प्रभृति चेतो मे त्वयैवेह समं स्थितम् ।। ४७
रम्ये स्वर्गे न तिष्ठामि समीपे तव सांप्रतम् ।
अभीष्टमुद्यदेवाङ्ग रम्याणां तत्पुरः स्थितम् ।। ४८
त्वादृशो बन्धुराप्तश्च सुहृन्मित्रं तथा सखा ।
विश्वास्यो वापि शिष्यश्च मन्ये जगति नास्ति मे ।। ४९
शिखिध्वज उवाच ।
अहो नु फलितं पुण्यपादपैर्नः कुलाचले ।
यस्माद्भवानसङ्गोऽपि वाञ्छत्यस्मत्समागमम् ।। ५०
इदं वनमिमे वृक्षा भृत्योऽयमहमादृतः ।
रोचते ते न चेतस्वर्गस्तदिह स्थीयतां प्रभो ।। ५१
भवद्वितीर्णया योगयुक्त्या विश्रान्तवानहम् ।
यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः ।। ५२
तामेव संस्थितिं स्वच्छामवलम्ब्य प्रकाशिनीम् ।
विहरेह यथाकामं स्वर्गे भूमितले तथा ।। ५३
कुम्भ उवाच ।
परे पदे महानन्दे कच्चिद्विश्रान्तवानसि ।
इदं भेदमयं दुःखं कच्चित्संत्यक्तवानसि ।। ५४
कच्चिदापातरम्येभ्यः संकल्पेभ्यो रतिर्भृशम् ।
निर्मूलतां गता राजन्भोगनीरसमेव ते ।। ५५
हेयादेयदशातीतं शान्तं शमसमस्थिति ।
यथाप्राप्तेष्वनुद्वेगं कच्चित्तव मनःस्थितम् ।। ५६
शिखिध्वज उवाच ।
त्वत्प्रसादेन भगवन्दृष्टा दृश्यातिगा गतिः ।
प्राप्तः संसारसीमान्तो लब्धो लब्धव्यनिश्चयः ।। ५७
चिरादतिचिरेणैव विश्रान्तोऽस्मि निरामयः ।
लब्धं लव्धव्यमखिलं तृप्तः संश्चिरसंस्थितः ।। ५८
नोपदेष्टव्यमस्माकं किंचिदप्युपयुज्यते ।
सर्वत्रैवातितृप्तोऽस्मि संस्थितोऽस्मि गतज्वरः ।। ५९
ज्ञातमज्ञातमप्राप्तं त्यक्तं त्यक्तव्यमाश्रितम् ।
तत्त्वं परत्वं सत्त्वं मे स्वस्यैवास्ति न किंचन ।। ६०
निःसंसृतिर्विगतमोहभयो विरागो
नित्योदितः समसमाशयसर्वसौम्यः ।
सर्वात्मकः सकलसंकलनावियुक्त
आकाशकोशविशदः सममास्थितोऽस्मि ।। ६१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० कुम्भपुनरागमनं नाम त्र्यधिकशततमः सर्गः ।। १०३ ।।