कूर्मपुराणम्-उत्तरभागः/षड्चत्वारिंशत्तमोऽध्यायः
कूर्म उवाच
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।
प्राकृतं तत्समासेन श्रृणुध्वं गदतो मम ।। ४६.१
गते परार्द्धद्वितये कालो लोकप्रकालनः ।
कालाग्निर्भस्मसात् कर्त्तुं करोति निकिलं गतिम् ।। ४६.२
स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ।। ४६.३
तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं रूपमाश्रितः ।। ४६.४
प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः ।
निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ।। ४६.५
स दग्ध्वा सकलं विश्वमस्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ।। ४६.६
दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।
एषासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ।। ४६.७
शिरः कपालैर्देवानां कृतस्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ।। ४६.८
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ।। ४६.९
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूलकृत्तिवसनो योगमैश्वरमास्थितः ।। ४६.१०
पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।
करोति ताण्डवं देवीमालोक्य परमेश्वरः ।। ४६.११
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गलम् ।
योगमास्थाय देवस्य देहमायाति शूलिनः ।। ४६.१२
स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ।। ४६.१३
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकधृक् ।
गुणैरशेषैः पृथिवीविलयं याति वारिषु ।। ४६.१४
स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ।। ४६.१५
आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।
भूतादौ च तथाकाशं लीयते गुणसंयुतः ।। ४६.१६
इन्द्रियाणि च सर्वाणि तैजसे याति संक्षयम् ।
वैकारिको देवगणाः प्रलंय यान्ति सत्तमाः ।। ४६.१७
त्रिविधोऽयमहंकारो महति प्रलये व्रजेत् ।
महान्तमेभिः सहितं ब्रह्माणममितौजसम् ।।४६.१८
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।
एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ।४६.१९
वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ।
प्रधानपुंसोरजयोरेष संहार ईरितः ।४६.२०
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।
गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।४६.२१
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।४६.२२
गीयते मुनिभिः साक्षी महानेषः पितामहः ।।
एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।४६.२३
प्रधानाद्यं विशेषान्तं देहे रुद्र इति श्रुतिः ।
योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ।४६.२४
आत्यन्तिकं चैव लयं विदधातीह शंकरः ।
इत्येष भगवान् रुद्रः संहारं कुरुते वशी ।४६.२५
स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ।
हिरण्यगर्भो भगवान् जगत् सदसदात्मकम् ।४६.२६
सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः।
सर्वतः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।
शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ।४६.२७
सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः
एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ।४६.२८
अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।
इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ।
एकैकस्य सहस्राणि देहानां वै शतानि च ।४६.२९
कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ।
तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ।४६.३०
करोति देहान् विविधान् दृश्यते चैव लीलया ।
इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ।४६.३१
सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ।
सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ।४६.३२
प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ।
आभ्यः परस्ताद् भगवान् परमात्मा सनातनः।४६.३३
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।
एनमेके वदन्त्यग्निं नारायणमथापरे ।४६.३४
इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।
ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ।४६.३५
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।
यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ।४६.३६
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।
तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ।४६.३७
आराधयन्महादेवं याति तत्परमं पदम् ।
किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ।४६.३८
आराधयेद् वै गिरिशं सगुणं वाऽथ निर्गुणम् ।
मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ।४६.३९
आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ।
पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ।४६.४०
पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ।
एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः ।४६.४१
अत्राप्यशक्तोऽथ हरं विश्वं ब्रह्माणर्चयेत्।
अथ चेदसमर्थः स्यात्तत्रापि मनिपुङ्गवाः।।४६.४२
ततो वायग्निशक्रादीन् पूजयेत्भक्तिसंयुतः।
तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ।४६.४३
आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ।
भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ।४६.४४
तादृशं रूपमास्थाय आसाद्यात्यन्तिकं शिवम् ।
एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावनः ।४६.४५
यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ।
ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ।४६.४६
अथापि कथितो योगो निर्बीजश्च सबीजकः ।
ज्ञानं तदुक्तं निर्बीजं पूर्वं हि भवतां मया ।४६.४७
विष्णुं रुद्रं विरञ्चिंञ्च सबीजं साधयेद्बुधः ।
अथ वाय्वादिकान् देवांस्तत्परः संयतेन्द्रियः ।। ४६.४८
पूजयेत् पुरुषं विष्णुं चतुर्मूर्त्तिधरं हरिम् ।
