योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०३३

विकिस्रोतः तः


त्रयस्त्रिंशः सर्गः ३३
श्रीवसिष्ठ उवाच ।
चन्द्रार्धशेखरधर चित्तत्त्वस्य महात्मनः ।
अनन्तस्यैकरूपस्य द्वित्वं कथमुपागतम् ।। १
कथं च तन्महादेव रूढं पर्यायसंकुलम् ।
भवेद्दुःखोपघाताय प्रज्ञया विनिवारितम् ।। २
ईश्वर उवाच ।
सर्वशक्ति हि तद्ब्रह्म सदेकं विद्यते यदा ।
तदा निर्मूल एवायं द्वित्वैकत्वकलोदयः ।। ३
सति द्वित्वे किलैकं स्यात्सत्येकत्वे द्विरूपता ।
कले द्वे अपि चिद्रूपे चिद्रूपत्वात्तदप्यसत् ।। ४
एकाभावादभावोऽत्र एकत्वद्वित्वयोर्द्वयोः ।
एकं विना न द्वितीयं न द्वितीयं विनैकता ।। ५
कार्यकारणयोरेकसारत्वादेकरूपता ।
फलान्तस्यापि बीजादेर्विकारादिह कल्पना ।। ६
चित्त्वं चेत्यविकल्पेन स्वयं स्फुरति तन्मयम् ।
विकारादि तदेवान्तस्तत्सारत्वान्न भिद्यते ।। ७
विकारादिविकल्पोऽयं तत उत्थाय वस्तुषु ।
याति सार्थकतां नानाकार्यकारणतादिभिः ।। ८
तरङ्गाः सलिले येऽपि तोये शैलस्य ते समाः ।
शशश्रृङ्गसमः सोऽपि यस्य सत्यः शशाङ्कुरः ।। ९
वस्तुबोधोऽत्र संधत्ते तत्रालं वाग्विकल्पनैः ।
व्यवच्छेदादि दुश्छेद्यं वचोवाच्यात्किल द्विज ।। १०
ब्रह्मणः सर्वशक्तित्वं तत्त्वतो न विभिद्यते ।
तरङ्गकणकल्लोलजलौघ इव वारिणः ।। ११
पुष्पपल्लवपत्रादि लताया नेतरद्यथा ।
द्वित्वैकत्वजगत्त्वादि त्वन्त्वाहन्त्वं तथा चितेः ।। १२
देशकालविकारादिः कृतो भेदश्चितस्तु यः ।
तच्चिदेतदसत्प्रोक्तं न प्रश्नोऽत्र तवोचितः ।। १३
देशकालक्रियासत्तानियत्याद्याश्च शक्तयः ।
चिदात्मिका एव चितः सत्त्वात्संपतिताः स्वतः ।।१४
चित्तत्त्वं चित्तचेत्येहं चिद्ब्रह्माद्यभिधा स्मृता ।
यथा वीच्याद्यभिधार्हं स्थितमम्बुतरङ्गकम् ।। १५
असंभवत्तरङ्गस्य चिद्विलासमहाम्बुधेः ।
तरङ्गितत्वमिव यत्तत्तावच्चेत्यसङ्गिता ।। १६
तदेतत्परमं ब्रह्म सत्येश्वरशिवादिभिः ।
शून्यैकपरमात्मादिनामभिः परिगीयते ।। १७
एवं रूपपदातीतं यद्रूपं परमात्मनः ।
यत्तु नामाहममलं विषयो न गिरां च तत् ।। १८
यदिदं दृश्यते तस्यास्तल्लताया महाचितेः ।
फलपल्लवपुष्पादि न भिन्नं तन्मयं यतः ।। १९
महाविद्योपनयना चिद्भवत्यभिधा सती ।
सा जीवत्वेन बाह्यत्वं तदा द्वीन्द्विव पश्यति ।। २०
स्वयमन्यैवमस्मीति भावयित्वा स्वभावतः ।
अन्यतामिव संयाति स्वविकल्पात्मिकां स्वतः ।। २१
अकलङ्केन रूपेण रूपं यत्सकलङ्कवत् ।
संसारसरितं प्राप्य चेतनेनैव चेतति ।। २२
चिद्वपुः स्वयमेतेन ह्येकतामेति जीवताम् ।
चित्तत्त्वस्यावभासेन जीवो जीवति तन्मयः ।। २३
आतिवाहिकदेहोऽपि जीवतां समुपागतः ।
भावनापञ्चकं भूत्वा द्रव्यमस्मीति वेत्त्यलम् ।। २४
तद्द्रव्यं प्राणिना भुक्तमाशु गच्छति वीर्यताम् ।
ततोऽहं प्राणवाञ्जातो वेत्तीत्यनुभवात्मकम् ।। २५
