सामग्री पर जाएँ

कूर्मपुराणम्-उत्तरभागः/नवविंशतितमोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्षेण वर्त्तनं प्रोक्तं फलमूलैरथापि वा ।। २९.१

एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।
भैक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ।। २९.२

सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् ।
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु पुनः ।। २९.३

अथवाऽन्यदुपादाय पात्रे भुञ्जीत नित्यशः ।
भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः ।। २९.४

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ।। २९.५

गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ।। २९.६

प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्‌मुखोत्तरः ।। २९.७

हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ।। २९.८

अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।
चत्वारि यतिपात्राणि मनुराह प्रजापतिः ।। २९.९

प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।
संध्यास्वग्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ।। २९.१०

कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ।
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ।। २९.११

सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहनं शिवम् ।। २९.१२

तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ।। २९.१३

महान्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम् ।
तरुणादित्यसंकाशं महेशं विश्वरूपिणम् ।। २९.१४

ओंकारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ।। २९.१५

कारणं सर्वभावानामानन्दैकसमाश्रयम् ।
पुराणं पुरुषं शुभ्रं ध्यायन् मुच्येत बन्धनात् ।। २९.१६

यद्वा गुहायां प्रकृतं जगत्संमोहनालये ।
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ।। २९.१७

जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ।। २९.१८

तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ।। २९.१९

गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।
योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ।। २९.२०

तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ।। २९.२१

गत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ।। २९.२२

यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्माद् योऽधितिष्ठति ।। २९.२३

यदन्तरे तद् गगनं शाश्वतं शिवमच्युतम् ।
यदाहुस्तत्परो यः स्यात् स देवः स्यान्महेश्वरः ।। २९.२४

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ।। २९.२५

उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।
प्राणायामसमायुक्तः कुर्यात् सांतपनं शुचिः ।। २९.२६
ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।
पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ।। २९.२७

न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि च न कर्त्तव्यं प्रसङ्गो ह्येष दारुणः ।। २९.२८

एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वा नूनं प्रकर्तव्यं यतिना धर्मलिप्सुना ।। २९.२९

परमापद्‌गतेनापि न कार्यं स्तेयमन्यतः ।
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ।२९.३०

हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ।
यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः ।२९.३१

स तस्य हरति प्राणान् यो यस्य हरते धनम् ।
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताहतः ।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ।। २९.३२

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ।। २९.३३

अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।
कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ।। २९.३४

स्कन्नमिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।
तेन धारयितव्या वै प्राणायामास्तु षोडश ।२९.३५

दिवास्कन्ने त्रिरात्रं स्यात् प्राणायामशतं तथा ।
एकान्ते मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ।। २९.३६

ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ।। २९.३७

यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।
योऽन्तरा परं ब्रह्म स विज्ञेयो महेश्वरः ।। २९.३८

एष देवो महादेवः केवलः परमः शिवः ।
तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ।। २९.३९

यस्मान्महीयसो देवः स्वधाग्नि ज्ञानसंस्थिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ।। २९.४०

नान्यं देवंमहादेवाद् व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमात्मेति यः स याति परमं पदम् ।। २९.४१

मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ।। २९.४२

एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ।। २९.४३

तस्माद् यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ।। २९.४४

एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।
पितामहेन विभुना मुनीनां पूर्वमीरितम् ।। २९.४५

नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।
ज्ञानं स्वयंभुना प्रोक्तं यतिधर्माश्रयं शिवम् ।। २९.४६

इति यतिनियमानामेतदुक्तं विधानं
पशुपतिपरितोषे यद् भवेदेकहेतुः ।
न भवति पुनरेषामुद्भवो वा विनाशः
प्रणिहितमनसो ये नित्यमेवाचरन्ति ।। २९.४७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे एकोनत्रिंशोऽध्यायः ।।