योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०८०

विकिस्रोतः तः


अशीतितमः सर्गः ८०
श्रीवसिष्ठ उवाच ।
एवमात्मनि विश्रान्तां वदन्तीं तां वराननाम् ।
अबुद्ध्वा तद्गिरामर्थं विहस्योवाच भूपतिः ।। १
शिखिध्वज उवाच ।
असंबद्धप्रलापासि बालासि वरवर्णिनि ।
रमसे राजलीलाभी रमस्वावनिपात्मजे ।। २
किंचित्त्यक्त्वा नकिंचिद्यो गतो प्रत्यक्षसंस्थितम् ।
त्यक्तप्रत्यक्षसद्रूपः स कथं किल शोभते ।। ३
भोगैरभुक्तैस्तुष्टोऽहमिति भोगान्जहाति यः ।
रुषेवासनशय्यादीन्स कथं किल शोभते ।। ४
भोगाभोगे परित्यज्य खे शून्ये रमते तु यः ।
एक एवाखिलं त्यक्त्वा स कथं किल शोभते ।। ५
वसनाशनशय्यादीन्सर्वान्संत्यज्य धीरधीः ।
यस्तिष्ठत्यात्मनैवैकः स कथं किल शोभते ।। ६
नाहं देहोऽन्यथा चाहं नकिंचित्सर्वमेव च ।
एवं प्रलापो यस्यास्ति स कथं किल शोभते ।। ७
यत्पश्यामि न पश्यामि तत्पश्याम्यन्यदेव यत् ।
प्रलाप इत्यसंन्यस्य स कथं किल शोभते ।। ८
तस्माद्बालासि मुग्धासि चपलासि विलासिनि ।
नानालापविलासेन क्रीडामि क्रीड सुन्दरि ।। ९
प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम् ।
मध्याह्ने स्नातुमुत्थाय निर्जगामाङ्गनागृहात् ।। १०
कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् ।
राजेति खिन्ना चूडाला स्वव्यापारपराभवत् ।। ११
तदा तथाङ्ग तत्राथ तादृगाशययोस्तयोः ।
ताभिः पार्थिवलीलाभिः कालो बहुतिथो ययौ ।। १२
एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् ।
चूडालाया बभूवेच्छा लीलया खगमागमे ।। १३
खगमागमसिद्ध्यर्थमथ सा नृपकन्यका ।
सर्वभोगाननादृत्य समागम्य च निर्जनम् ।। १४
एकैवैकान्तनिरता स्वासनावस्थिताङ्गिका ।
ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह ।। १५
श्रीराम उवाच ।
यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।
स्पन्दच्युतं क्रियानाम्नः कथमित्यनुभूयते ।। १६
कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद ।
ब्रह्मन्खगमनाद्येतत्फलं यत्नैकशालिनः ।। १७
आत्मज्ञो वाप्यनात्मज्ञः सिद्ध्यर्थे लीलयाथवा ।
कथं संसाधयत्येतद्यथा तद्वद मे प्रभो ।। १८
श्रीवसिष्ठ उवाच ।
त्रिविधं संभवत्यङ्ग साध्यं वस्त्विह सर्वतः ।
उपादेयं च हेयं च तथोपेक्ष्यं च राघव ।। १९
आत्मभूतं प्रयत्नेन उपादेयं च साध्यते ।
हेयं संत्यज्यते ज्ञात्वा उपेक्ष्यं मध्यमेतयोः ।। २०
यद्यदाह्लादनकरमादेयं तच्च सन्मते ।
तद्विरुद्धमनादेयमुपेक्ष्यं मध्यमं विदुः ।। २१
सन्मतेर्विदुषो ज्ञस्य सर्वमात्ममयं यदा ।
त्रय एते तदा पक्षाः संभवन्ति न केचन ।। २२
केवलं सर्वमेवेदं कदाचिल्लीलया तया ।
उपेक्षापक्षनिक्षिप्तमालोकयति वा न वा ।। २३
ज्ञस्योपेक्षात्मकं नाम मूढस्यादेयतां गतम् ।
हेयं स्फारविरागस्य श्रृणु सिद्धिक्रमः कथम् ।। २४
देशकालक्रियाद्रव्यसाधनाः सर्वसिद्धयः ।
जीवमाह्लादयन्तीह वसन्त इव भूतलम् ।। २५
मध्ये चतुर्णामेवैषां क्रियाप्राधान्यकल्पना ।
सिद्ध्यादिसाधने साधो तन्मयास्ते यतः क्रमाः ।। २६
गुटिकाञ्जनखङ्गादिक्रियाक्रमनिरूपणम् ।
तत्रासतां च दोषोऽत्र विस्तारः प्रकृतार्थहा ।। २७
रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् ।
आस्तामेव किलैषोऽपि विस्तारः प्रकृतार्थहा ।। २८
श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः ।
सिद्धिरित्यपि विस्तारः कृतार्थ प्रकृतार्थहा ।। २९
तस्माच्छिखिध्वजकथाप्रसङ्गपतितामिमाम् ।
प्राणादिपवनाभ्यासक्रियां सिद्धिफलां श्रृणु ।। ३०
अन्तस्था ह्यखिलास्त्यक्त्वा साध्यार्थेतरवासनाः ।
गुदादिद्वारसंकोचान्स्थानकादिक्रियाक्रमैः ।। ३१
भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात् ।
स्वाचारात्सुजनासङ्गात्सर्वत्यागात्सुखासनात् ।। ३२
प्राणायामघनाभ्यासाद्राम कालेन केनचित् ।
कोपलोभादिसंत्यागाद्भोगत्यागाच्च सुव्रत ।। ३३
त्यागादाननिरोधेषु भृशं यान्ति विधेयताम् ।
प्राणाः प्रभुत्वात्तज्ज्ञस्य पुंसो भृत्या इवाखिलाः ।। ३४
राज्यादिमोक्षपर्यन्ताः समस्ता एव संपदः ।
देहानिलविधेयत्वात्साध्याः सर्वस्य राघव ।। ३५
परिमण्डलिताकारा मर्मस्थानं समाश्रिता ।
आन्त्रवेष्टनिका नाम नाडी नाडीशताश्रिता ।। ३६
वीणाग्रावर्तसदृशी सलिलावर्तसंनिभा ।
लिप्यार्धौकारसंस्थाना कुण्डलावर्तसंस्थिता ।। ३७
देवासुरमनुष्येषु मृगनक्रखगादिषु ।
कीटादिष्वब्जजान्तेषु सर्वेषु प्राणिषूदिता ।। ३८
शीतार्तसुप्तभोगीन्द्रभोगवद्बद्धमण्डला ।
सिता कल्पाग्निविगलदिन्दुवद्बद्धकुण्डली ।। ३९
ऊरोर्भ्रूमध्यरन्ध्राणि स्पृशन्ती वृत्तिचञ्चला ।
अनारतं च सस्पन्दा पवमानेन तिष्ठति ।। ४०
तस्यास्त्वभ्यन्तरे तस्मिन्कदलीकोशकोमले ।
या परा शक्तिः स्फुरति वीणावेगलसद्गतिः ।। ४१
सा चोक्ता कुण्डलीनाम्ना कुण्डलाकारवाहिनी ।
प्राणिनां परमा शक्तिः सर्वशक्तिजवप्रदा ।। ४२
अनिशं निःश्वसद्रूपा रुषितेव भुजंगमी ।
संस्थितोर्ध्वीकृतमुखी स्पन्दनाहेतुतां गता ।। ४३
यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् ।
तदा संविदुदेत्यन्तर्भूततन्मात्रबीजभूः ।। ४४
यथा कुण्डलिनी देहे स्फुरत्यब्ज इवालिनी ।
तथा संविदुदेत्यन्तर्मृदुस्पर्शवशोदया ।। ४५
स्पर्शनं मृदुनान्योन्यालिङ्गिका तत्र यन्त्रयोः ।
यथा संविदुदेत्युच्चैस्तथा कुण्डलिनी जवात् ।। ४६
तस्यां समस्ताः संबद्धा नाड्यो हृदयकोशगाः ।
उत्पद्यन्ते विलीयन्ते महार्णव इवापगाः ।। ४७
नित्यं पातोत्सुकतया प्रवेशोन्मुखया तया ।
सा सर्वसंविदां बीजं ह्येका सामान्युदाहृता ।। ४८
श्रीराम उवाच ।
आकल्पादनवच्छिन्ना चित्संवित्सर्वमस्ति हि ।
तस्मात्कुण्डलिनीकोशात्केनार्थेनोदयः स्फुटः ।। ४९
श्रीवसिष्ठ उवाच ।
सर्वत्र सर्वदा सर्वं चित्संविद्विद्यतेऽनघ ।
किंत्वस्या भूततन्मात्रवशादभ्युदयः क्वचित् ।। ५०
सर्वत्र विद्यमानापि देहेषु तरलायते ।
सर्वगोऽप्यातपः सौरो भित्यादौ वै विजृम्भते ।। ५१
क्वचिन्नष्टं क्वचित्स्पष्टं क्वचिदुच्छन्नतां गतम् ।
वस्तु वस्तुनि दृष्टं तत्तत्सद्भावैर्विजृम्भितम् ।। ५२
एतद्भूयः क्रमेणाहं शृणु वक्ष्यामि तेऽनघ ।
देहे स्वे च यथोदेति भृशं संविन्मयक्रमः ।। ५३
चेतनाचेतनं भूतजातं व्योम तथाखिलम् ।
सर्वं चिन्मात्रसन्मात्रं शून्यमात्रं यथा नभः ।। ५४
तद्धि चिन्मात्रसन्मात्रमविकारं स्वनामयम् ।
