कूर्मपुराणम्-उत्तरभागः/चतुर्दशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।
आहूतोऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ।। १४.१

नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ।। १४.२

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्‌मुखः ।। १४.३

नच शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ।। १४.४

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।। १४.५

गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।
कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।। १४.६

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ।। १४.७

उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ।। १४.८

नास्य निर्माल्यशयनं पादुकोपानहावपि ।
आक्रमेदासनं चास्य छायादीन् वा कदाचन ।। १४.९

साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ।। १४.१०

न पादौ सारयेदस्य संनिधाने कदाचन ।
जृम्भाहारस्यादिकञ्चैव कण्ठप्रावरणं तथा ।१४.११

वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ।
यथाकालमधीयीत यावन्न विमना गुरुः ।१४.१२

आसीताधो गुरोर्गच्छेत् फलके वा समाहितः ।
आसने शयने याने नैव तिष्ठेत् कदाचन ।१४.१३

धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।१४.१४

नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।
जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ।१४.१५

प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।
गन्धमाल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ।१४.१६

अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।
कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ।१४.१७

आतज्‌र्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ।। १४.१८

उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।
आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ।। १४.१९

कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत्।
अनृत्यदर्शी सततं भवेद् गीतादिनिःस्पृहः ।। १४.२०

नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ।। १४.२१

गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।
कलापकर्षणस्नानं आचरेद्धि कदाचन ।। १४.२२

न कुर्यान्मानसं विप्रो गुरोस्त्यागं कदाचन ।
मोहाद्‌वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ।। १४.२३

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ।। १४.२४

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथंप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ।। १४.२५

गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।
न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ।। १४.२६

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ।। १४.२७

श्रेयत्सु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ।। १४.२८

बालः संमानयन्मान्यान् वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ।। १४.२९

उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ।। १४.३०

गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ।। १४.३१

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ।। १४.३२

गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।
कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ।। १४.३३

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ।। १४.३४

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।
संपूज्या गुरुपत्नीच समस्ता गुरुभार्यया ।। १४.३५

भ्रातुर्भार्याचसंग्रृह्या सवर्णाऽहन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ।। १४.३६

पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ।। १४.३७

एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् ।
वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ।। १४.३८

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ।। १४.३९

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्या देश धर्मतः ।। १४.४०

कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।
आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ।१४.४१

एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।
आचम्य संयतो नित्यमधीयीत उदङ्‌मुखः।१४.४२

उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।
अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति नारभेत् ।। १४.४३

प्राक्‌कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ।। १४.४४

ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।
कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ।। १४.४५

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।
अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ।। १४.४६

योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ।। १४.४७

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ।। १४.४८

अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।
धर्माङ्गानि पुराणानि मांसैस्तर्पयेत्सुरान् ।। १४.३९

अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।
गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ।। १४.५०

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ।। १४.५१

गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।
एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ।। १४.५२

ओंकारमादितः कृत्वा व्याहृतीस्तदनन्तरम्।
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ।१४.५३

पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ।१४.५४

महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ।। १४.५५

प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।
सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ।। १४.५६

ओंकारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।
एष मन्त्रो महायोगः सारात् सार उदाहृतः ।। १४.५७

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ।। १४.५८

गायत्री वेदजननी गायत्री लोकपावनी ।
न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ।। १४.५९

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ।। १४.६०

उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ।। १४.६१

पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजाः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ।। १४.६२

छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ।। १४.६३

इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणो ह्यनध्यायन्विवर्जयेत् ।। १४.६४

कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।१४.६५

आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।
एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।१४.६६

एतानाकालिकान् विद्यादनध्यायानृतावपि ।
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।१४.६७

सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने।
नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।१४.६८

धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।
अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ।१४.६९

अनध्यायो रुद्यमाने समवाये जनस्य च ।
उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ।१४.७०

उच्छिष्टः श्राद्धबुक् चैव मनसाऽपि न चिन्तयेत् ।
प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ।१४.७१

त्र्यहं न कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ।
यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ।१४.७२

विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ।
शयानः प्रौढपादश्च कृत्वा चैचावसिक्थकाम् ।१४.७३

नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।
नीहारे बाणपाते च संध्ययोरुभयोरपि ।१४.७४

अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।१४.७५

अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।
मार्गशीर्षे तथा पौषे माघमासे तथैव च ।१४.७६

तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।
श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।१४.७७

कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।
समानविद्ये च मृते तथा सब्रह्मचारिणि ।१४.७८

आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।
छिद्राण्येतानि विप्राणांयेऽनध्यायाः प्रकीर्तिताः ।१४.७९

हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।
नैत्यके नास्त्यनध्यायः संध्योपासन एव च ।१४.८०

उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।
एकामृचमथैकं वा यजुः सामाथवा पुनः ।१४.८१

अष्टकाद्यास्वधीयीत मारुते चातिवायति ।
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।१४.८२

न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।
एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ।१४.८३


ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ।१४.८४

स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।
न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः ।१४.८५

पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।
योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।१४.८६

स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।
यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ।१४.८७

युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।
गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ।१४.८८

अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितः
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।

अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ।। १४.८९

एतद् विधानं परमं पुराणं
वेदागमे सम्यगिहेरितञ्च ।
पुरा महर्षिप्रवरानुपृष्टः
स्वायंभुवो यन्मनुराह देवः ।। १४.९०

एवमीश्वरसमर्पितान्तरो
योऽनुतिष्ठति विधिं विधानवित् ।
मोहजालमपहाय सोऽमृतो
याति तत् पदमनामयं शिवम् ।। १४.९१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्यायः ।।