योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०११
← सर्गः १० | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्) सर्गः ११ अज्ञातलेखकः |
सर्गः १२ → |
निर्वाणप्रकरणस्य पूर्वार्धम् | |
---|---|
एकादशः सर्गः ११
श्रीवसिष्ठ उवाच ।
पुनःपुनरिदं राम प्रबोधार्थं मयोच्यते ।
अभ्यासेन विना साधो नाभ्युदेत्यात्मभावना ।। १
अज्ञानमेतद्बलवदविद्येतरनामकम् ।
जन्मान्तरसहस्रोत्थं घनं स्थितिमुपागतम् ।। २
सबाह्याभ्यन्तरं सर्वैरिन्द्रियैरनुभूयते ।
भावाभावेषु देहस्य तेनातिघनतां गतम् ।। ३
आत्मज्ञानं तु सर्वेषामिन्द्रियाणामगोचरम् ।
सत्तां केवलमायाति मनःषष्ठेन्द्रियक्षये ।। ४
प्रोल्लङ्घयेन्द्रियजां वृत्तिं यत्स्थितं तत्कथं किल ।
याति प्रत्यक्षतां जन्तोः प्रत्यक्षातीतवृत्तिमत् ।। ५
त्वमविद्यालतामेतां प्ररूढां हृदयद्रुमे ।
ज्ञानाभ्यासविलासासिपातैश्छिन्धि स्वसिद्धये ।। ६
यथा विहरति ज्ञातज्ञेयो जनकभूपतिः ।
आत्मज्ञानाभ्यासपरस्तथा विहर राघव ।। ७
निश्चयोऽयमभूत्तस्य कार्याकार्यविहारिणः ।
जाग्रतस्तिष्ठतो वापि तज्ज्ञानां तेन सत्यता ।। ८
निश्चयेन हरिर्येन विविधाचारकारिणा ।
योनिष्ववतरत्युर्व्यां तत्तज्ज्ञत्वमुदाहृतम् ।। ९
निश्चयो यस्त्रिनेत्रस्य कान्तया सह तिष्ठतः ।
ब्रह्मणो वाप्यरागस्य स ते भवतु राघव ।। १०
यो निश्चयः सुरगुरोर्वाक्पतेर्भार्गवस्य च ।
दिवाकरस्य शशिनः पवनस्यानलस्य च ।। ११
नारदस्य पुलस्त्यस्य मम चाङ्गिरसस्तथा ।
प्रचेतसो भृगोश्चैव क्रतोरत्रेः शुकस्य च ।। १२
अन्येषामेव विप्रेन्द्र राजर्षीणां च राघव ।
यो निश्चयो विमुक्तानां जीवतां ते भवत्वसौ ।। १३
श्रीराम उवाच ।
येनैते भगवन्धीरा निश्चयेन महाधियः ।
विशोकाः संस्थितास्तन्मे ब्रह्मन्प्रब्रूहि तत्त्वतः ।। १४
श्रीवसिष्ठ उवाच ।
राजपुत्र महाबाहो विदिताखिलवेद्य हे ।
स्फुटं श्रृणु यथा पृष्टमयमेषां हि निश्चयः ।। १५
यदिदं किंचिदाभोगि जगज्जालं प्रदृश्यते ।
तत्सर्वममलं ब्रह्म भवत्येतद्व्यवस्थितम् ।। १६
ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्पराः ।
ब्रह्माहं ब्रह्म मच्छत्रुर्ब्रह्म सन्मित्रबान्धवाः ।। १७
ब्रह्म कालत्रयं तच्च ब्रह्मण्येव व्यवस्थितम् ।
तरङ्गमालयाम्भोधिर्यथात्मनि विवर्धते ।। १८
तथा पदार्थलक्ष्म्येत्थमिदं ब्रह्म विवर्धते ।
गृह्यते ब्रह्मणा ब्रह्म भुज्यते ब्रह्म ब्रह्मणा ।। १९
ब्रह्म ब्रह्मणि बृंहाभिर्ब्रह्मशक्त्येव बृंहति ।
ब्रह्म मच्छत्रुरूपं मे ब्रह्मणोऽप्रियकृद्यदि ।। २०
