सामग्री पर जाएँ

कूर्मपुराणम्-उत्तरभागः/त्रयोविंशतितमोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
दशाहं प्राहुराशौचं सपिण्डेषु विधीयते ।
मृतेषु वाऽथ जातेषु ब्राह्मणानां द्विजोत्तमाः ।। २३.१

नित्यानि चैव कर्माणि काम्यानि च विशेषतः ।
नकुर्याद् विहितं किञ्चित् स्वाध्यायं मनसाऽपिच ।। २३.२

शुचीनक्रोधनान् भूम्यान् शालाग्नौ भावयेद् द्विजान् ।
शुष्कान्नेन फलैर्वापि वैतानान् जुहुयात् तथा ।। २३.३

न स्पृशेदुरिमानन्ये न च तेभ्यः समाहरेत् ।
चतुर्थे पञ्चमे वाऽह्नि संस्पर्शः कथितो बुधैः ।। २३.४

सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति ।
सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ।। २३.५

अधीयानस्तथा वेदान् वेदविच्च पिता भवेत् ।
संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ।। २३.६

दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।
एकद्वित्रिगुणैर्युक्तः चतुस्त्र्येकदिनैः शुचिः ।। २३.७

दशाह्नादपरं सम्यगधीयीत जुहोति च ।
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ।। २३.८

क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्येह मरणान्तमशौचकम् ।। २३.९

त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् ।
प्राक्संवत्सरात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम् ।। २३.१०

ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते ।
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ।
अदन्तजातमरणे पित्रोरेकाहमिष्यते ।
जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ।। २३.११

आदन्तजननात् सद्य आचौलादेकरात्रकम् ।
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ।। २३.१२

जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च ।। २३.१३

सदाशौचं सपिण्डानां कर्त्तव्यं सोदरस्य च ।
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ।। २३.१४

अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् ।
एकरात्रं निर्गुणानां चौलादूर्ध्वं त्रिरात्रकम् ।। २३.१५

अदन्तजातमरणं संभवेद् यदि सत्तमाः ।
एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ।। २३.१६

व्रतादेशात् सपिण्डानां गर्भस्रावात् स्वपाततः ।
(सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ।
अर्वाक् षण्मासतः स्त्रीणां यदि स्याद् गर्भसंस्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ।
तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् ।
सद्यः शौचं सपिण्डानां गर्भस्रावाच्च धातुतः ।
गर्भच्युतादहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ।)
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ।। २३.१७

यदि स्यात् सूतके सूतिर्मरणे वा मृतिर्भवेत् ।
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ।। २३.१८

मरणोत्पत्तियोगेन मरणेन समाप्यते।
अघ्यंवृद्धिमदाशौचमूर्घ्वं चेत्तु न शुध्यति ।। २३.१९


अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत् ।
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ।।
देशान्तरगतं श्रुत्वा सूतकं शावमेव तु ।
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ।। २३.२०

अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।
(अथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि ।।
वेदान्तविच्चाधीयानो योऽग्निमान् वृत्तिकर्षितः ।
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा ।।
स्त्रीणामसंस्कृतानां तु प्रदानात् परतः सदा ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्त्तुरेव हि ।
अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ।
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ।।
आदन्तात् सोदरे सद्य आचौलादेकरात्रकम् ।)
आप्रदानात् त्रिरात्रं स्याद् दशरात्रम् ततः परम् ।। २३.२१

मातामहानां मरणे त्रिरात्रं स्यादशौचकम् ।
एकोदकानां मरणे सूतके चैतदेव हि ।। २३.२२

पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ।। २३.२३

प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितिः ।
गृहे मृतासु सर्वासु कन्यासु त्र्यहं पितुः ।। २३.२४

परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
त्रिरात्रं स्यात् तथाचार्यास्वभार्यास्वन्यगासु च ।। २३.२५

आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् ।
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ।।२३.२६

त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ।
एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ।। २३.२७

त्रिरात्रं श्वश्रूमरणात् श्वशुरे चै तदेव हि ।
सद्यः शौचं समुद्दिष्टं स्वगोत्रे संस्थिते सति ।। २३.२८

शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ।। २३.२९

क्षत्रविट्‌शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ।। २३.३०

राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
तमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ।। २३.३१

सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः ।
तद्‌वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ।। २३.३२

षड्‌रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि ।
वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ।। २३.३३

अर्द्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुंगवाः ।
शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ।। २३.३४

षड्‌रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः ।
अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुंगवाः ।। २३.३५

शूद्रविट्‌क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ।। २३.३६

असपिण्डं द्विजं प्रेतं विप्रो निर्धृत्य बन्धुवत् ।
अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ।। २३.३७

यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः ।
अन्नदंस्त्वन्नमह्ना तु न च तस्मिन् गृहे वसेत् ।। २३.३८

सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।
दशाहेन शवस्पर्शी सपिण्डश्चैव शुध्यति ।। २३.३९
यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः ।
दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ।। २३.४०

अर्द्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ।
षड्‌रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ।। २३.४१

अनाथं चैव निर्धृत्य ब्राह्मणं धनवर्जितम् ।
स्नात्वा संप्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ।। २३.४२

अपरश्चेद् परं वर्णमपरं वा परो यदि ।
अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ।। २३.४३

