कूर्मपुराणम्-उत्तरभागः/सप्तदशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि वाऽन्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्‌क्ते ह्यनापदि ।। १७.१

षण्मासान् यो द्विजो भुङ्‌क्ते शूद्रस्यान्नं विगर्हितम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ।। १७.२

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ।। १७.३

राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ।। १७.४

चक्रोपजीविरजकतस्करध्वजिनां तथा ।
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ।। १७.५

कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।
सुवर्णकारशैलूषव्याधबद्धातुरस्यच।। १७.६

सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।
स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।१७.७

सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ।।
भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।१७.८

उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।
अपाङ्‌क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ।१७.९

क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ।। १७.१०

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ।। १७.११

अप्रजानां तु नारीणां भृतकस्य तथैव च ।
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ।। १७.१२

शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।
विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ।। १७.१३

पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ।१७.१४

गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ।१७.१५

यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ।
आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ।१७.१६

कुशीलवः कुम्बकारः क्षेत्रकर्मक एव च
एते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः।
पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ।१७.१७

पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ।
वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ।१७.१८

पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।
छत्राकं विड्‌वराहं च शेळं पीयूषमेव च ।१७.१९

विलयं सुमुखं चैव कवकानि च वर्जयेत् ।।
गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ।१७.२०

उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ।।
वृथा कृशरसंयावं पायसापूपमेव च ।१७.२१

अनुपाकृतमांसं च देवान्नानि हवींषि च ।
यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ।१७.२२

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ।।
पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ।१७.२३

रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ।।
नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ।१७.२४

क्रियादुष्टं भावदुष्टमसत्संगं विवर्जयेत् ।।
केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ।१७.२५

श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।
उदक्यया च पतितैर्गवा चाघ्रातमेव च ।१७.२६

अनर्चितं पुर्युंषितं पर्याभ्रान्तं च नित्यशः ।
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ।१७.२७

मनुष्यैरथवाघ्रातं कुष्ठिना स्पृष्टमेव च ।
न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ।।१७.२८

मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।
विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ।१७.२९

आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।
बलाकं हंसदात्यूहं कलविकं शुकं तथा ।।१७.३०

कुररञ्चचकारञ्च जालपादं च कोकिलम् ।
चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ।१७.३१

उलूकं चक्रवाकं च भासं पारावतं तथा।
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ।। १७.३२

सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।
श्रृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।
न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ।१७.३३

जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।
गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ।१७.३४

भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।
मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ।१७.३५

निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।
मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ।१७.३६

वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः।
शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ।।१७.३७

मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।१७.३८

यथाविधि नियुक्तं च प्राणानामपि चात्यये ।
भक्षयेदेव मांसानि शेषभोजी न लिप्यते ।१७.३९

औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।
आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ।। १७.४०

अपेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ।। १७.४१

तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।
पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजैः ।। १७.४२

भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।
नाधिकारी भवेत् तावद् यावद् तन्न व्रजत्यधः ।। १७.४३

तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ।। १७.४४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे सप्तदशोऽध्यायः ।। १७ ।।