कूर्मपुराणम्-उत्तरभागः/एकत्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
कथं देवेन रुद्रेण शंकरेणातितेजसा ।
कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ।। ३१.१
सूत उवाच ।
श्रृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।
माहात्म्यं देवदेवस्य महादेवस्य धीमतः ।। ३१.२
पुरा पितामहं देवं मेरुश्रृङ्गे महर्षयः ।
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ।। ३१.३
स मायया महेशस्य मोहितो लोकसंभवः ।
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ।। ३१.४
अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः ।
अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ।। ३१.५
अहं हि सर्वदेवानां प्रवर्त्तकनिवर्त्तकः ।
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ।। ३१.६
तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।
प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ।। ३१.७
किं कारणमिदं ब्रह्मन् वर्त्तते तव सांप्रतम् ।
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ।। ३१.८
अहं धाता हि लोकानां जज्ञे नारायणात्प्रभोः ।
न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ।। ३१.९
अहमेव परं ज्योतिरहमेव परा गतिः ।
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ।। ३१.१०
एवं विवदतोर्मोहात् परस्परजयैषिणोः ।
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ।। ३१.११
अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ।। ३१.१२
ऋग्वेद उवाच ।
यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ।। ३१.१३
यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ।। ३१.१४
सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।
योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ।। ३१.१५
अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।
महेशं पुरुषं रुद्रं स देवो भगवान् भवः ।। ३१.१६
एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।
श्रुत्वाह प्रहसन् वाक्यं विश्वात्माऽपि विमोहितः ।। ३१.१७
कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।
रमते भार्यया सार्द्धं प्रमथैश्चातिगर्वितैः ।। ३१.१८
इतिरितेऽथ भगवान् प्रणवात्मा सनातनः ।
अमूर्त्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ।। ३१.१९
प्रणव उवाच ।
न ह्येष भगवानीशः स्वात्मनो व्यतिरिक्तया ।
कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ।। ३१.२०
अयं स भगवानीशः स्वयंज्योतिः सनातनः ।
स्वानन्दभूता कथिता देवी आगन्तुका शिवा ।। ३१.२१
इत्येवमुक्तेऽपि तदा यज्ञमूर्त्तेरजस्य च ।
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ।। ३१.२२
तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ।। ३१.२३
तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।
व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ।। ३१.२४
स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।
तैजसं मण्जलं घोरमालोकयदनिन्दितम् ।। ३१.२५
प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।
क्षणादपश्यत महान् पुरुषो नीललोहितः ।। ३१.२६
त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।
तं प्राह भगवान् ब्रह्मा शंकरं नीललोहितम् ।। ३१.२७
जानामि भगवान् पूर्वं ललाटादद्य शंकरम् ।
प्रादुर्भूतं महेशानं मामतः शरणं व्रज ।। ३१.२८
श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ।। ३१.२९
स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः ।
चकर्त्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ।। ३१.३०
निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना ।
ममार चेशो योगेन जीवितं प्राप विश्वसृक् ।। ३१.३१
अथान्वपश्यद् गिरिशं मण्डलान्तरसंस्थितम् ।
समासीनं महादेव्या महादेवं सनातनम् ।। ३१.३२
भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।
कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ।। ३१.३३
शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।
त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ।। ३१.३४
यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।
तमादिमेकं ब्रह्माणं महादेवं ददर्श ह ।। ३१.३५
यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।
सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ।। ३१.३६
यस्याशेषजगद् बीजं विलयं याति मोहनम् ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ।। ३१.३७
योऽथ नाचारनिरतास्तद्भक्तानेव केवलम् ।
विमोचयति लोकात्मा नायको दृश्यते किल ।। ३१.३८
यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।
अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ।। ३१.३९
यस्याशेषजगत्सूतिः विज्ञानतनुरीश्वरः।
न मुञ्चति सदा पार्श्वं शंकरोऽसौ च दृश्यते।।३१.४०
विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।
हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते परः ।।३१.४१
पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।
दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ।। ३१.४२
तत्सन्निधाने सकलं नियच्छति सनातनः ।
कालं किल स योगात्मा कालकालो हि दृश्यते ।। ३१.४३
जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।
सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ।। ३१.४४
देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः ।
गीयते परमा मुक्तिः महादेवः स दृश्यते।। ३१.४५
योगिनो योगतत्त्वज्ञा वियोगाभिमुखोऽनिशम् ।
योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ।। ३१.४६
सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।
वरासने समासीनमवाप परमां स्मृतिम् ।। ३१.४७
लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।
तोषयामास वरदं सोमं सोमविभूषणम् ।। ३१.४८
ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै सततं नमः ।। ३१.४९
ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।
मूलप्रकृतये तुभ्यं महेशाय नमो नमः ।। ३१.५०
नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ।। ३१.५१
नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ।। ३१.५२
नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।
नमोऽस्तु ते प्रकृतये नमो नारायणाय च ।। ३१.५३