क्वचित्स्थितं संविदेव भूततन्मात्रपञ्चकम् ।। ५५
तत्पञ्चधा गतं द्वित्वं लक्षसे त्वं स्वसंविदम् ।
अन्तर्भूतविकारादि दीपाद्दीपशतं यथा ।। ५६
स्वसत्तामात्रकेणैव संकल्पलवरूपिणा ।
पञ्चकानि व्रजन्तीह देहत्वं तानि कानिचित् ।। ५७
कानिचित्तिर्यगादित्वं हेमादित्वं च कानिचित् ।
कानिचिद्देशतादित्वं द्रव्यादित्वं च कानिचित् ।। ५८
एवं हि पञ्चकस्पन्दमात्रं जगदिति स्थितम् ।
चित्संविदत्र सर्वत्र विद्यते रघुनन्दन ।। ५९
केवलं पञ्चकवशाद्देहादौ चेतनाभिधा ।
जडस्पन्दाभिधा क्वापि स्थावरादौ जडाभिधा ।। ६०
यथा स्तब्धः स्थितो वीचिरिव स्थलमिवास्थितः ।
पञ्चकेषु तथैतच्चिल्लोलरूपा जडान्विता ।। ६१
इतः सौम्य इतो लोलः किमब्धिरिति नो यथा ।
विकल्पादौ तथैवैतत्पञ्चकं हि जडाजडम् ।। ६२
देहादिपञ्चकं जीवः स्पन्दः शैलादिकं जडम् ।
स्थावराद्यनिलस्पन्दि स्वभाववशतोऽनघ ।। ६३
वाचः पर्यनुयोक्तव्याः स्वभावाद्रघुनन्दन ।
शीतोष्णादि हिमाग्न्यादि वाक्चेति परिदृश्यते ।। ६४
गृहीतवासनांशानां पुष्टाभावविकारिणाम् ।
स्थितयः पञ्चकानां हि योज्याः पर्यनुयोजने ।। ६५
वासनास्तु विपर्यस्ता इतो नेतुमितश्च ताः ।
पुंसा प्राज्ञेन शक्यन्ते सुखं पर्यनुयोजितुम् ।। ६६
अशुभे वा शुभे वापि तेन पर्यनुयोज्यते ।
प्रबुद्धवासनं चान्यत्पञ्चकं सुप्तवासनम् ।। ६७
यत्र पर्यनुयोगस्य फलं समनुभूयते ।
तत्र तं संप्रयुञ्जीत नाकाशं मुष्टिभिः क्षिपेत् ।। ६८
तृणाग्रनिष्ठा मेर्वाद्याः पञ्चकानां हि राशयः ।
विवेकनिष्ठाः कीटाद्या एते स्थावरजंगमाः ।। ६९
प्रसुप्तवासनाः केचिद्यथा स्थावरजातयः ।
प्रबुद्धवासनाः केचिद्यथा नरसुरादयः ।। ७०
सवासनाविलाः केचिद्यथैते तिर्यगादयः ।
प्रक्षिप्तवासनाः केचिद्यथैते मोक्षगामिनः ।। ७१
अथ स्वास्वेव संवित्सु मनोबुद्ध्यादिकाः कृताः ।
हस्तपादादिसंयुक्तैः संज्ञाः पञ्चकराशिभिः ।। ७२
तिर्यगादिभिरप्यन्यैरन्याः संज्ञाः प्रकल्पिताः ।
स्थावरादिभिरप्यन्यैरन्यान्याः संविदः कृताः ।। ७३
इति साधो स्फुरन्तीमे चित्राः पञ्चकराशयः ।
रूपैराद्यन्तमध्येषु चलाचलजडाजडैः ।। ७४
एषामेकोऽभिसंकल्पः परमाणुर्महीपते ।
बीजमाकाशवृक्षाणां सर्गाणां तेष्विमानि तु ।। ७५
इन्द्रियाणि च पुष्पादि विषयामोदवर्ति हि ।
इच्छाभ्रमर्यो राजन्त्यो मञ्जर्यश्चञ्चलक्रियाः ।। ७६
लोकान्तराणि स्वच्छानि गुल्मा मूलं समेरवः ।
पल्लवा नीलजलदा लता लोला दिशो दश ।। ७७
वर्तमानानि भूतानि भविष्यन्ति च यानि तत् ।
जयन्ति तान्यसंख्यानि फलानि रघुनन्दन ।। ७८
पञ्चबीजास्त एते हि राम पञ्चकपादपाः ।
स्वयं स्वभावाज्जायन्ते स्वयं नश्यन्ति कालतः ।। ७९
स्वयं नानात्वमायान्ति चिरं जाड्यात्स्फुरन्ति च ।
स्वविविक्ताः शमं यान्ति तरङ्गा इव वारिधौ ।। ८०
इतो यान्ति समुत्सेधमितो यान्ति शमं स्वयम् ।
एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधौ ।। ८१
ये विवेकवशमालयं गता
राम पञ्चकविलासराशयः ।
तेन भूय इह यान्ति संस्थितिं
प्रभ्रमन्ति जगतीतरे मुहुः ।। ८२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० पञ्चकविलासो नामाशीतितमः सर्गः ।। ८०।।