योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०३१

विकिस्रोतः तः
Jump to navigation Jump to search

ईश्वर उवाच ।
चिनोत्यलीकमेवैवं सदुःखास्मीति भावनात् ।
चित्स्वप्नक्षीबतामोहपतिता संभ्रमे यथा ।। १
अमृतापि मृतास्मीति विपर्यस्तमतिर्वधूः ।
यथा रोदित्यनष्टैव नष्टास्मीति तथैव चित् ।। २
अकारणं विपर्यस्ता मतिर्भ्रान्तमपि स्थिरम् ।
यथा जगत्पश्यतीदं तथाहंताभ्रमाच्चितिः ।। ३
चित्तं हि कारणं त्वस्याः संसारानुभवे चितेः ।
न च तत्कारणं किंचिच्चित्त्वान्यत्वात्यसंभवात् ।। ४
एवं हि कारणाभावाच्चेत्यस्यासंभवादिति ।
नासौ चित्तं ततश्चेत्यं यत्नतश्चेत्यते यया ।। ५
न दृश्यदर्शनद्रष्ट्ररूपं तैलमिवोपले ।
न कर्तृकर्मकरणं दृशीन्दाविव कृष्णता ।। ६
न मातृमेयमानानि नभसीव नवाङ्कुरः ।
न चिच्चेतनचेत्यादि नन्दने खदिरो यथा ।। ७
नाहंत्वत्वंत्वतत्त्वादि पर्वतत्वमिवाम्बरे ।
सदेहत्वान्यदेहत्वे शङ्खत्वमिव कज्जले ।। ८
नानाऽनाना न चाप्यन्तरणाविव सुमेरवः ।
न च शब्दार्थशब्दश्रीर्महोषरलता यथा ।। ९
नेति नेति न चैवार्कमण्डले रजनी यथा ।
न वस्तुतावस्तुते च तुषारे तु यथोष्णता ।। 6.1.31.१०
न शून्यताशून्यते वा शिलाकोश इव द्रुमः ।
शून्यताशून्यता नाम महती ख इवाखता ।। ११
केवल केवलीभावस्वच्छतैवावशिष्यते ।
न चित्तात्कस्यचिद्दोषाज्जातयैतदवाप्यते ।। १२
तत्सर्वभावनामात्रेणानर्थः प्रकृतः स्थितः ।
तज्ज्ञेऽप्यभावनामात्रेणानर्थ उपशाम्यति ।। १३
तज्ज्ञेऽप्यभावनामात्रादृतेऽन्यत्रोपयुज्यते ।
न तृणं न च त्रैलोक्यमिति स्वायत्ततात्र या ।। १४
स्वायत्त एव चैषोऽर्थो दुःसाध्यो भावनास्थितः ।
यद्यन्न साध्यते पुंसा तत्कथं क्वेव लभ्यते ।। १५
निर्विकल्पाद्वितीया चिद्यासौ सकलगा सती ।
परमैका परा साच्छा दीपिका तेजसामपि ।। १६
सैषावभासनकरी सर्वगा नित्यनिर्मला ।
नित्योदिता निर्मनस्का निर्विकारा निरञ्जना ।। १७
घटे पटे वटे कुड्ये शकटे वानरे खरे ।
असुरे सागरे भूते नरे नागे च संस्थिता ।। १८
साक्षिवत्तिष्ठति सती स्पन्दते न च कुत्रचित् ।
दीपः प्रकाशनायेव करोति न पुनः क्रियाम् ।। १९
मलिनाप्यमुनैषा साऽविकल्पाढ्या विकल्पिनी ।
जडेवाप्यजडाभासा न सर्वा सर्वगैव च ।। 6.1.31.२०
निर्विकल्पा परा सूक्ष्मा चिच्चिनोति स्वसंविदम् ।
वातावाताङ्गमर्मादि यथा यन्त्रादिवेष्टने ।। २१
रूपालोकमनस्कारवलिता चिदबोधतः ।
बोधतश्चैव भवति निद्रां सदसती यतः ।। २२
सा परैव चिदत्यच्छा चिन्तामायाति चेतनात् ।
साधुरेव यथाऽसाधुर्भाविते दुर्जनैषणाः ।। २३
मलेन स्वर्णमायाति ताम्रतां मलमार्जनात् ।
पुनः कनकतामेति यथा चित्परमा तथा ।। २४
स्वारोपशान्त्या स्वादर्शो यथैति प्रतिमास्थितिम् ।
तथा सर्गमिवागम्य बोधात्स्वं याति तत्पदम् ।। २५
अभाववेदनादस्याः संसारः संप्रवर्तते ।
स्वभाववेदनादेष त्वसदेवोपशाम्यति ।। २६
यदा चित्त्वाच्चिनोत्यन्तरन्यतामसतीं तदा ।
अहंतामिव संप्राप्य नश्यतीवाप्यनाशिनी ।। २७
ईषत्स्पन्दादधो याति भृगुप्रान्तात्तरोः फलम् ।
यथा तथैष संवित्तेरधःपातो महानिव ।। २८
रूपादीनां तु सत्तैषा चित एवामलैव चित् ।
द्वित्वैकत्वे त्वबोधोत्थे बोधेन विलयं गते ।। २९
