कूर्मपुराणम्-उत्तरभागः/चतुस्त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ।
चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२
धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३
भक्ष्यभोज्योपहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयः स्कांतोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६
कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७
नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् ।
काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ।३४.८
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ।
क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ।३४.९
गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।
शिशुमारं तथाचाषं मत्यमांसं तथैव च॥३४.१०
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ।
नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् ।३४.११
श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२
बकं चैव बलाकाञ्च हंसं कारण्डवं तथा ।
चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३
कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च ।
उलूकं जालपादं च जग्ध्वाऽप्येतद् व्रतं चरेत् ॥ ३४.१४
शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।
जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ ३४.१५
कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६
जलेचरांश्च जलजान् प्रणुदानथविष्किरान् ।
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७
शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८
वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा ।
प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९
पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।
नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२०
अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।
प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१
अलाबु किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् ।
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥
वृथा कृसरसंयावं पायसापूपसंकुलम् ।
भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥
पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥
अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।
संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ।
एतेषां च विकाराणि पीत्वा मोहेन वा पुनः।३४.२२
गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ।
भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ।३४.२३
चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ।
यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ।३४.२४
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ।
अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ।३४.२५
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ।३४.२६
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ।
असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ।३४.२७
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ।
विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ।३४.२८
अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।३४.२९
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।३४.३०
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।
क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ।३४.३१
महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः ।
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२
प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने ।
क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् ।३४.३३
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ।
सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ।३४.३४
समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।
गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५
अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।
तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६
चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।
चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७
चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।
त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८
महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि ।
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।
प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४०
स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१
शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः ।
भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२
संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३
व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४
ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।
गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५
तैलाभ्यक्तोऽथवा कुर्याद् यदि मूत्रपुरीषके ।
अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६
एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः ।
त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७
दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८
पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।
चरेत् सांतपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९
अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा ।
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५०
पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।
शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१
अनुपासितसंध्यस्तु तदहर्यावके वसेत् ।
अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ ३४.५२
अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ ३४.५३
उपवासी चरेत् संध्यां गृहस्थोऽपि प्रमादतः ।
स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४
वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।
स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ ३४.५५
संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः ।
चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६
नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद् द्विजः ।
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७
उष्ट्रयानं समारुह्य खरयानं च कामतः ।
त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८
षष्ठान्नकालतामासं संहिताजप एव च ।
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ३४.५९
नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।
अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६०
वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१
उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२
उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः ।
प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३
द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४
चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः ।
उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५
चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् ।
स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टपतितितास्तथा ॥ ३४.६६
चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि ।
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७
तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८
भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि।
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् व्रतम् ॥ ३४.६९
चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये ।
स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७०
सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१
ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२
स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३
अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः ।
अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४
आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५
विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च ।
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६
बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ ३४.७७
अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८
कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।
सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९
पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।
छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम् ॥ ३४.८०
ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१
कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् ।
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ ३४.८२
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।
स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३
ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५
गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् ।
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६
देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७
देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः ।
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८
देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः ।
शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९
देवतानामृषीणां च देवानां चैव कुत्सनम् ।
कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९०
तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।
दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१
यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।
न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२
चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रक् ।
प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ ३४.९३
सर्वस्वदानं विधिवत् सर्वपापविशोधन।
चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४
पुण्यक्षेत्राभिगमनं सर्वपापविनाशन ।
अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ।३४.९५
ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६
कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।
संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७
त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाह४४तः ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९
वैवस्वताय कालाय सर्वप्रहरणाय च ।
प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ।३४.१००
स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः ।
ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ।३४.१०१
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ।
अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ।३४.१०२
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः।
षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ।३४.१०३
सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ।
भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ।३४.१०४
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।३४.१०५
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ।
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ३४४.१०६
ग्रहणादिषु कालेषु महापातकशोधनम् ।
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ।३४.१०७
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ।
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।३४.१०८
भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ।
एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ।३४.१०९
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ।
पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११०
पतिव्रता धर्मरता भद्राण्येव सभेत् सदा ।
नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११
यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३
गृहीत्वा मायया वेषं चरन्तीं विजने वने ।
समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४
विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निमावसथ्यं शुचिस्मितः ॥ ३४.११५
उपतस्थे महायोगं सर्वदोषविनाशनम् ।
कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ ३४.११६
नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७
नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।
योगनं कृत्तिवसनं भूतेशम् परमम्पदम्॥३४.११८
आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम्।
तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९
प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२०
प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् ।
हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१
वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२
प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवं ।
भार्गवाग्निपरं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३
इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४
अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५
सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।
सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७
कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः ।
समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।
रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३०
प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१
दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।
ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२
उवाच वह्निर्भगवान् किमेषा वरवर्णिनी ।
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३
तमाह देवो लोकानां दाहको हव्यवाहनः ।
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४
इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।
आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५
भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।
भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६
या नीता राक्षसेशेन सीता भगवताहृता ।
मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७
तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।
मयोपसंहृता चैव हतो लोकविनाशनम् ॥ ३४.१३८
गृहाण विमलामेनां जानकीं वचनान्मम ।
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९
इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः ।
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४०
एतत् पतिव्रतानां वैं माहात्म्यं कथितं मया ।
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१
अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः ।
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२
पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३
व्यास उवाच ।
इत्येष मानवो धर्मो युष्माकं कथितो मया ।
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४
योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् ।
स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५
स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।
न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६
य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।
स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७
तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८
यः पठेद् भवतां नित्यं संवादं मम चैव हि ।
सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९
श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५०
योऽर्थं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् ।
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१
एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।
समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशोऽध्यायः ॥ ३४ ॥