सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०५३

विकिस्रोतः तः


त्रिपञ्चाशः सर्गः ५३
श्रीभगवानुवाच ।
अर्जुन त्वं न हन्ता त्वमभिमानमलं त्यज ।
जरामरणनिर्मुक्तः स्वयमात्मासि शाश्वतः ।। १
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ।। २
यैव संजायते संविदन्तः सेवानुभूयते ।
अयं सोऽहमिदं तन्म इत्यन्तः संविदं त्यज ।। ३
अनयैव च युक्तोऽस्मि नष्टोऽस्मीति च भारत ।
अभितः सुखदुःखाभ्यामवशः परितप्यसे ।। ४
स्वात्मांशैः क्रियमाणानि गुणैः कर्माणि भागशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ।। ५
चक्षुः पश्यतु कर्णश्च श्रृणोतु त्वक्स्पृशत्विदम् ।
रसना च रसं यातु कात्र कोऽहमिति स्थितिः ।। ६
कलनाकर्मणि रते मनस्यपि महात्मनः ।
न कश्चिदत्राहमिति क्लेशभागे क एव ते ।। ७
बहुभिः समवायेन यत्कृतं तत्र भारत ।
एकोऽभिमानदुःखेन हास्यायैव हृइं गृह्यते ।। ८
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।। ९
अहन्त्वविषचूर्णेन येषां कायो न मारितः ।
कुर्वन्तोऽपि हरन्तोऽपि न च ते निर्विषूचिकाः ।। १०
न क्वचिद्राजते कायो ममतामेध्यदूषितः ।
प्राज्ञोऽप्यतिबहुज्ञोऽपि दुःशील इव मानवः ।। ११
निर्ममो निरहंकारः समदुःखसुखः क्षमी ।
यः स कार्यमकार्यं वा कुर्वन्नपि न लिप्यते ।। १२
इदं च ते पाण्डुसुत स्वकर्म क्षात्रमुत्तमम् ।
अपि क्रूरमतिश्रेयः सुखायैवोदयाय च ।। १३
अपि कुत्सितमप्यन्यदप्यधर्ममयक्रमम् ।
श्रेष्ठं ते स्वं यथा कर्म तथेहामृतवान्भव ।। १४
मूर्खस्यापि स्वकर्मैव श्रेयसे किमु सन्मतेः ।
मतिर्गलदहंकारा पतितापि न लिप्यते ।। १५
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
निःसङ्गस्त्वं यथाप्राप्तकर्मवान्न निबध्यसे ।। १६
शान्तब्रह्मवपुर्भूत्वा कर्म ब्रह्ममयं कुरु ।
ब्रह्मार्पणसमाचारो ब्रह्मैव भवसि क्षणात् ।। १७
ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः ।
ईश्वरः सर्वभूतात्मा भव भूषितभूतलः ।। १८
संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः ।
संन्यासयोगयुक्तात्मा कुर्वन्मुक्तमतिर्भव ।। १९
अर्जुन उवाच ।
सङ्गत्यागस्य भगवंस्तथा ब्रह्मार्पणस्य च ।
ईश्वरार्पणरूपस्य संन्यासस्य च सर्वशः ।। २०
तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो ।
क्रमेण कथयैतन्मे महामोहनिवृत्तये ।। २१
श्रीभगवानुवाच ।
सर्वसंकल्पसंशान्तौ प्रशान्तघनवासनम् ।
न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ।। २२
तदुद्योगं विदुर्ज्ञानं योगं च कृतबुद्धयः ।
ब्रह्म सर्वं जगदहं चेति ब्रह्मार्पणं विदुः ।। २३
अन्तःशून्यं बहिःशून्यं पाषाणहृदयोपमम् ।
शान्तमाकाशकोशाच्छं न दृश्यं न दृशः परम् ।। २४
तत ईषद्यदुत्थानमीषदन्यतयोदितम् ।
स जगत्प्रतिभासोऽयमाकाशमिव शून्यता ।। २५
भावोऽहमिति कोऽप्येष प्रत्येकमुदितश्चितेः ।
कोटिकोट्यंशकलितः क इवैनं प्रति ग्रहः ।। २६
अपृथग्भूत एवैष पृथग्भूत इव स्थितः ।
पृथक्त्वं हि न पर्यन्तो नाहमित्यवगच्छति ।। २७
यथेहाहं तथेहास्ति घटादीहापि मर्कटः ।
स्वमीहैवं तथाम्भोधिः किमहंतां प्रति ग्रहः ।। २८
विकल्पभेदे स्फुरिते संवित्सारमयात्मनि ।
वैचित्र्येण विचित्रेपि किमेकत्वेऽपि नो ग्रहः ।। २९
इति ज्ञातविभागस्य बुद्धौ तस्य परिक्षयः ।
कर्मणां यः फलत्यागस्तं संन्यासं विदुर्बुधाः ।। ३०
त्यागः संकल्पजालानामसंसङ्गः स कथ्यते ।
समस्तकलनाजालस्येश्वरत्वैकभावना ।। ३१
गलितद्वैतनिर्भासमेतदेवेश्वरार्पणम् ।
अबोधवशतो भेदो नाम्नैवैषां चिदात्मनि ।। ३२
बोधात्मा किल शब्दार्थो जगदेकं न संशयः ।
अहमाशा जगदहं स्वमहं कर्म चाप्यहम् ।। ३३
कालोऽहमहमद्वैतं द्वैतं चाहमहं जगत् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ।। ३४
