कूर्मपुराणम्-उत्तरभागः/द्वादशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
श्रृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ।। १२.१

आम्नायसिद्धमखिलं बाह्मणानां प्रदर्शितम् ।
ऋषीणां श्रृण्वतां पूर्वं मनुराह प्रजापतिः ।। १२.२

सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।
समाहितधियो यूयं श्रृणुध्वं गदतो मम ।। १२.३

कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।
गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ।। १२.४

दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ।। १२.५

कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।
ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ।। १२.६

सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।
अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ।। १२.७

वसेदविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ।। १२.८

उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।
अभावे दिव्यमजिनं रौरवं वा विधीयते ।। १२.९

उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ।। १२.१०

सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पैत्रे कर्मणि योजयेत् ।। १२.११

अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ।। १२.१२

उपासने गुरूणां च संध्ययोः साधुसंगमे ।
उपवीती भवेन्नित्यं विधिरेष सनातनः ।। १२.१३

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ।। १२.१४

धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।
यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ।। १२.१५

सायं प्रातर्द्विजः संध्यामुपासीत समाहितः ।
कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ।। १२.१६

अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।। १२.१७

देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण चाम्बुना ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ।। १२.१८

असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्ध्यर्थं द्रव्यादिपरिवर्जितम् ।। १२.१९

आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ।। १२.२०

न कुर्याद् योऽभिवादस्य द्विजः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ।। १२.२१

सव्य्स्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ।। १२.२२

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ।। १२.२३

नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा ।
एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ।। १२.२४

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ।। १२.२५

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ।१२.२६

वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ।१२.२७

श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।१२.२८

अनुवर्त्तनमेतेषां मनोवाक्‌कायकर्मभिः ।
गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ।१२.२९

नैतैरुपविशेत् सार्द्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद् गुरुभिर्नैव भाषणम् ।१२.३०

उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।
गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ।१२.३१

तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।
यो भावयति या सूते येन विद्योपदिश्यते ।१२.३२

ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ।१२.३३

पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।
यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ।१२.३४

तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ।
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ।१२.३५

स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ।
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ।१२.३६

तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।
तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ।१२.३७

न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ।१२.३८

धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ।
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।१२.३९

शिष्यो विद्याफलं भुङ्‌क्ते प्रेत्य वा पूज्यते दिवि ।
यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते ।१२.४०

तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ।
पुंसा वर्त्मनितिष्टेत पूज्यो भर्त्ता तु सर्वदा ।१२.४१

अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम् ।
येनरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ।१२.४२

तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ।
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।१२.४३

असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ।
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।१२.४४

भोभवत्‌पूर्वकत्वेनमभिभाषेत धर्मवित् ।
अभिवाद्यश्च पूज्यश्च शिरसा वन्द्य एव च ।१२.४५

ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ।१२.४६

ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ।१२.४७

सवर्णेषु सवर्णानां काम्यमेवाभिवादनम् ।
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।१२.४८

पतिरेव गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।
विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ।१२.४९

मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ।
पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ।१२.५०

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।
पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ।१२.५१

वृद्धाय भारमग्नाय रोगिणे दुर्बलाय च ।
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ।१२.५२

निवेद्य गुरवेऽश्नीयाद् वाग्यतस्तदनुज्ञया ।
भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः ।१२.५३

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।१२.५४

भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ।१२.५५

भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ।
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।१२.५६

ब्रह्मचारी हरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।१२.५७

अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।।
सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे ।१२.५८

नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।
समाहृत्य तु तद् भैक्षं यावदर्थममायया ।१२.५९

भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।
भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेद् व्रती ।१२.६०

भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ।
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।१२.६१

दृष्ट्वा हृष्येत् प्रसीदेच्च ततो भुञ्जीत वाग्यतः १२.६२
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ।। १२.६३
प्राङ्‌मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।

नाद्यादुदङ्‌मुखो नित्यं विधिरेष सनातनः ।। १२.६४
प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।

शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ।। १२.६५

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे द्वादशोऽध्यायः ।।