तद्ब्रह्मणि ब्रह्मनिष्ठं किमन्यत्कस्यचित्कृतम् ।
रागादीनामवस्थानं कल्पितानां खवृक्षवत् ।। २१
असंकल्पेन नष्टानां कः प्रसङ्गोऽत्र वर्धते ।
ब्रह्मण्येव हि सर्वस्मिंश्चरणस्पन्दनादिकम् ।। २२
स्फुरति ब्रह्म सकलं सुखितादुःखिते कुतः ।
ब्रह्म ब्रह्मणि संतृप्तं ब्रह्म ब्रह्मणि संस्थितम् ।। २३
स्फुरति ब्रह्मणि ब्रह्म नाहमस्मीतरात्मकः ।
घटो ब्रह्म पटो ब्रह्म ब्रह्माहमिदमाततम् ।। २४
अतो रागविरागाणां मृषेव कलनेह का ।
मरणब्रह्मणि स्वैरं देहब्रह्मणि संगते ।। २५
दुःखितानाम कैव स्याद्रज्जुसर्पभ्रमोपमा ।
संभोगादौ सुखं ब्रह्मण्यास्थिते देहब्रह्मणि ।। २६
संपन्नमेतन्म इति मुधा स्यात्कलना कुतः ।
वीच्यम्भसोः स्पन्दवतोर्न त्वन्यदम्बुनो यथा ।। २७
त्वत्तामत्ते तथा न स्तो ब्रह्मणि स्पन्दरूपिणि ।
यथावर्तमृते तोये न किंचिन्म्रियते क्वचित् ।। २८
मृतिब्रह्मत्वमायाते देहब्रह्मणि वै तथा ।
यथा चलाचले तोये त्वत्तामत्ते न तिष्ठतः ।। २९
तथा जडाजडे रूपे न स्थिते परमात्मनि ।
कटकत्वं यथा हेम्नो यथावर्तो जलस्य च ।। ३०
तदतद्भावरूपेयं तथा प्रकृतिरात्मनः ।
इदं हि जीवभूतात्म जडरूपमिदं भवेत् ।। ३१
इत्यज्ञानात्मनो मोहो नच ज्ञानात्मनः क्वचित् ।
अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् ।। ३२
अन्धं भुवनमन्धस्य प्रकाशं तु सचक्षुषः ।
जगदेकात्मकं ज्ञस्य मूर्खस्यातीव दुःखदम् ।। ३३
शिशोरिव स्फुरद्यक्षा निशा पुंसस्तु केवला ।
अस्मिन्ब्रह्मघटे नित्यमेकस्मिन्सर्वतः स्थिते ।। ३४
न किंचिन्म्रियते नाम न च किंचन जीवति ।
यथोल्लासविलासेषु न नश्यति न जायते ।। ३५
तरङ्गादिमहाम्भोधौ भूतवृन्दं तथात्मनि ।
इदं नास्तीदमस्तीति भ्रान्तिर्नामात्मनात्मनि ।। ३६
शक्तिर्निर्हेतुकैवान्तः स्फुरति स्फटिकांशुवत् ।
जगच्छक्त्यात्मनात्मैव ब्रह्म स्वात्मनि संस्थितम् ।। ३७
तरङ्गकणजालेन पयसीव पयो घनम् ।
शरीरनाशेन कथं ब्रह्मणो मृतधीर्भवेत् ।। ३८
ब्रह्मणो व्यतिरिक्तं हि न शरीरादि विद्यते ।
पयसो व्यतिरेकेण तरङ्गादि महार्णवे ।। ३९
यः कणो या च कणिका या वीचिर्यस्तरङ्गकः ।
यः फेनो या च लहरी तद्यथा वारि वारिणि ।। ४०
यो देहो या च कलना यद्दृश्यं यौ क्षयाक्षयौ ।
या भावरचना योऽर्थस्तया तद्ब्रह्म ब्रह्मणि ।। ४१
संस्थानरचना चित्रा ब्रह्मणः कनकादिव ।
नान्यरूपा विमूढानां मृषैव द्वित्वभावना ।। ४२
मनो बुद्धिरहंकारस्तन्मात्राणीन्द्रियाणि च ।
ब्रह्मैव सर्वं नानात्म सुखं दुःखं न विद्यते। ।। ४३
अयं सोऽहमिदं चित्तमित्याद्यर्थोत्थया गिरा ।