अर्जुन उवाच ।
द्वे रूपे तव देवेश परं चापरमेव च ।
कीदृशं तत्कदा रूपं तिष्ठाम्याश्रित्य सिद्धये ।। ३५
श्रीभगवानुवाच ।
सामान्यं परमं चैव द्वे रूपे विद्धि मेऽनघ ।
पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम् ।। ३६
परं रूपमनाद्यन्तं यन्ममैकमनामयम् ।
ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते ।। ३७
यावदप्रतिबुद्धस्त्वमनात्मज्ञतया स्थितः ।
तावच्चतुर्भुजाकारदेवपूजापरो भव ।। ३८
तत्क्रमात्संप्रबुद्धस्त्वं ततो ज्ञास्यसि तत्परम् ।
मम रूपमनाद्यन्तं येन भूयो न जायते ।। ३९
यदि वा वेद्यविज्ञातो भावस्तदरिमर्दन ।
तन्ममात्मानमात्मानमात्मनश्चाशु संश्रय ।। ४०
इदं चाहमिदं चाहमिति यत्प्रवदाम्यहम् ।
तदेतदात्मतत्त्वं तु तुभ्यं ह्युपदिशाम्यहम् ।। ४१
मन्ये साधुविबुद्धोसि पदे विश्रान्तवानसि ।
संकल्पैरवमुक्तोऽसि सत्यैकात्ममयो भव ।। ४२
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
पश्य त्वं योगयुक्तात्मा सर्वत्र समदर्शनः ।। ४३
सर्वभूतस्थमात्मानं भजत्येकत्वमात्मनः ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ।। ४४
एकत्वं सर्वशब्दार्थ एकशब्दार्थ आत्मनः ।
आत्मापि च न सन्नासद्गतो यस्याशु तस्य तत् ।। ४
त्रैलोक्यचेतसामन्तरालोको यः प्रकाशकः ।
अनुभूतिमुपारूढः सोऽहमात्मेति निश्चयः ।। ४६
त्रैलोक्यपयसामन्तर्यो रसानुभवः स्थितः ।
गव्यानामब्धिजानां च सोऽयमात्मेति भारत ।। ४७
अन्तः सर्वशरीराणां यः सूक्ष्मोनुभवः स्थितः ।
मुक्तोऽनुभवनीयेन सोऽयमात्मास्ति सर्वगः ।। ४८
समग्रपयसामन्तर्यथा घृतमिव स्थितम् ।
तथा सर्वपदार्थानां देहानां संस्थितः परः ।। ४९
सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा ।
तेजस्तथास्मि देहानामसंस्थित इव स्थितः ।। ५०
यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः ।
जगत्त्रयशरीराणां तथात्माहमवस्थितः ।। ५१
मुक्ताफलशतौघानां तन्तुः प्रोतवपुर्यथा ।
तथायं देहलक्षाणां स्थित आत्मास्त्यलक्षितः ।। ५२
ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरम्बके ।
सत्तासामान्यमेतद्यत्तमात्मानमजं विदुः ।। ५३
तदीषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति ।
अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा ।। ५४
आत्मैवेदं जगद्रूपं हन्यते हन्ति वात्र किम् ।
शुभाशुभैर्जगद्दुःखैः किमस्यार्जुन लिप्यते ।। ५५
प्रतिबिम्बेष्विवादर्शसमं साक्षिवदास्थितम् ।
नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति ।। ५६
इदं चाहमिदं नेति इतीदं कथ्यते मया ।
एवमात्मास्मि सर्वात्मा मामेवं विद्धि पाण्डव ।। ५७
इमाः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
आत्मन्यहंताचित्तस्थाः पयःस्पन्दा इवाम्बुधौ ।। ५८
यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् ।
तरङ्गाणां जलत्वं च पदार्थानां तथात्मता ।। ५९
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ।। ६०
नानाकारविकारेषु तरङ्गेषु यथा पयः ।
कटकादिषु वा हेम भूतेष्वात्मा तथाऽर्जुन ।। ६१
नानातरङ्गवृन्दानि यथा लोलानि वारिणि ।
कटकादीनि वा हेम्नि भूतान्येवं परात्मनि ।। ६२
पदार्थजातं भूतानि बृहद्ब्रह्म च भारत ।
एकमेवाखिलं विद्धि पृथक्त्वं न मनागपि ।। ६३
किं तद्भावविकाराणां गम्यमस्ति जगत्त्रये ।
क्व ते वापि जगत्किं वा किं मुधा परिमुह्यसि ।। ६४
इति श्रुत्वाऽभयं त्वन्तर्भावयित्वा सुनिश्चितम् ।
जीवन्मुक्ताश्चरन्तीह सन्तः समरसाशयाः ।। ६५
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसज्ञै-
र्गच्छन्त्यमूढाः पदमव्ययं तत् ।। ६६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनोपदेशो नाम त्रिपञ्चाशः सर्गः ५३ ।।