योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १२६

विकिस्रोतः तः
Jump to navigation Jump to search

षड्विंशत्यधिकशततमः सर्गः १२६

श्रीराम उवाच ।
सप्तानां योगभूमीनामभ्यासः क्रियते कथम् ।
कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः ।। १
श्रीवसिष्ठ उवाच ।
प्रवृत्तश्च निवृत्तश्च भवति द्विविधः पुमान् ।
स्वर्गापवर्गोन्मुखयोः शृणु लक्षणमेतयोः ।।२
कियत्तन्नाम निर्वाणं वरं संसृतिरेव मे ।
इतिकर्तव्यकर्ता यः स प्रवृत्त इति स्मृतः ।। ३
चलार्णवयुगच्छिद्रकूर्मग्रीवाप्रवेशवत् ।
अनेकजन्मनामन्ते विवेकी जायते पुमान् ।। ४
असारा बत संसारव्यवस्थालं ममैतया ।
किं कर्मभिः पर्युषितैर्दिनं तैरेव नीयते ।। ५
क्रियातिशयनिर्मुक्तं किं स्याद्विश्रमणं परम् ।
इति निश्चयवान्योऽन्तः स निवृत्त इति स्मृतः ।। ६
कथं विरागवान्भूत्वा संसाराब्धिं तराम्यहम् ।
एवंविचारणपरो यदा भवति सन्मतिः ।। ७
विरागमुपयात्यन्तर्भावनास्वनुवासरम् ।
क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ।। ८
ग्राम्यासु जडचेष्टासु सततं विचिकित्सति ।
नोदाहरति मर्माणि पुण्यकर्माणि सेवते ।। ९
मनोनुद्वेगकारीणि मृदुकर्माणि सेवते ।
पापाद्बिभेति सततं न च भोगमपेक्षते ।। १०
स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।
देशकालोपपन्नानि वचनान्यभिभाषते ।। ११
तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।
मनसा कर्मणा वाचा सज्जनानुपसेवते ।। १२
यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते ।
एवंविचारवान्यः स्यात्संसारोत्तारणं प्रति ।। १३
स भूमिकावानित्युक्तः शेषः स्वार्थ इति स्मृतः ।
विचारनाम्नीमितरामागतो योगभूमिकाम् ।। १४
श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणाम् ।
मुख्यया व्याख्यया ख्याताञ्श्रयते श्रेष्ठपण्डितान्।।१५
पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।
जानात्यधिगतश्रव्यो गृहं गृहपतिर्यथा ।। १६
मदाभिमानमात्सर्यमोहलोभातिशायिताम् ।
बहिरप्याश्रितामीषत्त्यजत्यहिरिव त्वचम् ।। १७
इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवनात् ।
सरहस्यमशेषेण यथावदधिगच्छति ।। १८
असंसङ्गाभिधामन्यां तृतीयां योगभूमिकाम् ।
ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ।। १९
यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलम् ।
तापसाश्रमविश्रामैरध्यात्मकथनक्रमैः ।। २०
संसारनिन्दकैस्तद्वद्वैराग्यकरणक्रमैः ।
शिलाशय्यासमासीनो जरयत्यायुराततम् ।। २१
वनवासविहारेण चित्तोपशमशोभिना ।
असङ्गसुखसौम्येन कालं नयति नीतिमान् ।। २२
अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।
जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ।। २३
तृतीयां भूमिकां प्राप्य बुधोऽनुभवति स्वयम् ।
द्विःप्रकारमसंसङ्गं तस्य भेदमिमं शृणु ।। २४
द्विविधोऽयमसंसङ्गः सामान्यः श्रेष्ठ एव च ।
नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ।। २५
इत्यसञ्जनमर्थेषु सामान्यासङ्गनामकम् ।
प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव च ।। २६
सुखं वा यदि वा दुःख कैवात्र मम कर्तृता ।
भोगाभोगा महारोगाः संपदः परमापदः ।। २७
वियोगायैव संयोगा आधयो व्याधयो धियः ।
कालः कवलनोद्युक्तः सर्वभावाननारतम् ।। २८
अनास्थयेति भावानां यदभावनमान्तरम् ।
वाक्यार्थलग्नमनसः सामान्योऽसावसंगमः ।। २९
अनेकक्रमयोगेन संयोगेन महात्मनाम् ।
वियोगेनासतामन्तः प्रयोगेणात्मसंविदाम् ।। ३०
पौरुषेण प्रयत्नेन संतताभ्यासयोगतः ।
करामलकवद्वस्तुन्यागते स्फुटतां दृढम् ।। ३१
संसाराम्बुनिधेः पारे सारे परमकारणे ।
नाहं कर्तेश्वरः कर्ता कर्म वा प्राकृतं मम ।। ३२
कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ।। ३३
यन्नान्तर्न बहिर्नाधो नोर्ध्वं नाशासु नाम्बरे ।
न पदार्थे नापदार्थे न जडे न च चेतने ।। ३४
आसितं भासनं शान्तमभासं नभसा समम् ।
अनाद्यन्तमजं कान्तं तच्छ्रेष्ठासङ्ग उच्यते ।। ३५
संतोषामोदमधुरः सत्कार्यामलपल्लवः ।
चित्तनालाग्रसंलीनो विघ्नकण्टकसंकटः ।। ३६
विवेकपद्मो रूढोऽन्तर्विचारार्कविलासितः ।
फलं फलत्यसंसङ्गां तृतीयां भूमिकामिमाम् ।। ३७
समवायाद्विशुद्धानां संचयात्पुण्यकर्मणाम् ।
काकतालीययोगेन प्रथमोदेति भूमिका ।। ३८
भूमिः प्रोदितमात्रा तैरमृताङ्कुरिकेव सा ।
विवेकेनाम्बुसेकेन रक्ष्या पाल्या प्रयत्नतः ।। ३९
येनांशेनोल्लसत्येषा विचारेणोदयं नयेत् ।
तमेवानुदिनं यत्नात्कृषीवल इवाङ्कुरम् ।। ४०
एषा हि परिमृष्टान्तरन्यासां प्रसवैकभूः ।
द्वितीयां भूमिकां यत्नात्तृतीयां प्राप्नुयात्ततः ।। ४१
श्रेष्ठा संसङ्गता ह्येषा तृतीया भूमिकात्र हि ।
भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ।। ४२
श्रीराम उवाच ।
मूढस्यासत्कुलोत्थस्य प्रवृत्तस्याधमस्य च ।
अप्राप्तयोगिसङ्गस्य कथमुत्तरणं भवेत् ।। ४३
एकामथ द्वितीयां वा तृतीयां चेतरा च वा ।
आरूढस्य मृतस्याथ कीदृशी भगवन्गतिः ।। ४४
श्रीवसिष्ठ उवाच ।
मूढस्यारूढदोषस्य तावत्संसृतिरातता ।
यावज्जन्मान्तरशतैः काकतालीययोगतः ।। ४५
अथवा साधुसंगत्या वैराग्यं नाभ्युदेति हि ।
वैराग्येऽभ्युदिते जन्तोरवश्यं भूमिकोदयः ।। ४६
ततो नश्यति संसार इति शास्त्रार्थसंग्रहः ।
योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः ।। ४७
भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम् ।
ततः सुरविमानेषु लोकपालपुरेषु च ।। ४८
मेरूपवनकुञ्जेषु रमते रमणीसखः ।
ततः सुकृतसंभारे दुष्कृते च पुरा कृते ।। ४९
भोगजाले परिक्षीणे जायन्ते योगिनो भुवि ।
शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ।। ५०
जनित्वा योगमेवैते सेवन्ते योगवासिताः ।
तत्र प्राग्भावनाभ्यस्तयोगभूमिक्रमं बुधाः ।
स्मृत्वा परिपतन्त्युच्चैरुत्तरं भूमिकाक्रमम् ।। ५१
भूमिकात्रितयं त्वेतद्राम जाग्रदिति स्मृतम् ।
यथावद्भेदबुद्ध्येदं तज्जाग्रदिति दृश्यते ।। ५२