शब्दप्रतिश्रवेणाद्राविवात्मात्मनि जृम्भते ।। ४४
ब्रह्मैवाज्ञातमज्ञत्वमभ्यागतमिव स्थितम् ।
तथा हि दृश्यते स्वप्ने चेतसात्मात्मनात्मनः ।। ४५
अभावितं ब्रह्मतया ब्रह्माज्ञानमलं भवेत् ।
अभावितं हेमतया यथा हेम च मृद्भवेत् ।। ४६
स्वयं प्रभुर्महात्मैव ब्रह्म ब्रह्मविदो विदुः ।
अपरिज्ञातमज्ञानमज्ञानामिति कथ्यते ।। ४७
ज्ञातं ब्रह्मतया ब्रह्म ब्रह्मैव भवति क्षणात् ।
ज्ञातं हेमतया हेम हेमैव भवति क्षणात् ।। ४८
ब्रह्मात्मा सर्वशक्तिर्हि तद्यथा भावयत्यलम् ।
निर्हेतुकः स्वयं शक्त्या तत्तथाशु प्रपश्यति ।। ४९
अकर्मकर्तृकरणमकारणमनामयम् ।
स्वयंप्रभुं महात्मानं ब्रह्म ब्रह्मविदो विदुः ।। ५०
अपरिज्ञातमज्ञानामज्ञानमिति कथ्यते ।
परिज्ञातं भवेज्ज्ञानमज्ञानपरिनाशनम् ।। ५१
बन्धुरेवापरिज्ञातो ह्यबन्धुरिति कथ्यते
परिज्ञातो भवेद्बन्धुरबन्धुभ्रमनाशनात् ।। ५२
इदं त्वयुक्तमित्यन्तर्ज्ञाते सोदेति भावना ।
यस्मादयुक्ताद्वैरस्याद्यया किल विरज्यते ।। ९३
द्वैतं त्वसत्यमित्यन्तर्ज्ञाते सोदेति भावना ।
तस्माद्वैताच्च वैरस्याद्यया किल विरज्यते ।। ५४
अयं नाहमिति ज्ञाते स्फुटे सोदेति भावना ।
मिथ्याहंकारता तस्माद्यया नूनं विरज्यते ।। ५५
ब्रह्मैवाहमिति ज्ञाने सत्ये सोदेति भावना ।
तस्मिन्सत्ये निजे रूपे यथान्तः परिलीयते ।। ५६
सति विस्तारजे तस्मिन्ब्रह्मेदमिति वेद्म्यहम् ।
त्वमहंत्वादिबाधे तत्सदित्यादि जगद्गतम् ।। ५७
सत्यं सर्वप्रकाराढ्यं ब्रह्मेदमिति वेद्म्यहम् ।।
न मे दुःखं न कर्माणि न मे मोहो न वाञ्छितम् ५८
समः स्वस्थो विशोकोऽस्मि ब्रह्माहमिति सत्यता ।
कलाकलङ्कमुक्तोऽस्मि सर्वमस्मि निरामयः ।। ५९
न त्यजामि न वाञ्छामि ब्रह्माहमिति सत्यता ।
अहं रक्तमहं मांसमहमस्थीन्यहं वपुः ।। ६०
चिदहं चेतनं चाहं ब्रह्माहमिति सत्यता ।
द्यौरहं खमहं सार्कमहमाशा भुवोऽप्यहम् ।। ६१
अहं घटपटाकारो ब्रह्माहमिति सत्यता ।
अहं तृणमहं चोर्वी गुल्मोऽहं काननाद्यहम् ।। ६२
शैलसागरसार्थोऽहं ब्रह्मैकत्वं किल स्थितम् ।
आदानदानसंकोचपूर्विका भूतशक्तयः ।। ६३
सर्वमेव चिदात्मास्मि ब्रह्मण्याततरूपधृक् ।
लतागुल्माङ्कुरादीनामहंसंभवनैषिणाम्।। ६४
चिदात्मान्तर्गतं शान्तं परं ब्रह्म रसात्मकम् ।
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।। ६५
यो मतः सर्व एकात्मा परं ब्रह्मेति निश्चयः ।
चिदात्मा ब्रह्म सत्सत्यमृतं ज्ञ इति नामभिः ।। ६६
प्रोच्यते सर्वगं तत्त्वं चिन्मात्रं चेत्यवर्जितम् ।
आभासमात्रममलं सर्वभूतात्मबोधकम् ।। ६७
सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ।
मनोबुद्धीन्द्रियव्रातसमस्तकलनान्वितम् ।। ६८
भेदं त्यक्त्वा स्वमाभासं चिद्ब्रह्माहमनामयम् ।
शब्दादीनामशेषाणां कारणानां जगत्स्थितेः ।। ६९
तत्त्वावकाशकं स्वच्छं चिद्ब्रह्मास्मि न मे क्षयः ।
अनारतगलत्स्वच्छचिद्धारागहनात्मकम् ।। ७०
आलोकः सुमनोमौनं चिद्ब्रह्मास्म्यमृतं परम् ।
अनारतगलद्रूपं नित्यं चानुभवामृतम् ।। ७१
अहनिःशेषचक्राणि चिद्ब्रह्माहमलेपकम् ।
सुषुप्तसदृशं शान्तमालोकविमलात्मकम् ।। ७२
संभोगोत्तममाभासं चिद्ब्रह्मास्म्यपवासनम् ।
खण्डादिस्वादुसंवित्तिरीषन्मात्रा तु तिष्ठति ।। ७३
चित्तादिष्ववबुद्धेषु तद्धि ब्रह्माहमच्युतः ।
कान्तासंसक्तचित्तस्य चन्द्रे समुदिते सति ।। ७४
चन्द्रप्रत्ययसत्त्वात्म चिद्ब्रह्माहमनामयम् ।
भूमिष्ठनरदृष्टीनां लग्नानां खे निशाकरे ।। ७५
या खस्था ननु चिच्छक्तिस्तच्चिद्ब्रह्मास्ति निर्मलम् ।
सुखदुःखादिकलनाविकलो निर्मलस्तथा ।। ७६
-
सत्यानुभवरूपात्म चिद्ब्रह्मात्मास्मि शाश्वतः ।
असंस्तुताध्वगालोके मनस्यन्यत्र संस्थिते ।। ७७
या प्रतीतिरनागस्का तच्चिद्ब्रह्मास्मि सर्वगः ।
भूवार्यनिलबीजानां संबन्धेऽङ्कुरकर्मसु ।। ७८
शक्तिरुद्गमनीयान्तस्तच्चिद्ब्रह्माहमाततम् ।
खर्जूरनिम्बबिम्बानां स्वयमात्मनि तिष्ठताम् ।। ७९
या स्वादसत्ता लीनान्तस्तद्ब्रह्म चिदहं समः ।
खेदानन्दविमुक्तान्तः संवित्तिर्मननोदया ।। ८०
लाभालाभविधौ तुल्या चिद्ब्रह्मास्मि निरामयम् ।
यावद्भूम्यर्कमेतावद्दृष्टिसूत्रं यदाततम् ।। ८१
तन्मध्यसदृशं शान्तं निर्मलं चिदहं ततम् ।
जाग्रत्यपि सुषुप्तेऽपि तत्स्वप्नेऽपि तथोदितम् ।। ८२
तुर्यं रूपमनाद्यन्तं चिद्ब्रह्माहमनामयम् ।
पुंसां क्षेत्रशतोत्थानामिक्षूणां स्वादुवत्स्थितम् ।। ८३
सर्वेषामेकरूपं तच्चिद्ब्रह्मास्मि समः स्थितः ।
सर्वगा प्रकृता स्वच्छरूपा भानोरिव प्रभा ।। ८४
आलोककारिणी कान्ता चिद्ब्रह्मेदमहं ततम् ।
संभोगानन्दलववदमृतास्वादशक्तिवत् ।। ८५
स्वानुभूत्यैकमात्रं यच्चिद्ब्रह्मास्मि तदव्ययम् ।
प्रोताङ्गमपि गुप्तास्यं देहे तन्तुर्बिसे यथा ।। ८६
छेदे भेदे स्फुरद्रूपं चिद्ब्रह्माहमनामयम् ।
आक्रान्तभुवनाप्यभ्रमालेव स्पन्दशालिनी ।। ८७
दुर्लक्ष्याणुमयाकारा चिच्छक्तिरहमातता ।
अनुभूतिमयान्तस्था स्नेहमात्रोपलक्षिता ।। ८८
क्षीराद्धृतस्य सत्तेव चिदहं क्षयवर्जिता ।
कटकाङ्गदकेयूररचना तदतन्मयी ।। ८९
हेम्नीव संस्थिता देहे चिद्ब्रह्मात्मास्मि सर्वगः ।
पदार्थौघस्य शैलादेर्बहिरन्तश्च सर्वदा ।। ९०
