कूर्मपुराणम्-उत्तरभागः/त्रयस्त्रिंशत्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ।। ३३.१

मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ।। ३३.२

चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।
ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ।। ३३.३

भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये ।
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ।। ३३.४

पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रीयां मातुरेव च ।
मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् ।। ३३.५

सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च ।
अहोरात्रोषितो भूत्वा ततः कृच्छ्रं समाचरेत् ।। ३३.६

उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति ।
चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः ।३३.७

शुद्धि सांतपनेनास्यान्नान्यथा निष्कृतिः स्मृता।
मातृगोत्रां समारुह्य समानप्रवरां तथा ।३३.८

चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ।
ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् ।३३.९

कन्यकान् दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ।
अमानुषीषु पुरुष उदक्यायामयोनिषु ।३३.१०

रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।
वार्द्धिकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति ।३३.११

गवि मैथुनमासेव्य चरेच्चान्द्रायणव्रतम् ।
वेश्यायां मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः ।३३.१२

पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति ।
पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् ।३३.१३

नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ।। ३३.१४

ब्रहमचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः ।
सप्तागारं चरेद् भैक्षं वसित्वा गर्दभाजिनम् ।। ३३.१५

उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्त्तयन् ।
संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ।। ३३.१६
ब्रह्महत्याव्रतश्चापि षण्मासानाचरेद् यमी ।
मुच्यते ह्यवकीर्णी तु ब्राह्मणानुमते स्थितः ।। ३३.१७

सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् ।
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ।। ३३.१८

ओंकारपूर्विकाभिस्तु महाव्याहृतिभिः सदा ।
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ।। ३३.१९

सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः ।
नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते ।। ३३.२०

हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् ।
अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ।। ३३.२१

अब्दं चरेद्यानयतो वनवासी समाहितः ।
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ।। ३३.२२

प्रमादात्कामतो वैश्यं कुर्यात् संवत्सरत्रयम् ।
गोसहस्रन्तु पादं च दद्याद् ब्रह्महणो व्रतम् ।३३.२३

कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ।
संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ।३३.२४

गोसहस्रार्द्धपादं च दद्यात् तत्पापशान्तये ।
अष्टौ वर्षाणि वा त्रीणि कुर्याद् ब्रह्महणो व्रतम् ।
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ।। ३३.२५

निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् ।
राजन्यां वर्षषट्‌कं तु वैश्यां संवत्सरत्रयम् ।३३.२६

वत्सरेण विशुद्ध्येत शूदीं हत्वा द्विजोत्तमः ।
वैश्यां हत्वा द्विजातिस्तु किञ्चिद् दद्याद् द्विजातये ।३३.२७

अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् ।
पराकेणाथवा शुद्धिरित्याह भगवानजः ।। ३३.२८

मण्डूकं नकुलं काकं बिडालं खरमूषकौ ।
श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ।। ३३.२९

पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा ह्ययन्त्रितः ।
मार्जारं वाऽथ नकुलं योजनं वाध्वनो व्रजेत् ।३३.३०

कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ।
अर्च्चां कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।३३.३१

पलालभारकं षण्डे सीसकं चैकमाषकम् ।
धृतकुम्भं वराहे तु तिलद्रोणं च तित्तिरे।३३.३२

शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।
हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।३३.३३

वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।३३.३४

अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।
किञ्चिद्देयन्तु विप्राय दद्यादस्थिमतां वधे ।३३.३५

अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ।
फलदानां तु वृक्षाणां छेदने जप्यमृक्‌शतम् ।३३.३६

गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ।
अन्येषां चैव वृक्षाणां सरसानां च सर्वशः ।।३३.३७

फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ।
हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् ।३३.३८

चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।
मतिपूर्ववधे चास्याः प्रायश्चित्तं न विद्यते ।। ३३.३९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिंशोऽध्यायः ।।