कूर्मपुराणम्-उत्तरभागः/पञ्चचत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

सूत उवाच
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् ।
कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ।। ४५.१

मुनयः ऊचुः
कथिता भवता धर्मो मोक्षज्ञानं सविस्तरम् ।
लोकानां सर्गविस्तारो वंशमन्वन्तराणि च ।। ४५.२

प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव ।
भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ।। ४५.३

सूत उवाच
श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् ।
व्याजहार महायोगी भूतानां प्रतिसंचरम् ।। ४५.४

कूर्म उवाच
नित्यो नैमित्तिकश्चैव प्राकृतोऽत्यन्तिकास्तथा ।
चतुर्द्धाऽयं पुराणेऽस्मिन् प्रोच्यते प्रतिसंचरः ।। ४५.५

योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।
नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ।। ४५.६

ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ।। ४५.७

महादाद्यां विशेषान्तं यदा संयाति संक्षयम् ।
प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ।। ४५.८

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ।। ४५.९

आत्यन्तिकश्च कथितः प्रलयोऽत्र लयसाधनः ।
नैमित्तिकमिदानीं वः कथयिष्ये समासतः ।। ४५.१०

चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसंचरे ।
स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ।। ४५.११

ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घोरा सर्वभूतक्षयंकरी ।। ४५.१२

ततो यान्यल्पसाराणि सत्त्वानि पृथिवीपते ।
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ।। ४५.१३

सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।
असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ।। ४५.१४

तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।
छतेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ।। ४५.१५

ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् ।
चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ।। ४५.१६

व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रदीपिताः ।। ४५.१७

ते सूर्या वारिणा दीप्ता बहुसाहस्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ।। ४५.१८

ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।
साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यते ।। ४५.१९

दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः ।
अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ।। ४५.२०

सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् ।
एकत्वमुपयातानामेकज्वालं भवत्युत ।। ४५.२१

सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ।। ४५.२२

ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ।। ४५.२३

अम्बरीषमिवाभाति सर्वमापूरितं जगत् ।
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ।। ४५.२४

पाताले यानि सत्त्वानि महोदधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ।। ४५.२५

द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् ।
तान् सर्वान् भस्मसात् चक्रे सप्तात्मा पावकः प्रभुः ।। ४५.२६

समुद्रेभ्यो नदीभ्यश्च आप शुष्काश्च सर्वशः ।
पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ।। ४५.२७

ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।
लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ।। ४५.२८

स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् ।
अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ।। ४५.२९

योजनानां शतानीह सहस्राण्ययुतानि च ।
उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्त्तकस्य तु ।। ४५.३०

गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।
तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ।। ४५.३१

भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः ।
दहेदशेषं कालाग्निः कालाविष्टतनुः स्वयम् ।। ४५.३२

व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।
तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।।४५.३३

अतो गूडमिदं सर्वं तदा चैकं प्रकाशते ।
ततो गजकुलाकारास्तडिद्भिः समलंकृताः ।।४५.३४

उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।
केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।.४५.३५

धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ।
केचिद् रासभवर्णास्तु लाक्षारसनिभाः परे ।।४५.३६

शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।
मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ।।४५.३७

इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ।। ४५.३८

केचित् पर्वतसंकाशाः केचिद् गजकुलोपमाः ।
कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।४५.३९

बहूरूपा घोररूपा घोरस्वरनिनादिनः ।
तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् ।४५.४०

ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।
सप्तधा संवृतात्मानं तमग्निं शमयन्ति ते ।। ४५.४१

ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् ।
सुघोरमशिवं वर्षं नाशयन्ति च पावकम् ।। ४५.४२

प्रवृद्धैस्तैस्तदात्यर्थमम्भसा पूर्यते जगत् ।
अद्भिस्तेजोभिभूतत्वात् तदग्निः प्रविशत्यपः ।। ४५.४३

नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः ।
प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ।। ४५.४४

धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा ।
अत्यन्तसलिलौघैश्च वेला इव महोदधेः ।। ४५.४५

साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।४५.४६

पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ।
ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।४५.४७

पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ।
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।४५.४८

योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ।
चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।४५.४९

वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ।
असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ।४५.५०

कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ।
सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।४५.५१

तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ।।
योऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः ।४५.५२

अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ।
ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ।४५.५३

आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ।
सोऽहं तत्त्वं समास्थाय मायी मायामयीं स्वयम् ।४५.५४

एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ।
मां पश्यन्ति महात्मानः सुप्तिकाले महर्षयः ।४५.५५

जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।
अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ।४५.५६

सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रपात् ।
मन्त्रोऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् ।४५.५७

प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ।
संवर्त्तको महानात्मा पवित्रं परमं यशः ।।४५.५८

मेधाप्यहं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।
अनन्तस्तारको योगी गतिर्गतिमतां वरः ।४५.५९

हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।
क्षेत्रज्ञः प्रकृतिः कालो जगद्‌बीजमथामृतम् ।४५.६०

माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ।
आदित्यवर्णो भुवनस्य गोप्ता
नारायणः पुरुषो योगमूर्त्तिः ।
तं पश्यन्ति यतयो योगनिष्ठा
ञञज्ञात्वात्मानममृतत्वं व्रजन्ति ।। ४५.६१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।