योगादाय नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ।। ३१.५६
नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।
नमः कार्यविहीनाय विश्वप्रकृतये नमः ।। ३१.५७
ओंकारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ।। ३१.५८
इति सोमाष्टकेनेशं प्रणिपत्य पितामहः ।
पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ।। ३१.५९
अथ देवो महादेवः प्रणतार्तिहरो हरः ।
प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव सांप्रतम् ।। ३१.६०
दत्त्वाऽस्मै परमं योगमैश्वर्यमतुलं महत् ।
प्रोवाचान्ते स्थितं देवं नीललोहितमीश्वरम् ।। ३१.५९
एष ब्रह्माऽस्य जगतः संपूज्यः प्रथमः स्थितः ।
आत्मना रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ।। ३१.६०
अयं पुराणपुरुषो न हन्तव्यस्त्वयाऽनघ ।
स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ।। ३१.६१
अयं च यज्ञो भगवान् सगर्वो भवताऽनघ ।
शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ।। ३१.६२
ब्रह्महत्यापनोदार्थं व्रतं लोके प्रदर्शयन् ।
चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ।। ३१.६३
इत्येतदुक्त्वा वचनं भगवान् परमेश्वरम् ।
स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ।। ३१.६४
ततः स भगवानीशः कपर्दी नीललोहितः ।
ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ।। ३१.६५
चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।
कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ।। ३१.६६
उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्येति विश्रुताम् ।
दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ।। ३१.६७
यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति ।
तावत् विभीषणाकारा ह्यनुगच्छ त्रिशूलि८म् ।। ३१.६८
एवमाभाष्य कालाग्निं प्राह देवो महेश्वरम् ।
अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ।। ३१.६९
यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।
तदाऽसौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ।। ३१.७०
स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ।। ३१.७१
आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।
श्रीमत् पवित्रं रुचिरं लेचनत्रयसंयुतम् ३१.७२
कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।
भाति कालाग्निनयनो महादेवः समावृतः ।। ३१.७३
पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।
लीलाविलासूबहुलो लोकानागच्छतीश्वरः ।। ३१.७४
तं दृष्ट्वा कालवदनं शंकरं कालभैरवम् ।
रूपलावण्यसंपन्नं नारीकुलमगादनु ।। ३१.७५
गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ।। ३१.७६
स देवदानवादीनां देशानभ्येत्य शूलधृक् ।
जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ।। ३१.७७
निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ।। ३१.७८
अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ।। ३१.७९
शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ।। ३१.८०
(अथैनं शंकरगणं युयुधे विष्णुसंभवः ।
भीषणो भैरवादेशात् कालवेग इति श्रुतः )।।
विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।
दुद्रावाभिमुखं रुद्रं चिक्षेप च सुदर्शनम् ।। ३१.८१
अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।
तमापतन्तं सावज्ञमालोकयदमित्रजित् ।। ३१.८२
तदन्तरे महद्भूतं युगान्तदहनोपमम् ।
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ।। ३१.८३
स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।
तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ।। ३१.८४
निहत्य विष्णुपुरुषं सार्धं प्रमथपुंगवैः ।
विवेश चान्तरगृहं समादाय कलेवरम् ।। ३१.८५
निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।
शिरो ललाटात् संभिद्य रक्तधारामपातयत् ।। ३१.८६
गृहाण भगवन् भिक्षां मदीयाममितद्युते ।
न विद्यतेऽन्या ह्युचिता तव त्रिपुरमर्दन ।। ३१.८७
न संपूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः ।
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ।। ३१.८८
अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ।। ३१.८९
किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् ।
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ।। ३१.९०
समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ।। ३१.९१
न तत्याजाथ सा पार्श्वं व्याहृताऽपि मुरारिणा ।
चिरं ध्यात्वा जगद्योनिं शंकरं प्राह सर्ववित् ।। ३१.९२
व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।
यत्राखिलजगद्दोषात् क्षिप्रं नाशयतीश्वरः ।। ३१.९३
ततः सर्वाणि भूतानि तीर्थान्यायतनानि च ।
जगाम लीलया देवो लोकानां हितकाम्यया ।। ३१.९४
संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ।। ३१.९५
तमभ्यधावद् भगवान् हरिर्नारायणः प्रभुः ।
अथास्थायापरं रूपं नृत्यदर्शनलालसः ।। ३१.९६
निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः ।
सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ।। ३१.९७
अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।
भेजे महादेवपुरीं वाराणसीति विश्रुताम् ।। ३१.९८
प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि ।
हा हेत्युक्त्वा सनादं वै पातालं प्राप दुःखिता ।। ३१.९९
प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।
गणानामग्रतो देवः स्थापयामास शंकरः ।। ३१.१००
स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।
उक्त्वा सजीवमस्त्विति विष्णवेऽसौ घृणानिधिः ।। ३१.१०१
ये स्मरन्ति ममाजस्रं कापालं वेषमुत्तमम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ।। ३१.१०२
आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ।। ३१.१०३
अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै ।
देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ।। ३१.१०४
इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् ।
सहैव प्रमथेशानैः क्षणादन्तरधीयत ।। ३१.१०५
स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।
स्वंदेशमगत् तूष्णीं गृहीत्वा परमं बुधः ।। ३१.१०६
एतद् वः कथितं पुण्यं महापातकनाशनम् ।
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ।। ३१.१०७
य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ।। ३१.१०८
ति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशोऽध्यायः ।।