अनादिनिधनं देवं वासुदेवं सनातनम् ।। ४६.४९
नारायणं जगद्योनिमाकाशं परमं पदम् ।
तल्लिङ्गधारी नियतं तद्भक्तस्तदुपाश्रयः ।४६.५०
एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ।
इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ।४६.५१
इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ।
अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ।४६.५२
तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ।
सूत उवाच
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ।। ४६.५३
मुनयः ऊचुः
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ।। ४६.५४
नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ।। ४६.५५
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ।। ४६.५६
ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ।। ४६.५७
नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ।। ४६.५८
नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ।। ४६.५९
नमस्ते व्योमरूपाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ।। ४६.६०
नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ।। ४६.६१
नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ।। ४६.६२
स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।
नमो योगाधिगम्याय योगिने योगदायिने ।४६.६३
देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।
भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ।४६.६४
अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।
श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ।४६.६५
सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ।
त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ।४६.६६
त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।
सूत उवाच
एतद् वः कथितं विप्रा भोगमोक्षप्रदायकम् ।४६.६७
कौर्मं पुराणमखिलं यज्जगाद गदाधरः ।
अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा ।४६.६८
मोहायाशेषभूतानां वासुदेवेन योजितः ।
प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ।४६.६९
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ।
पितामहस्य विष्णोश्च महेशस्य च धीमतः ।४६.७०
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ।
भक्तानां लक्षणं प्रोक्तं समाचारश्च भोजनम् ।४६.७१
वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ।
आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ।४६.७२
हिरण्यगर्भसर्गश्च कीर्त्तितो मुनिपुंगवाः ।
कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ।४६.७३
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ।
वराहवपुषा भूयो भूमेरुद्धरणं पुनः ।४६.७४
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ।
व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ।४६.७५
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ।
ब्रह्मविष्णोर्विवादः स्यादन्तर्देहप्रवेशनम् ।४६.७६
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ।
दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ।४६.७७
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिना ।
संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ।४६.७८
प्रसादो गिरिशस्याथ वरदानं तथैव च ।
संवादो विष्णुना सार्धं शंकरस्य महात्मनः ।४६.७९
वरदानं तथापूर्वमन्तर्द्धानं पिनाकिनः ।
वधश्च कथितो विप्रा मधुकैटभयोः पुरा ।४६.८०
अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ।
एकीभावश्च देवस्य विष्णुना कथितस्ततः ।४६.८१
विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ।
तपश्चरणमाख्यातं देवदेवस्य धीमतः ।४६.८२
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ।
रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ।४६.८३
भूतिश्च देवदेवस्य वरदानोपदेशकौ ।
अन्तर्द्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ।४६.८४
दर्शनं देवदेवस्य नरनारीशरीरता ।
देव्या विभागकथनं देवदेवात् पिनाकिनः ।४६.८५
देव्याश्च पश्चात् कथितं दक्षपुत्रीत्वमेव च ।
हिमवद्दुहितृत्वं च देव्या याथात्म्यमेव च ।४६.८६
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ।
नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ।४६.८७
उपदेशो महादेव्या वरदानं तथैव च ।
भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ।४६.८८
प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ।
दधीचस्य च दक्षस्य विवादः कथितस्तदा ।४६.८९
ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ।
रुद्रागतिः प्रसादश्च अन्तर्द्धानं पिनाकिनः ।४६.९०
पितामहस्योपदेशः कीर्त्त्यते रक्षणाय तु ।
दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ।४६.९१
हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ।
ततश्च शापः कथितो देवदारुवनौकसाम् ।४६.९२
निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ।
प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ।४६.९३
बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ।
ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्त्तिताः ।४६.९४
वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ।
दर्शनं चोपमन्योर्वै तपश्चरणमेव च ।४६.९५
वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ।
कैलासगमनञ्चाथ निवासस्तस्य शार्ङ्गिणः ।४६.९६
ततश्च कथ्यते भीतिर्द्वारवत्यां निवासिनाम् ।
रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ।४६.९७
नारादागमनं चैव यात्रा चैव गरुत्मतः ।
ततश्च कृष्णागमनं मुनीनामागतिस्ततः ।४६.९८
नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ।
मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ।४६.९९
लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ।