उदेति योगयुक्तानामत्र केवलमार्यता ।
यां दृष्ट्वा मूढबुद्धीनामभ्युदेति मुमुक्षुता ।। ५३
कर्तव्यमाचरन्काममकर्तव्यमनाचरन् ।
तिष्ठति प्राकृताचारो यः स आर्य इति स्मृतः ।। ५४
यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् ।
व्यवहारमुपादत्ते यः स आर्य इति स्मृतः ।। ५५
प्रथमायामङ्कुरितं द्वितीयायां विकासितम् ।
फलीभूतं तृतीयायामार्यत्वं योगिनो भवेत् ।। ५६
आर्यतायां मृतो योगी शुभसंकल्पसंभृतान् ।
भोगान्भुक्त्वा चिरं कालं योगवाञ्जायते पुनः ।। ५७
भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।
सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे ।। ५८
निर्विभागमनाद्यन्तं योगिनो युक्तचेतसः ।
समं सर्वं प्रपश्यन्ति चतुर्थी भूमिकामिताः ।। ५९
अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।
पश्यन्ति स्वप्नवल्लोकांश्चतुर्थीं भूमिकामिताः ।। ६०
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।
विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ।। ६१
सत्तावशेष एवास्ते पञ्चमीं भूमिकां गतः ।
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ।। ६२
शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ।
गलितद्वैतनिर्भासमुदितोऽन्तः प्रबुद्धवान् ।। ६३
सुषुप्तघन एवास्ते पञ्चमीं भूमिकामितः ।
अन्तर्मुखतया तिष्ठन्बहिर्वृत्तिपरोऽपि सन् ।। ६४
परिशान्ततया नित्यं निद्रालुरिव लक्ष्यते ।
कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ।। ६५
षष्ठीं तुर्याभिधामन्यां क्रमात्क्रमति भूमिकाम् ।
यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः ।। ६६
केवलं क्षीणमननमास्ते द्वैतैक्यनिर्गतः ।
निर्ग्रन्थिः शान्तसंदेहो जीवन्मुक्तो विभावनः ।। ६७
अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ।
अन्तःशून्यो बहिःशून्य- शून्यः कुम्भ इवाम्बरे ।।६८
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।
किंचिदेवैष संपन्नस्त्वथ वैष न किंचन ।। ६९
षष्ठ्यां भूम्यामसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ।
विदेहमुक्तता तूक्ता सप्तमी योगभूमिका ।। ७०
अगम्या वचसां शान्ता सा सीमा भवभूमिषु ।
कैश्चित्सा शिवमित्युक्ता कैश्चिद्ब्रह्मेत्युदाहृता ।। ७१
कैश्चित्प्रकृतिपुंभावविवेक इति भाविता ।
अन्यैरप्यन्यथा नानाभेदैरात्मविकल्पितैः ।। ७२
नित्यमव्यपदेश्यापि कथंचिदुपदिश्यते ।
सप्तैता भूमिकाः प्रोक्ता मया तव रघूद्वह ।। ७३
आसामभ्यासयोगेन न दुःखमनुभूयते ।
अस्त्यत्यन्तमदोन्मत्ता मृदुमन्थरचारिणी ।। ७४
करिणी विग्रहव्यग्रा महादशनशंसिनी ।
सा चेन्निहन्यते नूनमनन्तानर्थकारिणी ।। ७५
तदेतासु समग्रासु भूमिकासु नरो जयी ।
करिणी मदमत्ता सा यावन्न विजितौजसा ।। ७६
को नाम सुभटस्तावत्संपत्समरभूमिषु ।
श्रीराम उवाच ।
कासौ प्रमत्ता करिणी काश्च ता रणभूमयः ।। ७७
कथं निहन्यते चैषा क्व चैषा रमते चिरम् ।
