कूर्मपुराणम्-उत्तरभागः/पञ्चदशोऽध्यायः
व्यास उवाच ।
वेदं वेदौ तथा वेदान् विन्द्याद्वा चतुरो द्विजाः ।
अधीत्य चाभिगम्यार्थं ततः स्नायाद् द्विजोत्तमाः ।। १५.१
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतोऽथ युक्तात्मा सशक्तः स्नातुमर्हति ।। १५.२
वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ।। १५.३
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ।। १५.४
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।
अन्यत्रकाञ्चनाद् विप्रः नरक्तां बिभृयात् स्त्रजम् ।। १५.५
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद् वै वैभवे सति ।। १५.६
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्त्रजं चाथ पादुके न प्रयोजयेत् ।। १५.७
उपवीतकरान् दर्भान् तथा कृष्णाजिनानि च ।
नापसव्यं परीदध्याद् वासो न विकृतंञ्च यत् ।। १५.८
आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ।। १५.९
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ।। १५.१०
ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ।। १५.११
षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ।। १५.१२
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ।। १५.१३
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ।। १५.१४
अभ्यसेत् प्रयतो वेदं महायज्ञांश्च भावयेत् ।
कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च ।। १५.१५
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ।। १५.१६
न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।
कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ।। १५.१७
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ।। १५.१८
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ।। १५.१९
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् तरिष्यति ।। १५.२०
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ।। १५.२१
संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्द्धते ।। १५.२२
वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजापनिरतः श्राद्धकृन्मुच्यते गृही ।। १५.२३
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ।। १५.२४
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ।। १५.२५
विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ।। १५.२६
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरत ज्ञानमेतद् ब्राह्मणलक्षणम् ।। १५.२७
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ।। १५.२८
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ।। १५.२९
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ।। १५.३०
स्वदुःखेष्विव कारुण्यं परदुः खेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ।। १५.३१
चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमिति तद् विद्याद् यत्र धर्मो विवर्द्धते ।। १५.३२
अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ।। १५.३३
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ।। १५.३४
दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ।। १५.३५
यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ।। १५.३६
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो भवेत्तदनुत्तमम् ।। १५.३७
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ।। १५.३८
नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ।। १५.३९
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ।। १५.४०
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवदेत् ।। १५.४१
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ।। १५.४२
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशोऽध्यायः ।।