यथार्थंकथितञ्चाथ लिङ्गाविर्भाव एव च ।४६.१००
ब्रह्मविष्णोस्तथा मध्ये कीर्त्तिता मुनिपुंगवाः ।
मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ह्यधः ।४६.१०१
संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ।
अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ।४६.१०२
कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ।
कृष्णस्य गमने बुद्धिर्ऋषीणामागतिस्तथा ।४६.१०३
अनुवशासनञ्च कृष्णेन वरदानं महात्मनः ।
गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ।४६.१०४
कृष्णद्वैपायनस्योक्तं युगधर्माः सनातनाः .।
अनुग्रहोऽथ पार्थस्य वाराणस्यां गतिस्ततः ।४६.१०५
पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ।
वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् ।४६.१०६
तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।
उद्वासनं च कथितं वरदानं तथैव च ।। ४६.१०७
प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्त्तिनम् ।
फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ।। ४६.१०८
भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ।। ४६.१०९
पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ।। ४६.११०
शयनं केशवस्याथ माहात्म्यं च महात्मनः ।
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ।। ४६.१११
वेदशाखाप्रणयनं व्यासानां कथनं ततः ।
अवेदस्य च वेदानां कथितं मुनिपुंगवाः ।। ४६.११२
योगेश्वराणां च कथा शिष्याणां चाथ कीर्त्तनम् ।
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्त्तिताः ।। ४६.११३
वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ।। ४६.११४
पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।
तथा मङ्कणकस्याथ निग्रहः कीर्तितो द्विजाः ।। ४६.११५
वधश्च कथितो विप्राः कालस्य च समासतः ।
देवदारुवने शंभोः प्रवेशो माधवस्य च ।। ४६.११६
दर्शनं षट्कुलीयानां देवदेवस्य धीमतः ।
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ।। ४६.११७
नैमित्तिकश्च कथितः प्रतिसर्गस्ततः परम् ।
प्राकृतः प्रलयश्चोर्द्ध्वं सबीजो योग एव च ।। ४६.११८
एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्त्तयेत्तु यः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ४६.११९
एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।
संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ।। ४६.१२०
देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ।। ४६.१२१
एतत् पुराणं सकलं भाषितं कूर्मरूपिणा ।
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ।। ४६.१२२
यः पठेत् सततं मर्त्यः नियमेन समासतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ४६.१२३
लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।
विप्राय वेदविदुषे तस्य पुण्यं निबोधत ।। ४६.१२४
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
भुक्त्वा च विपुलान्मर्त्यो भोगान्दिव्यान्सुशोभनान् ।। ४६.१२५
ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ।। ४६.१२६
पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
योऽर्थं विचारयेत् सम्यक् प्राप्नोति परं पदम् ।। ४६.१२७
अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ।। ४६.१२८
एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।
एकत्र चेदं परममेतदेवातिरिच्यते ।। ४६.१२९
इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम्।
यथावदत्र भगवान् देवो नारायणो हरिः ।४६.१३०
कीर्त्यते हि यथा विष्णुर्न तथाऽन्येषु सुव्रताः ।
ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ।४६.१३१
अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ।
तीर्थानां परमं तीर्थं तपसां च परं तपः ।४६.१३२
ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ।
नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।४६.१३३
योऽधीते स तु मोहात्मा स याति नरकान् बहून् ।
श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ।४६.१३४
यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ।
मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ।४६.१३५
श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ।
ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ।४६.१३६
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ।
योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ।४६.१३७
स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ।
नमस्कृत्य हरिं विष्णुं जगद्योनिं सनातनम् ।४६.१३८
अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ।
इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ।४६.१३९
पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ।
श्रुत्वा नारायणाद्देवान् नारदो भगवानृषिः ।४६.१४०
गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ।
पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः ।४६.१४१
मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ।
ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ।४६.१४२
सनत्कुमाराय तथा सर्वपापप्रणाशनम्।
सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ।४६.१४३
अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ।
सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ।४६.१४४
एतत् पुराणं परमं व्यासः सर्वार्थसंचयम् ।
तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ।४६.१४५
ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ।
तस्मै व्यासाय मुनये सर्वज्ञाय महर्षये ।४६.१४६
पाराशर्याय शान्ताय नमो नारायणात्मने ।
यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते ।
नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ।४६.१४७
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्श्चत्वारिंशोऽध्यायः ।। ४६ ।।