सत्तामात्रेण चित्तस्य बोधश्चित्तेन्द्रियादिषु ।
आलोकसत्तामात्रेण व्यवहारः क्रियास्विव ।। 6.1.31.३०
वातात्कनीनिकास्पन्दस्तद्दीप्तिर्दृष्टिरुच्यते ।
तद्बाह्यवति तद्रूपरूपबोधस्तु चित्परा ।। ३१
त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गः स्पर्श उच्यते ।
मननं स्पर्शसंवित्तिस्तत्संवित्तिस्तु चित्परा ।। ३२
गन्धतन्मात्रपवनसंबन्धो गन्धसंविदः ।
आसां तु मनसा हीनं वेदनं परमैव चित् ।। ३३
शब्दतन्मात्रश्रवणवातसङ्गान्मनो विना ।
सुषुप्तसदृशी संवित्परमा चिदुदाहृता ।। ३४
क्रियोन्मुखत्वं संकल्पात्संकल्पो मननक्रमः ।
मननं चित्तकालुष्यमात्मा चिन्निर्मला भवेत् ।। ३५
चित्प्रकाशात्मिका नित्या स्वात्मन्येवावसंस्थिता ।
इदमन्तर्जगद्धत्ते सन्निवेशं यथा शिला ।। ३६
अद्वितीया दधानेदं विकारादिविवर्जितम् ।
नास्तमेति न चोदेति स्पन्दते नो न वर्धते ।। ३७
संकल्पाज्जीवतामेत्य निःसंकल्पात्मनात्मना ।
चिज्जडं नो जडं भावं भावयन्ती स्वसंस्थिता ।। ३८
रथस्त्वस्याश्चितेर्जीवो जीवस्याहंकृती रथः ।
अहंकृते रथो बुद्धिस्ततो बुद्धेर्मनो रथः ।। ३९
मनसस्तु रथः प्राणः प्राणस्याक्षगणो रथः ।
अक्षौघस्य रथो देहो देहस्य स्यन्दनो रथः ।। 6.1.31.४०
स्पन्दनं कर्म संसारे जरामरणपञ्जरम् ।
एवं प्रवर्तितं चक्रमिदमादिविभूतिजम् ।। ४१
प्रतिभासत एवात्मन्यसत्स्वप्न इवाततः ।
मनागपि न सत्यात्म मृगतृष्णाम्बुवत्स्थितम् ।। ४२
रथस्त्वत्र स्मृतः प्राणः कल्पनाया मुनीश्वर ।
यत्र प्राणमरुत्तत्र मननं परितिष्ठति ।। ४३
आलोकश्रीः स्थिता यत्र रूपं तत्रैव राजते ।
प्राणो बली स्थितो यत्र तदेव परिवेपति ।। ४४
यत्प्रयाति वनं वात्या तदेव परिघूर्णते ।
मनस्याकाशसंलीने न प्राणः परिवेपति ।। ४५
तेजस्यसत्तामायाते न रूपमिव राजते ।
प्राणे प्रशान्ते मरुति मनोन्तर्न मनागपि ।। ४६
वात्यायामुपशान्तायां रजो न परिकम्पते ।
यत्र प्राणो मरुद्याति मनस्तत्रैव तिष्ठति ।। ४७
यत्र यत्रानुसरति रथस्तत्रैव सारथिः ।
प्राणसंप्रेरितं चित्तं याति देशान्तरे क्षणात् ।। ४८
क्षेपणोन्मुक्तपाषाण इव तत्रान्यथा क्षयि ।
यत्र पुष्पं तत्र गन्धो यत्राग्निस्तत्र सोष्णता ।। ४९
यत्र प्राणो मरुद्याति यत्रेन्दुस्तत्र तच्छविः ।
संवित्तिः पवनस्पन्दान्नाडीसंस्पर्शनश्च सः ।। 6.1.31.५०
संवित्तिस्फारता चित्तं मनस्तत्प्राणकोटरे ।
सर्वत्र विद्यते संविद्व्योमस्वच्छा जडाजडे ।। ५१
क्षुभ्यन्तीव तु सा प्राणस्पन्दादित्यनुभूयते ।
सत्तामात्रस्वरूपेण जडेषु समवस्थिता ।। ५२
प्राणसंबोधिता वेत्ति वेदनात्मतया जडे ।
नानास्फारसमुल्लासैर्यः पूर्वं परिवल्गति ।
प्राणेऽतीते त्वमननः स एवाशु न वेपति ।। ५३
पुर्यष्टके चित्परमा स्वे मुने प्रतिबिम्बति ।
आदर्श एव प्रतिमा दृश्यते नोपलादिषु ।। ५४
मनः पुर्यष्टकं विद्धि सर्वकार्यैककारणम् ।
तदैव भेदैः कथितमन्यैः स्वाशयकल्पितैः ।। ५५
यस्मादुदेति कलनाकुलदृश्यजालं
यत्तत्र च स्थितवदित्यनुभूतमुच्चैः ।
यस्मान्मनो विपरिवर्तति देहदृष्ट्या
सर्वं तु तत्परमवस्त्विति विद्धि विश्वम्।।५६

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० मनःप्राणैक्यप्रतिपादनं नामैकत्रिंशः सर्गः ।। ३१ ।।