सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०९५

विकिस्रोतः तः


पञ्चनवतितमः सर्गः ९५
शिखिध्वज उवाच ।
आब्रह्मस्तम्बपर्यन्तं यद्ययं भासते भ्रमः ।
अर्थक्रियासमर्थश्च तत्कथं दुःखकारणम् ।। १
कुम्भ उवाच ।
एवं जगद्भ्रमस्यास्य भावनं तावदाततम् ।
शिलीभूतस्य शीतेन सलिलस्येव रूक्षता ।। २
अज्ञानं शिथिलीभूतमेवं नष्टं विदुर्बुधाः ।
न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः ।। ३
तनुत्वं सर्वबोधस्य यत्तदेव हि कारणम् ।
सर्गोपशमसंपत्तौ प्रतिपन्ने परे पदे ।। ४
तानवं दृश्यते यस्य तस्यानुक्रमतः स्वयम् ।
पूर्वसंस्थानविगमात्प्रशमोऽप्युपपद्यते ।। ५
अनेनैव क्रमेणैवं त्वमादिपुरुषो नृपः ।
भ्रमाकारोदयं विद्धि मृगतृष्णाम्बुवत्स्थितम् ।। ६
एषा पितामहाभावेऽप्यसती भूतसंततिः ।
न कदाचन तत्सिद्धं यदसिद्धेन साध्यते ।। ७
अयं भूतोपलम्भो हि मृगतृष्णाम्ब्विवोदितः ।
विचाराद्विलयं याति शुक्तौ रजतधीरिव ।। ८
कारणाभावतः कार्यमभूत्वा भवतीति यत् ।
मिथ्याज्ञानादृते तस्य न रूपमुपपद्यते ।। ९
मिथ्यादृष्टिप्रेक्षितं तु न कदाचन विद्यते ।
मृगतृष्णाम्भसा केन घटकाः परिपूरिताः ।। १०
शिखिध्वज उवाच ।
स्रष्टुराद्यस्य परमं ब्रह्म कस्मान्न कारणम् ।
अनन्तमजमव्यक्तमम्बरं शान्तमच्युतम् ।। १२
कुम्भ उवाच ।
हेतुत्वाभावतो ब्रह्म कार्यत्वाभावतस्तथा ।
अद्वैतेनातिगन्तात्मा न च कार्यं न कारणम् ।। १२
अकर्तृकर्मकरणमकारणमबीजकम् ।
अप्रतर्क्यमविज्ञेयं ब्रह्म कर्तृ कथं भवेत् ।। १३
अकारणत्वात्कार्यत्वरहितं तज्जगद्भवेत् ।
अद्वैतैक्यमनाद्यन्तं तदाद्यमुपलम्भनम् ।। १४
अप्रतर्क्यमविज्ञेयं यच्छिवं शान्तमव्ययम् ।
तत्कथं कस्य केनैव कर्तृ भोक्तृ कदा भवेत् ।। १५
अतो नेदं कृतं किंचिज्जगदादि न विद्यते ।
न कर्तासि न भोक्तासि सर्वं शान्तमजं शिवम् ।।१६
कारणाभावतः कार्यं न कस्यचिदिदं जगत् ।
अकारणत्वात्कार्यत्वं भ्रमाद्विद्धि त्विदं जगत् ।। १७
अकार्यत्वाच्च नास्त्येतत्सर्ग इत्थं न विद्यते ।
यदा न कस्यचित्कार्यं कारणस्य जगत्तदा ।। १८
पदार्थाभावसंसिद्धिस्तत्सिद्धौ कस्य वेदनम् ।
एवं तु वेदनाभावे नास्त्यहंत्वस्य कारणम् ।। १९
अतः शुद्धो विमुक्तोऽसि कैवोक्तिर्बन्धमोक्षयोः ।
शिखिध्वज उवाच ।
बुद्धोऽस्मि भगवन्युक्तियुक्तमुक्तं त्वयोत्तमम् ।। २०
कारणाभावतः कर्तृ नेदं ब्रह्मेति वेद्म्यहम् ।
कर्त्रभावाज्जगन्नास्ति तेन नास्ति पदार्थदृक् ।। २१
नातश्चित्तादि तद्बीजं नातोऽहंतादि किंचन ।
एवंस्थिते विशुद्धोऽस्मि विबुद्धोस्मि शिवोस्मि वा । २२
नमो मह्यं परं चेत्यं न किंचिदिति बोधितः ।
पदार्थवेदनादित्थमसदेवावभासते ।
अहमाद्यन्तमेतेन शान्तमासे खकोशवत् ।। २३
जगत्पदार्थप्रविभागदृष्टिः
सदेशदिक्कालकलाक्रियौघा ।
अहो तु कालेन चिरेण शान्ता
ब्रह्मैव शान्तं स्थितमव्ययात्म ।। २४
शाम्यामि निर्वामि परिस्थितोऽस्मि
न यामि नोदेमि न चास्तमेमि ।
तिष्ठामि तिष्ठ स्वयथास्थितात्मा
शिवं शुभं पावनमौनमस्मि ।। २५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजविश्रान्तिर्नाम पञ्चनवतितमः सर्गः ।।९५।।