श्रीवसिष्ठ उवाच ।
रामेच्छा नाम करिणी इदं मेऽस्त्वितिरूपिणी ।।७८
शरीरकानने मत्ता विविधोल्लासकारिणी ।
मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी ।। ७९
मनोगहनसंलीना कर्मदन्तद्वयान्विता ।
मदोऽस्या वासनाव्यूहः सर्वतः प्रसरद्वपुः ।। ८०
संसारदृष्टयो राम तस्याः समरभूमयः ।
भूयो यत्रानुभवति नरो जयपराजयौ ।। ८१
इच्छानागी निहन्त्येषा कृपणाञ्जीवसंचयान् ।
वासनेहा मनश्चित्तं संकल्पो भावनं स्पृहा ।। ८२
इत्यादिनिवहो नाम्नामस्यास्त्वाशयकोशगः ।
धैर्यनाम्ना वरास्त्रेण प्रसृतामवहेलया ।। ८३
नागीं सर्वात्मिकामेतामिच्छां सर्वात्मना जयेत् ।
यावद्वस्त्विदमित्येवमियमन्तर्विजृम्भते ।। ८४
तावदुग्रा कुसंसारमहाविषविषूचिका ।
एतावानेव संसार इदमस्त्विति यन्मनः ।। ८५
अस्य तूपशमो मोक्ष इत्येवं ज्ञानसंग्रहः ।
प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ ।। ८६
तैलबिन्दुरिवादर्शे विश्राम्यत्युपदेशवाक् ।
असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः ।। ८७
मनागभ्युदितैवेच्छा छेत्तव्यानर्थकारिणी ।
असंवेदनशस्त्रेण विषस्येवाङ्कुरावली ।। ८८
इच्छाविच्छुरितो जीवो विजहाति न दीनताम् ।
स्वसंवेदनयत्नस्तु तूष्णीमेवान्तरासनम् ।। ८९
अवधानविनिर्मुक्तं सुप्तं शवशतं यथा ।
तां प्रत्याहारबडिशेनेच्छामत्सीं नियच्छत ।। ९०
इदं मेऽस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।
अर्थस्याभावनं यत्तत्कल्पनात्याग उच्यते ।। ९१
स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।
तत्र प्रागनुभूतं च नानुभूतं च भाव्यते ।। ९२
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् १
सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामतिः ।। ९३
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति तत् ।
असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते ।। ९४
किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।
परमं यत्र साम्राज्यमपि राम तृणायते ।। ९५
गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।
स्पन्दो विगतसंकल्पस्तथा स्पन्दः स्वकर्मसु ।। ९६
बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते ।
संकल्पनं परो बन्धस्तदभावो विमुक्तता ।। ९७
सर्वमेवमजं शान्तमनन्तं ध्रुवमव्ययम् ।
पश्यन्भूतार्थचिद्रूपं शान्तमास्व यथासुखम् ।। ९८
अवेदनं विदुर्योगं शान्तमासितमक्षयम् ।
योगस्थः कुरु कर्माणि निर्वासनोऽथ मा कुरु ।। ९९
अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भो ।।१००
शिवं सर्वगतं शान्तं बोधात्मकमजं शुभम् ।
तदेकभावनं राम सर्वत्याग इति स्मृतः ।
भावयञ्छश्वदन्तः स्वं कार्यं कर्म समाचर ।। ११
अहंममेति संविदन्न दुःखतो विमुच्यते ।
असंविदन्विमुच्यते यदीप्सितं समाचर ।। १०२
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० परमार्थस्वरूपवर्णनं नाम षड्विंशत्युत्तरशततमः सर्गः ।। १२६ ।।