कूर्मपुराणम्-उत्तरभागः/द्वितीयोऽध्यायः
ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२
गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३
आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।
स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५
अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।
स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६
न चाप्ययं संसरति न च संसारमयः प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७
न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।
न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८
न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।
न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ।२.९
न माया नैव च प्राणा चैतन्यं परमार्थतः।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।२.१०
तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
छायातपौ यथा लोके परस्परविलक्षणौ ।२.११
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।
तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ।२.१२
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।
पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ।२.१३
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ।
अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः २.१४
सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।
वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ।२.१५
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।२.१६
अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् ।
नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ।२.१७
अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।
पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ।२.१८
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।
तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।२.१९
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ।
अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ।२.२०
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।
कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ।२.२१
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।२.२२
एकः स भिद्यते शक्त्या मायया न स्वभावतः ।
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।२.२३
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।
यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् ।२.२४
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।
यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ।२.२५
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।
ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ।२.२६
अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।२.२७
दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।
यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ।२.२८
रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।
तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।२.२९
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।२.३०
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ।
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।२.३१
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ।
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।२.३२
एकीभूतः परेणासौ तदा भवति केवलम् ।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।२.३३
तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।२.३४
तत एव च विस्तारं ब्रह्म संपद्यते तदा ।
यदा पश्यति चात्मानं केवलं परमार्थतः ।२.३५
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७
यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८
तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् ।
अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०
एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१
योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२
यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते ।
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३
अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४
यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५
एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७
अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः श्रृणोम्यहम् ॥ २.४८
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९
पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०
यन्न देवा विजानन्ति मोहिता मम मायया ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥ २.५१
नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।
प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३
तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५
तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।
मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २ ॥