प्रेतीभूतं द्विजं विप्रो हि अनुगच्छेत कामतः ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ।। २३.४४

एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ।। २३.४५

अनस्थिसंचिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः ।
त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ।। २३.४६

अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः ।
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ।। २३.४७

अनस्थिसंचित् विप्रो ब्राह्मणो रौति चेत् तदा ।
स्नानेनैव भवेच्छुद्धिः सचैलेनात्र संशयः ।। २३.४८

यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि ।
बान्धवो वाऽपरो वाऽपि स दशाहेन शुध्यति ।। २३.४९

यस्तेषां सममश्नाति सकृदेवापि कामतः ।
तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ।। २३.५०

यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ।। २३.५१

दाहाद्यशौचं कर्त्तव्यं द्विजानामग्निहोत्रिणाम् ।
सपिण्डानां तु मरणे मरणादितरेषु च ।। २३.५२

सपिण्डता च पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ।। २३.५३

पिता पितामहश्चैव तथैव प्रपितामहः ।
लेपभाजस्रयो ज्ञेयाः सापिण्ड्यं साप्तपौरुषण् ।। २३.५४

अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् ।
तासान्तु भर्त्तुसापिण्ड्यं प्राह देवः पितामहः ।। २३.५५

ये चैकजाता बहवो भिन्नयोनय एव च ।
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ।। २३.५६

कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
दातारो नियमाच्चैव ब्रह्मविद्‌ब्रह्मचारिणौ ।
सत्रिणो व्रतिनस्तावत् सद्यः शौचम् उदाहृतम् ।२३.५७

राजा चैवाभिषिक्तश्च अन्नसत्रिण एव च ।
यज्ञे विवाहकाले च दैवयागे तथैव च ।
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ।। २३.५८

डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ।। २३.५९

अग्निमरुत्प्रपतने वीराध्वन्यप्यनाशके ।
गोब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ।। २३.६०

नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ।। २३.६१

पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसंचयः ।
ना श्रुपातो नपिण्डौ वा कार्यं श्राद्धादि कंक्वचित् ।। २३.६२

व्यापादयेत् तथात्मानं स्वयं योऽग्निविषादिभिः ।
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ।। २३.६३

अथ किंचित् प्रमादेन म्रियतेऽग्निविषादिभिः ।
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ।। २३.६४

जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलाश्च गुडसर्पिषा ।। २३.६५

फलानि पुष्पं शाकं च लवणं काष्ठमेव च ।
तक्रं दधि घृतं तैलमौषधं क्षीरमेव च ।
आशौचिनो गृहाद् ग्राह्यं शुष्कान्नं चैव नित्यशः ।। २३.६६

आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः ।
अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ।। २३.६७

देहाभावात् पलाशैस्तु कृत्वा प्रतिकृतिं पुनः ।
दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयाऽन्वितैः ।। २३.६८

सकृत्‌प्रसिञ्चेदुदकं नामगोत्रेण वाग्यताः ।
दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ।। २३.६९

पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ।
प्रेताय च गृहद्वारि चतुर्थे भोजयेद् द्विजान् ।। २३.७०

द्वितीयेऽहनि कर्त्तव्यं क्षुरकर्म सबान्धवैः ।
चतुर्थे बान्धवैः सर्वैरस्थ्नां संचयनं भवेत् ।
पूर्वं तु भोजयेद् विप्रानयुग्मान् सुश्रद्धया शुचीन् ।। २३.७१

पञ्चमे नवमे चैव तथैवैकादशेऽहनि ।
युग्मान् भोजयेद् विप्रान् नवश्राद्धं तु तद्विजाः ।। २३.७२

एकादशेऽह्नि कुर्वोत प्रेतमुद्दिश्य भावतः ।
द्वादशे वाह्नि कर्त्तव्यमनिन्द्ये त्वथवाऽहनि ।

एकं पवित्रमेकोऽर्घः पिण्डपात्रं तथैव च ।। २३.७३
एवं मृताह्नि कर्त्तव्यं प्रतिमासं तु वत्सरम् ।

सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ।। २३.७४

कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः ।
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ।। २३.७५

ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ।
सपिण्डीकरण श्राद्धं देवपूर्वं विधीयते ।। २३.७६

पितॄनावाहयेत् तत्र पुनः प्रेतं विनिर्दिशेत् ।
ये सपिण्डीकृताः प्रेतान तेषां स्यात् पृथक्‌क्रियाः ।

यस्तु कुर्यात् पृथक् पिण्डं पितृहा सोऽभिजायते ।। २३.७७

मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् ।
दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ।। २३.७८

पार्वणेन विधानेन संवत्सरिकमिष्यते ।
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः।। २३.७९

मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् ।
पत्नी कुर्यात् सुताभावे पत्न्यभावे तु सोदरः ।। २३.८०

अनेनैव विधानेन जीवः श्राद्धम् समाचरेत् ।
कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ।। २३.८१

एष वः कथितः सम्यग् गृहस्थानां क्रियाविधिः ।
स्त्रीणां भर्त्तृषु शुश्रूषा धर्मो नान्य इहोच्यते ।। २३.८२

स्वधर्मतत्परा नित्यमीश्विरार्पितमानसः ।
प्राप्नोति तत्परं स्थानं यदुक्तं वेदवादिभिः ।। २३.८३

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे त्रयोविंशोऽध्यायः ।।