कूर्मपुराणम्-उत्तरभागः/पञ्चत्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च ।
तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ ३५.१
रोमहर्षण उवा ।
श्रृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।
कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२
यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३
पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।
प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४
अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।
ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५
तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।
ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६
गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् ।
कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७
सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः ।
तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८
तत्र लोकहितार्थाय रुद्रेण परमात्मना ।
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९
गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति ।
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१०
गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः ।
गयांयास्यतियः कश्चित् सोऽस्मान् संतारयिष्यति ॥ ३५.११
यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः ।
गयां यास्यति वंश्यो यः सोऽस्मान् संतारयिष्यति ॥ ३५.१२
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३
तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।
प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४
गधन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।
कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५
अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६
तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।
कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७
तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८
सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ ३५.१९
सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२०
तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१
षण्मासनियताहारो ब्रह्मचारी समाहितः ।
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२
अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् ।
एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३
दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।
सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४
महानदीजलं पुण्यं सर्वपापविनाशनम् ।
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५
अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६
तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।
तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७
पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८
तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।
सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ ३५.२९
दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।
ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३०
उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।
महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१
तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२
अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।
संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३
यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४
समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५
अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः ।
मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६
शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।
प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७
अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।
आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८
तीर्थं त्रैलोक्यविख्यातं सिद्दवासं सुशोबनम् ।
तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः॥३५.३९
पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ।
मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः ।३५.४०
पूयते पातकैः सर्वैः शक्रेण सह मोदते ।
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।३५.४१
उपासते सिद्धसङ्घा ब्रह्माणं पद्मसंभवम् ।
तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥३५.४२
पूजयित्वा द्विजवरं ब्रह्माणं संप्रपष्यति ।
तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ।३५.४३
सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ।३५.४४
पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ।
यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ।३५.४५
आराधयामास शिवं तपसा गोवृषध्वजम् ।
प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ।३५.४६
ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ।
तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ।३५.४७
दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः ।
सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ।३५.४८
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ।
पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ।३५.४९
माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते ।
यत् सगर्वं हि भवता नर्तितं मुनिपुंगव ।३५.५०
न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् ।
इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ।३५.५१
आस्थाय परमं भावं ननर्त्त जगतो हरः ।
सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् ।३५.५२
दंष्ट्राकरालवदनो ज्वालामाली भयंकरः।
सोऽन्वपश्यदथेषस्य पार्श्वे तस्य त्रिशूलिनः ।३५.५३
विशाललोचनमेकां देवीं चारुविलासिनीम् ।
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४
सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् ।
दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः ।३५.५५
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ।
प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।३५.५६
पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् ।
आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः ।३५.५७
न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ।
प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ।३५.५८
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ।
नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ।३५.५९
किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम् ।
का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ।३५.६०
अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् ।
इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ।३५.६१
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ।
अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ।३५.६२
दाहकः सर्वपापानां कालः कालकरो हरः ।
मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ।३५.६३
सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ।
तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ।३५.६४
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ।
स एष मायया विश्वं व्यामोहयति विश्ववित् ।३५.६५
नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।
एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ।३५.६६
योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् ।
तथा वै संगतो देवः कूटस्थः सर्वगोऽमलः ।३५.६७
सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥
स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ।३५.६८
तवैतत् कथितं सम्यक् स्रष्ट्वृत्वं परमात्मनः ।
एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः ।३५.६९
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ।
मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ।३५.७०
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ।
एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ।३५.७१
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ।
त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ।३५.७२
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ।
आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ।३५.७३
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ।
एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ।३५.७४
संपूज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्वतम् ।
एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ।३५.७५
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ।
एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशोऽध्यायः ॥ ३५॥