सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०९८

विकिस्रोतः तः


अष्टनवतितमः सर्गः ९८
शिखिध्वज उवाच ।
चित्तं नास्तीति मे बोधो यथा युक्त्या स्फुटं भवेत्।
तामन्यामथवा ब्रूहि बुद्धं न निपुणं मया ।। १
कुम्भ उवाच ।
चित्तं नास्त्येव हे राजन्कदाचित्किंचन क्वचित् ।
यच्चेदं चित्तवद्भाति तद्ब्रह्माभिधमव्ययम् ।। २
अतोऽज्ञानात्मकं यत्तज्जगदेव न विद्यते ।
तत्राहंत्वंतदित्यादिकल्पिताः कलनाः कुतः ।। ३
नास्त्येव जगदेवेदं यच्चेदं किंचनोदितम् ।
ब्रह्मैवास्तीह सकलं केन तद्बुध्यते कथम् ।। ४
महाप्रलयसर्गादावेवेदं नोदितं जगत् ।
निर्देशस्त्विदमित्यत्र त्वद्बोधाय मया कृतः ।। ५
उपादानात्मकादीनां कारणानामभावतः ।
अकारणं च भावानामशेषाणां त्वसंभवात् ।। ६
एवमज्ञानबुद्ध्यात्म जगत्तस्मान्न विद्यते ।
तस्माद्यदिदमाभाति भासनं ब्रह्म नेतरत् ।। ७
अनाख्येऽनाकृतौ देवे करोतीदमिति त्वसत् ।
भाषितं नोपपत्त्यात्म न सत्यं नानुभूयते ।। ८
अनाख्योऽप्रतिघः स्वात्मा निराकारो य ईश्वरः ।
स करोति जगदिति हासायैव वचोऽधियाम् ।। ९
अनेनैव प्रयोगेण राजंश्चित्तं न विद्यते ।
जगदेव न सत्साधो कुतश्चित्तादि तद्गतम् ।। १०
चेतो हि वासनामात्रं वास्ये तु सति वासना ।
वास्यं जगत्तदेवासदतश्चित्तास्तिता कुतः ।। ११
यदिदं कचति ब्रह्म स्वयमात्मात्मनात्मनि ।
कृतं तस्यैव तेनैव चित्तमित्यादिनामकम् ।। १२
जगद्दृश्यमिदं वास्यं तदेवोत्पन्नमेव नो ।
कारणाभावतः पूर्वमेवातश्चित्तता कुतः ।। १३
अतश्चिद्व्योममात्रात्म परमाकाशनामकम् ।
स्फारं वेदनमेवेदं कचत्यस्ति कुतो जगत् ।। १४
यत्किंचित्परमाकाश ईषत्कचकचायते ।
चिदादर्शे न जातत्वान्न चित्तं नो जगत्क्रिया ।। १५
अहं त्वं जगदित्येषा प्रतिपत्तिर्न वास्तवी ।
मिथ्या स्वप्न इवाभाति नूनं मेऽशेषकारिणी ।। १६
वास्यस्य जगतोऽभावाद्यतो नास्त्येव वासना ।
अतस्तदात्मकं चित्तं कीदृशं क्व कुतः कथम् ।। १७
अप्रबुद्धैरवगतं चित्तं दृश्यमिदं जगत् ।
असच्चित्तं निराकारं पूर्वमुत्पन्नमेव नो ।। १८
नोत्पन्नं कारणाभावात्सर्गादावेव सर्वदा ।
लोकशास्त्रानुभवतो न च दृश्यस्य वस्तुनः ।। १९
अनादित्वमजत्वं वा स्थैर्यं वाप्युपपद्यते ।
साकारस्यास्य जगतः स्थूलस्य प्रतिघाकृतेः ।। २०
समस्तकारणाभावाल्लोकशास्त्रानुभूतिभिः ।
युज्यन्ते च निराकर्तुं न महाप्रलयादयः ।। २१
शास्त्रानुभववेदार्थसिद्धान्तैस्ते त्रयोऽपि वा ।
प्रलयाश्च न सन्तीति वक्त्युन्मत्तक एव च ।। २२
लोकः शास्त्राणि वेदाश्च प्रमाणं यस्य नो मतेः ।
असद्भ्यो ह्यतिमूढः स सज्जनस्तं न संश्रयेत् ।। २३
न च सप्रतिघस्यास्य दृश्यस्याप्रतिघं क्वचित् ।
कारणं भवितुं शक्तं साकारस्य निराकृति ।। २४
इत्थमालक्ष्यमाणं तत्तदेवं सततं मुने ।
न च नार्थक्रियाकारि भवेन्नेत्थमिदं जगत् ।। २५
तस्मादिदं निरंशस्य चिद्व्योम्नोऽप्रतिघाकृतेः ।
निराकृतेरनन्तस्य पूर्वात्पूर्वनिरंशतः ।। २६
ब्रह्मणः सर्वरूपस्य शान्तस्यात्तस्य यत्समम् ।
स्वत एवात्मकचनं सर्गप्रलयरूपधृक् ।। २७
स्वकं वपुश्च तेनैव ज्ञातं जगदिव क्षणात् ।
क्षणान्तरानुबुद्धं सद्ब्रह्मैवास्ते निरात्मनि ।। २८
ब्रह्मैवेदमतः सर्वं क्वचिन्न जगदादिधीः ।
क्वाचित्तादि क्वचित्तादि क्व द्वैतैक्यादिकल्पना ।। २९
सर्वं निरालम्बमजं प्रशान्त-
मनादिरित्यात्म यथास्थितं सत् ।
इदं तु नानेव न चाप्यनाना
यथास्थितं तिष्ठ सुकाष्ठमौनम् ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० शिखिध्वजावबोधनं नामाष्टनवतितमः सर्गः ।।९८।।