कूर्मपुराणम्-उत्तरभागः/सप्तविंशतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ।। २७.२

निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा ।
दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ।। २७.२

शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।
गत्वाऽरण्यं नियमवांस्तपः कुर्यात् समाहितः ।। २७.३

फलमूलानि पूतानि नित्यमाहारमाहरेत् ।
यताहारो भवेत् तेन पूजयेत् पितृदेवताः ।। २७.४

पूजयित्वाऽतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् ।
गृहादादाय चाश्नीयादष्टौ ग्रासान् समाहितः ।। २७.५

जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ।। २७.६

अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् ।
मुन्यन्नैंर्विविधैर्वन्यैः शाकमूलफलेन च ।। २७.७

चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ।। २७.८

दर्शेन पौर्णमासेन यजेत् नियतं द्विजः ।
ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् ।२७.९

उत्तरायणं च क्रमशो दक्षस्यायनमेव च ।
वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।२७.१०

पुरोडाशांश्चरूंश्चैव द्विविधं निर्वपेत् पृथक् ।
देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः ।२७.११

शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ।।
वर्जयेन्मधुमांसानि भौमानि कवचानि च ।२७.१२

भूस्तृणं शिशुकं चैव श्लेष्मातकफलानि च ।
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ।२७.१३

न ग्रामजातान्यार्त्तोऽपि पुष्पाणि च फलानि च ।
श्रावणेनैव विधिना वह्निं परिचरेत् सदा ।२७.१४

न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ।
न नक्तं किंचिदश्नीयाद् रात्रौ ध्यानपरो भवेत् ।२७.१५

जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ।। २७.१६
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ।। २७.१७

तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।
न हि वेदेऽधिकारोऽस्य तद्वंशेप्येवमेव हि ।। २७.१८

अधः शयीत सततं सावित्रीजाप्यतत्परः
शरण्यः सर्वभूतानां संविभागपरः सदा ।। २७.१९

परिवादं मृषावादं निद्रालस्यं विवर्जयेत् ।
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ।। २७.२०

मृगैः सह चरेद् वासं तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः ।। २७.२१

सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ।। २७.२२

त्यजेदाश्वयुजे मासि संपन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ।। २७.२३

दन्तोलूखलिको वास्यात् कापोतीं वृत्तिमाश्रयेत् ।
अश्मकुट्टो भवेद् वाऽपि कालपक्वभुगेव वा ।। २७.२४

नक्तं चान्नं समश्नीयाद् दिवा चाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद्वाचाष्टमकालिकः ।। २७.२५

चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् ।
पक्षे पक्षे समश्नीयाद् द्विजाग्रान् कथितान् सकृत् ।। २७.२६

पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ।। २७.२७

भूमौ वा परिवर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ।। २७.२८
ग्रीष्मे पञ्चतपास्तद्वत् वर्षास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः ।। २७.२९

उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ।। २७.३०

पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपोऽथ वा ।
पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् ।२७.३१

शीर्णपर्णाशनो वा स्यात् कृच्छ्रै र्वा वर्त्तयेत् सदा।
योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा ।२७.३२

अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ।
यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ।२७.३३

कृष्णाजिनः सोत्तरीयः शुक्लयज्ञोपवीतवान् ।।
अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ।२७.३४

अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।२७.३५

गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ।।
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान् वने वसन् ।२७.३६

प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ।२७.३७

विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ।
महाप्रास्थानिकं वासौ कुर्यादनशनं तु वा ।
अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः ।२७.३८

यस्तु सम्यगिममाश्रमं शिवं
संश्रयन्त्यशिवपुञ्जनाशनम् ।
ते विशन्ति परमैश्वरं पदं
यान्ति यत्र गतमस्य संस्थितेः ।। २७.३९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे सप्तविशोऽध्याय ।।