सत्तासामान्यरूपेण या चित्सोऽहमलेपकः ।
सर्वासामनुभूतीनामादर्शो यो ह्यकृत्रिमः ।। ९१
अगम्यो मललेखानां तच्चित्तत्त्वमहं महत् ।
सर्वसंकल्पफलदं सर्वतेजःप्रकाशकम् ।। ९२
सर्वोपादेयसीमान्तं चिदात्मानमुपास्महे ।
सर्वावयवविश्रान्तं समस्तावयवातिगम् ।। ९३
अनारतकचद्रूपं चिदात्मानमुपास्महे ।
घटे पटे तटे कूपे स्पन्दमानं सदा तनौ ।। ९४
जाग्रत्यपि सुषुप्तस्थं चिदात्मानमुपास्महे ।
उष्णमग्नौ हिमे शीतं मृष्टमन्ने शितं क्षुरे ।। ९५
कृष्णं ध्वान्ते सितं चन्द्रे चिदात्मानमुपास्महे ।
आलोकं बहिरन्तस्थं स्थितं च स्वात्मवस्तुनि ।। ९६
अदूरमपि दूरस्थं चिदात्मानमुपास्महे ।
माधुर्यादिषु माधुर्यं तीक्ष्णादिषु च तीक्ष्णताम् ।।९७
गतं पदार्थजातेषु चिदात्मानमुपास्महे ।
जाग्रत्स्वप्नसुषुप्तेषु तुर्यातुर्यातिगे पदे ।। ९८
समं सदैव सर्वत्र चिदात्मानमुपास्महे ।
प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् ।। ९९
विगताशेषसंरम्भं चिदात्मानमुपास्महे ।
निष्कौतुकं निरारम्भं निरीहं सर्वमेव च ।। १००
निरंशं निरहंकारं चिदात्मानमुपास्महे ।
सर्वस्यान्तःस्थितं सर्वमप्यपारैकरूपिणम् ।। १०१
अपर्यन्तचिदारम्भं चिदात्मानमुपागतः ।
त्रैलोक्यदेहमुक्तानां तन्तुमुन्नतमाततम् ।। १०२
प्रचारसंकोचकरं चिदात्मानमुपागतः ।
लीनमन्तर्बहिःस्वाप्तान्क्रोडीकृत्य जगत्खगान् ।। १०३
चित्रं बृहज्जालमिव चिदात्मानमुपागतः ।
सर्वं यत्रेदमस्त्येव नास्त्येव च मनागपि ।। १०४
सदसद्रूपमेकं तं चिदात्मानमुपागतः ।
परमप्रत्ययं पूर्णमास्पदं सर्वसंपदाम् ।। १०५
सर्वाकारविहारस्थं चिदात्मानमुपागतः ।
स्नेहाधारमथोऽशान्तं जडवाताहतिभ्रमैः ।। १०६
युक्तं मुक्तं च चिद्दीपं बहिरन्तरुपास्महे ।
हृत्सरःपद्मिनीकन्दं तन्तुं सर्वाङ्गसुन्दरम् ।। १०७
जनताजीवनोपायं चिदात्मानमुपागतः ।
अक्षीरार्णवसंभूतमशशाङ्कमुपस्थितम् ।। १०८
अहार्यममृतं सत्यं चिदात्मानमुपास्महे ।
शब्दरूपरसस्पर्शगन्धैराभासमागतम् ।। १०९
तैरेव रहितं शान्तं चिदात्मानमुपागतः ।
आकाशकोशविशदं सर्वलोकस्य रञ्जनम् ।। ११०
न रञ्जनं न चाकाशं चिदात्मानमुपागतः ।
महामहिम्ना सहितं रहितं सर्वभूतिभिः ।
कर्तृत्वे वाप्यकर्तारं चिदात्मानमुपागतः ।। १११
अखिलमिदमहं ममैव सर्वं
त्वहमपि नाहमथेतरच्च नाहम् ।
इति विदितवतो जगत्कृतं मे
स्थिरमथवास्तु गतज्वरो भवामि ।। ११२
इत्यार्षे श्रीवा०रामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० जीवन्मुक्तनिश्चययोगोपदेशो नामैकादशः सर्गः ।। ११ ।।