अहंतादिक्रमेणाशु पञ्चकानुभवभ्रमात् ।
स्थावरं जंगमं सर्वं वेत्ति तत्तद्भवत्यलम् ।। २६
काकतालीययोगेन दृढाभ्यासक्षयेण च ।
वासनान्तरसंश्लेषात्सूक्ष्ममाकारमुज्झति ।। २७
द्वित्वस्वसंविदा द्वित्वमेकस्यैव प्रवर्तते ।
पुंसो वेतालसंकल्पाद्वेताल इव भासुरः ।। २८
अद्वित्ववेदनाद्वित्वमात्मनोऽपि निवर्तते ।
न करोमीति संकल्पात्पुरुषस्येव कर्तृता ।। २९
द्वित्वसंकल्पतो द्वित्वमेकस्यैव प्रवर्तते ।
अद्वित्वसंविदा द्वित्वमनेकस्यापि नश्यति ।। ३०
परमात्मतया द्वित्वं न किलात्मनि विद्यते ।
अविकारादिमत्त्वेन सर्वगत्वेन सर्वदा ।। ३१
यत्स्वसंकल्परचितमसंकल्पक्षयं हि तत् ।
यथा मुने मनोराज्यं गन्धर्वनगरं यथा ।। ३२
तथा संकल्पने क्लेशो न संकल्पविनाशने ।
संकल्पयक्षो गन्धर्वपुर्याः सृष्टौ न तु क्षये ।। ३३
पुष्टसंकल्पमात्रेण यदिदं दुःखमागतम् ।
तदसंकल्पमात्रेण क्षयि कात्र कदर्थना ।। ३४
यत्किंचिदपि संकल्प्य नरो दुःखे निमज्जति ।
न किंचिदपि संकल्प्य सुखमव्ययमश्नुते ।। ३५
संकल्पव्यालनिर्मुक्ता न यदा तव चेतना ।
न तदा नन्दनोद्याने त्वमुच्चैः परिराजसे ।। ३६
स्वविवेकानिलैः कृत्वा संकल्पजलदक्षयम् ।
परां निर्मलतामेहि शरदीव नभोन्तरम् ।। ३७
संकल्पसरितं मत्तां मणिमन्त्रेण शोषय ।
तत्रोह्यमानमात्मानं समाश्वास्य भवामनाः ।। ३८
संकल्पानिलनिर्धूतं भ्रान्तं पर्णतृणांशवत् ।
भूताकाशे चिदात्मानमवलम्ब्य विलोकय ।। ३९
स्वसंकल्पनकालुष्यं विनिवार्यात्मनात्मनः ।
परं प्रसादमासाद्य परमानन्दवान्भव ।। ४०
सर्वशक्तिमयो ह्यात्मा यद्यथा भावयत्यलम् ।
तत्तथा पश्यति तदा स्वसंकल्पविजृम्भितम् ।। ४१
संकल्पमात्रमेवेदं जगन्मिथ्यात्वमुत्थितम् ।
असंकल्पनमात्रेण ब्रह्मन्क्वापि विलीयते ।। ४२
संकल्पवातवलितं जन्मजालकदम्बकम् ।
असंकल्पानिलस्पर्शाद्विश्राम्यति परे पदे ।। ४३
तृष्णाकरञ्जलतिकामिमां रूढिमुपागताम् ।
संकल्पमूलोद्धरणात्परिशोषवतीं कुरु ।। ४४
प्रतिभाससमुत्थानं प्रतिभासपरिक्षयम् ।
यथा गन्धर्वनगरं तथा संसृतिविभ्रमः ।। ४५
प्रभुरस्मीति विस्मृत्य तावच्छोचति भूमिपः ।
भूमिपोऽस्मीति संजाता यावन्नास्य हृदि स्मृतिः ।।४६
नास्य तज्जातया ब्रह्मन्प्राक्स्मृतिर्वर्तमानया ।
शरदेवोपगतया प्रावृड् जाड्यापवारिणी ।। ४७
घनप्रवाहयाऽकस्माच्चित्तेहा सैव वर्धते ।
य एवोच्चैःस्वरस्तन्त्र्याः स एवाक्रामति श्रुतिम् ।।४८
अहमेकोऽहमात्मास्मीत्येकां भावय भावनाम् ।
तया भावनया युक्तः स एव त्वं भवस्यलम् ।। ४९
एवं ह्यसंभवदिदं त्वविरागभास्य-
त्तत्सत्त्वमुत्तमपदं परमेकदेवः ।
पूजासु पूजकसुपूजनपूज्यरूपं
किंचिन्नकिंचिदिव चित्तपदैकमूर्तिः ।। ५०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० द्वैतैक्यप्रतिपादनं नाम त्रयस्त्रिंशः सर्गः ।। ३३ ।।