कूर्मपुराणम्-उत्तरभागः/षड्त्रिंशत्तमोऽध्यायः
सूत उवाच ।
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ ३६.१
पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ ३६.२
अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३६.३
तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपोऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ३६.४
ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ ३६.५
अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ ३६.६
अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ ३६.७
एतत् स्वदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ३६.८
अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्द्धासनं लभेत् ॥ ३६.९
अथान्या पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ ३६.१०
कालञ्जरं महातीर्थं रुद्रलोके महेश्वरः ।
कालंजरं भवन्देवो यत्र भक्तप्रियो हरः ॥ ३६.११
श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारैः पूजयामास शूलिनम् ॥ ३६.१२
संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ ३६.१३
सितं कार्ष्णाजिनं दीप्तं शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ ३६.१४
वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीपितम् ॥ ३६.१५
उभाभ्यामथ हस्ताभ्यां स्पृष्ट्वाऽसौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ ३६.१६
जपन्तमाह राजानं नमन्तं मनसा भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ ३६.१७
तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्च्चनरतं विहायान्यन्निषूदय ॥ ३६.१८
इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वाऽन्यो मद्वशे को न तिष्ठति ॥ ३६.१९
एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजाऽपि जजाप शतरुद्रियम् ॥ ३६.२०
अथान्तरिक्षे विपुलं दीप्यमानं तेजोराशिं भूतभर्त्तुः पुराणम् ।
ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं संददर्श ॥ ३६.२१
तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् ।
तेजोरूपं पश्यति स्मातिहृष्टो मेने चात्मानमप्यागच्छतीति ॥ ३६.२२
आगच्छन्तं नातिदूरेऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् ।
व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ ३६.२३
आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्त्ता पुराणः ।
एवं भक्तं सत्वरं मां स्मरन्तं देहीतीमं कालरूपं ममेति ॥ ३६.२४
श्रुत्वा वाक्यं गोपते रुद्रभावः कालात्माऽसौ मन्यमानः स्वभावम् ।
बद्ध्वा भक्तं पुनरेवाऽथ पाशैः रुद्रो रौद्रमभिदुद्राव वेगात् ॥ ३६.२५
प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।
सावज्ञं वै वामपादेन कालं त्वेतस्यैनं पश्यतो व्याजघान ॥ ३६.२६
ममार सोऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ ३६.२७
निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुंगवस्तदा ॥ ३६.२८
नमो भवाय हेतवे हराय विश्वसंभवे ।
नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ ३६.२९
नमो नमो नमो नमो महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३६.३०
नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।
अनादिनित्यभूतये वराहश्रृङ्गधारिणे ॥ ३६.३१
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते शिवाय शङ्कराय ते ॥ ३६.३२
अथानुगृह्य शंकरः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३६.३३
सहोमया सपार्षदः सराजपुंगवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३६.३४
काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ ३६.३५
नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६.३६
स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ ३६.३७
इत्येतत् परमं तीर्थं कालंजरमिति श्रुतम् ।
गत्वाऽभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३६.३८
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्त्रिंशोऽध्यायः ॥ ३६॥