योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


षड्विंशः सर्गः २६

भुशुण्ड उवाच ।
एषा हि चित्तविश्रान्तिर्मया प्राणसमाधिना ।
क्रमेणानेन संप्राप्ता स्वयमात्मनि निर्मले ।। १
एतां दृष्टिमवष्टभ्य संस्थितोऽस्मि महामुने ।
न चलामि निमेषांशमपि मेरुविचालतः ।। २
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
स्वप्नेऽपि न चलत्येष सुसमाधिर्ममात्मनि ।। ३
नित्यानित्यासु लोलासु जगत्स्थितिषु सुस्थितः ।
अन्तर्मुखोऽस्मि तिष्ठामि स्वकामेनात्मनात्मनि ।। ४
अपि संरुध्यते वायुरपि वा सलिलं गतेः ।
नैतस्मात्सुसमाधानाद्विरुद्धं संस्मराम्यहम् ।। ५
प्राणापानानुसरणात्परमात्मावलोकनात् ।
अशोकमनुजातोऽस्मि पदमाद्यं महातपः ।। ५
आमहाप्रलयाद्ब्रह्मन्नुन्मज्जननिमज्जनम् ।
अहमद्यापि भूतानां पश्यञ्जीवामि धीरधीः ।। ७
न भूतं न भविष्यं च चिन्तयामि कदाचन ।
दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना ।। ८
यथा प्राप्तेषु कार्येषु परित्यक्तफलैषणः ।
सुषुप्तसमया बुद्ध्या परितिष्ठामि केवलम् ।। ९
भावाभावमयीं चिन्तामीहितानीहितान्विताम् ।
विमृश्यात्मनि तिष्ठामि चिरं जीवाम्यनामयः ।। 6.1.26.१०
प्राणापानसमायोगसमयं समनुस्मरन् ।
स्वयमात्मनि तुष्यामि चिरं जीवाम्यनामयः ।। ११
इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ।
इति चिन्ता न मे तेन चिरं जीवाम्यनामयः ।। १२
न स्तौमि न च निन्दामि क्वचित्किंचित्कदाचन ।
आत्मनोऽन्यस्य वा साधो तेनाहं शुभमागतः ।। १३
न तुष्यति शुभप्राप्तौ नाशुभेष्वपि खिद्यते ।
मनो मम समं नित्यं तेनाहं शुभमागतः ।। १४
परमं त्यागमालम्ब्य सर्वमेव सदैव हि ।
जीवितादि मया त्यक्तं तेनाहं शुभमागतः ।। १५
प्रशान्तचापलं वीतशोकं स्वस्थं समाहितम् ।
मनो मम मुने शान्तं तेन जीवाम्यनामयः ।। १६
काष्ठं विलासिनीं शैलं तृणमग्निं हिमं नभः ।
समं सर्वत्र पश्यामि तेन जीवाम्यनामयः ।। १७
किमद्य मम संपन्नं प्रातर्वा भविता पुनः ।
इति चिन्ताज्वरो नास्ति तेन जीवाम्यनामयः ।। १८
जरामरणदुःखेषु राज्यलाभसुखेषु च ।
न बिभेमि न हृष्यामि तेन जीवाम्यनामयः ।। १९
अयं बन्धुः परश्चायं ममायमयमन्यतः ।
इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः ।। 6.1.26.२०
सर्वं सर्वपदाभासमनाद्यन्तमनामयम् ।
अहं चिदिति जानामि तेन जीवाम्यनामयः ।। २१
आहरन्विहरंस्तिष्ठन्नत्तिष्ठन्नुच्छ्वसन्स्वपन् ।
देहोऽहमिति नो वेद्मि तेनास्मि चिरजीवितः ।। २२
इमं सांसारमारम्भं सुषुप्तपदवत्स्थितः ।
असन्तमिव जानामि तेन जीवाम्यनामयः ।। २३
यथाकालमुपायातावर्थानर्थौ समौ मम ।
हस्ताविव शरीरस्थौ तेन जीवाम्यनामयः ।। २४
अपरिचलया शक्त्या सुदृशा स्निग्धमुग्धया ।
ऋजु पश्यामि सर्वत्र तेन जीवाम्यनामयः ।। २५
आपादमस्तकान्तेऽस्मिन्न देहे ममता मम ।
त्यक्ताहंकारपङ्कस्य तेन जीवाम्यनामयः ।। २६
यत्करोमि यदश्नामि तत्त्यक्त्वा तद्वतोऽपि मे ।
मनो नैष्कर्म्यमादत्ते तेन जीवाम्यनामयः ।। २७
यदा यदा मुने किंचिद्विजानामि तदा तदा ।
मतिरायाति नौद्धत्यं तेन जीवाम्यनामयः ।। २८
करोमीशोऽपि नाक्रान्तिं परितापे न खेदवान् ।
दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः ।। २९
पश्यद्रूपे शरीरेऽस्मिन्भूतस्थात्मा चिदास्पदः ।
भूतवृन्दमहं साम्यात्तेन जीवाम्यनामयः ।। 6.1.26.३०
आशापाशविनुन्नायाश्चित्तवृत्तेः समाहितः ।
संस्पर्शे न ददाम्यन्तस्तेन जीवाम्यनामयः ।। ३१
असत्तां जगतः सत्तामात्मनः करबिल्ववत् ।
सुप्तः प्रबुद्धः पश्यामि तेनास्मि चिरजीवितः ।। ३२
जीर्णं भिन्नं श्लथं क्षीणं क्षुब्धं क्षुण्णं क्षयं गतम् ।
पश्यामि नववत्सर्वं तेन जीवाम्यनामयः ।। ३३
सुखितोऽस्मि सुखापन्ने दुःखितो दुःखिते जने ।
सर्वस्य प्रियमित्रं च तेन जीवाम्यनामयः ।। ३४
आपद्यचलधीरोऽस्मि जगन्मित्रं च संपदि ।
भावाभावेषु नैवास्मि तेन जीवाम्यनामयः ।। ३५
नाहमस्मि न चान्यो मे नाहमन्यस्य कस्यचित् ।
इति मे भावितं चित्तं तेन जीवाम्यनामयः ।। ३६
अहं जगदहं व्योम देशकालक्रमावहम् ।
अहं क्रियेति मे बुद्धिस्तेन जीवाम्यनामयः ।। ३७
घटश्चिच्चित्पटश्चित्खं चिद्वनं शकटं च चित् ।
चित्सर्वमिति मे भावस्तेन जीवाम्यनामयः ।। ३८
इत्यहं मुनिशार्दूल त्रिलोककमलालिकः ।
भुशुण्डो नाम काकोलः कथितश्चिरजीवितः ।। ३९
ब्रह्मार्णवे विलुलितं त्रिजगत्तरङ्गमुत्पादनाद्यभिभवेन विभिन्नरूपम् ।
आलीनमुन्नमितमाकुलदृश्यदृश्यमालोकयन्प्रकलयंश्च चिरं स्थितोऽस्मि ।। 6.1.26.४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भुशुं० चिरजीवितहेतुकथनं नाम षड्विंशः सर्गः ।।२६ ।।