कूर्मपुराणम्-उत्तरभागः/त्रयोदशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ।। १३.१

रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।
ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ।। १३.२

चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।
संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ।। १३.३

चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ।१३.४

आचामेदश्रुपाते वा लोहितस्य तथैव च ।
भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ।१३.५

आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।
अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ।१३.६

स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च
उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ।१३.७

केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।
अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ।१३.८

शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्‌मुखः ।
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।१३.९

अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।
सोपानत्को जलस्थो वा नोष्णीषी चाचमेद्‌ बुधः ।१३.१०

न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ।१३.११

न पादुकासनस्थो वा बहिर्जानुरथापि वा ।
न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।
शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।१३.१२

न चैवाङ्‌गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ।१३.१३

न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।
हृद्‌गाभिः पूयते विप्रः कण्ठ्‌याभिः क्षत्रियः शुचिः ।१३.१४

प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ।।
अङ्‌गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ।१३.१५

अन्तराङ्‌गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ।।
कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ।१३.१६

अङ्‌गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः।
मूले वा दैवमादिष्टम् ग्नेयं मध्यतः स्मृतं ।१३.१७

तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।१३.१८

कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।
त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ।१३.१९

संमृज्याङ्‌गुष्ठमूलेन मुखं वै समुपस्पृशेत् ।।
अङ्‌गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ।१३.२०

तर्जन्यङ्‌गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ।।
कनिष्ठाङ्‌गुष्ठयोगेन श्रवणे समुपस्पृशेत् ।१३.२१

सर्वासामथ योगेन हृदयं तु तलेन वा ।
स्पृशेद्वै शिरसस्तद्वदङ्‌गुष्ठेनाथवा द्वयम् ।। १३.२२

त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ।। १३.२३

गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ।। १३.२४

नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।
श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ।। १३.२५

संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ।। १३.२६

नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।
दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैऱशुचिर्भवेत् ।। १३.२७

स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।
भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ।। १३.२८

मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फलमूलेक्षुदण्डे न दोषं प्राह वे मनुः ।। १३.२९

प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ।। १३.३०

तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ।। १३.३१

यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।
अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ।।१३.३२

वस्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।
अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।१३.३३

कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्‌मुखः ।१३.३४

अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ।।
अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ।१३.३५

प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ।
छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।१३.३६

अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ।।
न गोमये न कृष्टे वा महावृक्षे न शाड्वले ।१३.३७

न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।
न जीर्णदेवायतने न वल्मीके कदाचन ।१३,३८

न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ।।
तुषाङ्गारकपालेषु राजमार्गे तथैव च ।१३.३९

न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।
नोद्याने न समीपे वा नोषरे न पराशुचौ ।१३.४०

न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ।।
न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।१३.४१

न देवदेवालययोरपामपि कदाचन ।।
नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ।१३.४२

प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ।।
आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात्।१३.४३

कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ।।
नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ।१३.४४

न मार्गान्नोषराद् देशाच्छौचोच्छिष्टात्तथैव च।
न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ।१३.४५

उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ।।
इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशोऽध्यायः ।।