कूर्मपुराणम्-उत्तरभागः/अष्टादशोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।
तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ।। १८.१

व्यास उवाच ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं गदतो मम ।
अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ।। १८.२

ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।
कायक्लेशं तदुद्‌भूतं ध्यायेत मनसेश्वरम् ।। १८.३

उषः कालेऽच संप्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ।। १८.४

प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।
तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ।। १८.५

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।
ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ।। १८.६

मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।
ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ।। १८.७

अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।
प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ।। १८.८

अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ।। १८.९

अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।
आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ।। १८.१०

असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।
ब्राह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ।। १८.११

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ।। १८.१२

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ।। १८.१३

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ।। १८.१४

वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।
यौगिनां स्नानमाख्यातं योगात्विष्णुंविचिन्तनम् ।। १८.१५

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।
मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ।। १८.१६

शक्तश्चेद् वारुणं विद्वान् प्रायश्चित्ते तथैव च ।
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ।। १८.१७

आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।
मध्याङ्‌गुलिसमस्थौल्यं द्वादशाङ्‌गुलसम्मितम् ।। १८.१८

सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।
क्षीरवृक्षसमुद्‌भूतं मालतीसंभवं शुभम् ।
अपामार्गं च बिल्वं च करवीरं विशेषतः ।। १८.१९

वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ।। १८.२०

नोत्पाटयेद्‌दन्तकाष्टंनाङ्‌गुल्या धारयेत् क्वचित् ।
प्रक्षाल्य भङ्‌क्त्वा तज्जह्याच्छुचौदेशे समाहितः ।। १८.२१

स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।
आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ।। १८.२२

संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ।। १८.२३

ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ।। १८.२४

प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ।। १८.२५

या संध्या सा जगत्सूतिर्मायातीता हि निष्कला ।
ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ।। १८.२६

ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।
प्राङ्‌मुखः सततं विप्रः संध्योपासनमाचरेत् ।। १८.२७

संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ।। १८.२८

अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् संध्यां प्राप्ताः पूर्वेऽपरां गतिम् ।। १८.२९

योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।
विहाय संध्याप्रणतिं स याति नरकायुतम् ।। १८.३०

तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् ।
उपासितो भवेत् तेन देवो योगतनुः परः ।। १८.३१

सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्रीं वै जपेद् विद्वान् प्राङ्‌मुखः प्रयतः स्थितः ।। १८.३२

अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरै ऋग्यजुः सामसंभवैः ।। १८.३३

उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ।। १८.३४

ओं ङ्खद्योताय च शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।१८.३५

नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।
भूर्भुवः स्वस्त्वमोङ्कारः शर्व रुद्रः सनातनः ।१८.३६

पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।
त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ।। १८.३७

प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः।१८.३८

अम्बिकापतये तुभ्यमुमायाः पतये नमः ।
नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ।१८.३९

विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।
नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ।१८.४०

नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः।
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ।१८.४१

हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ।१८.४२

विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।।
नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ।१८.४३

उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।
एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ।१८.४४

प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ।
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ।१८.४५

प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।
सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्‌घैर्निषेवितम् ।। १८.४६

अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ।। १८.४७

ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ।। १८.४८

पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ।। १८.४९

विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।
राक्षसं तद्‌भवेत् सर्वं नामुत्रेह फलप्रदम् ।। १८.५०

दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ।। १८.५१

गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ।। १८.५२

जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।
अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ।१८.५३

वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।
उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ।१८.५४

साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।१८.५५

पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।
नदीषु देवखातेषु तडागेषु सरस्सु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ।। १८.५६

परकीयनिपानेषु न स्नायाद् वै कदाचन ।
पञ्चपिण्डान् समुद्धृत्य स्नायाद् वाऽसंभवे पुनः ।। १८.५७

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कार्यः पादौ षड्‌भिस्तथैव च ।। १८.५८

मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ।। १८.५९

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ।। १८.६०

अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ।। १८.६१

आपो नारायणोद्‌भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ।। १८.६२

प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ।१८.६३

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ।। १८.६४

अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।
त्वं यज्ञस्त्वं वषट्‌कार आपो ज्योती रसोऽमृतम् ।। १८.६५

द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिंप्रणवान्विताम् ।
सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ।। १८.६६

ततः संमार्जनं कुर्यादापोहिष्ठा मयोभुवः ।
इदमापः प्रवहत व्याहृतिभिस्तथैव च ।। १८.६७

ततोऽभिमन्त्र्य तत् तोयं मापो हिष्ठादिमन्त्रकैः ।
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ।। १८.६८

त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।
आवर्त्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ।। १८.६९

द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ।। १८.७०

अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ।। १८.७१

यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ।। १८.७२

अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ।। १८.७३

उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।
हंसः शुचिषदन्तेन सावित्र्या सविशेषतः ।। १८.७४

अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ।। १८.७५

विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।
शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ।। १८.७६

प्राक्कूलेषु समासीनः कुशेषु प्राङ्‌मुखः शुचिः ।
तिष्ठंश्चेदीक्षमाणोऽर्कं जप्यं कुर्यात् समाहितः ।। १८.७७

स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।
कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ।। १८.७८

जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।
न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ।। १८.७९

गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ।। १८.८०

चण्डालाशौचपतितान् दृष्ट्वाचैव पुनर्जपेत् ।
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ।। १८.८१

आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ।। १८.८२

यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ।। १८.८३

प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ।। १८.८४

ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।
अदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ।। १८.८५

देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ।। १८.८६

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षीस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ।

यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ।१८.८७
प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।

निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।
स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ।। १८.८८

ब्रह्माणं शंकरं सूर्यं तथैव मधुसूदनम् ।
अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः।। १८.८९

प्रदद्याद् वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ।। १८.९०

ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।
नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ।। १८.९१

विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ।। १८.९२

तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।
न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ।। १८.९३

अथवा देवमीशानं भगवन्तं सनातनम् ।
आराधयेन्महादेवं भावपूतो महेश्वरम् ।। १८.९४

मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ।। १८.९७

पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।
उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ।। १८.९६

नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।
निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ।। १८.९७

प्रदक्षिणं द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।
ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ।। १८.९८

अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।
कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ।। १८.९९

देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ।। १८.१००

यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ।। १८.१०१

अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।
कुशपुञ्जे समासीनः कुशपाणिः समाहितः ।। १८.१०२

शालाग्नौ लौकिके वाऽथ जले भूभ्यामथापिवा ।
वैश्वदेवं कर्तव्यो देवयज्ञः स वै स्मृतः ।। १८.१०३

यदि स्याल्लौकिके पक्षे ततोऽन्नं तत्र हूयते ।
शालाग्नौ तत्पचेदन्नं विधिरेष सनातनः ।। १८.१०४

देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् ।
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ।। १८.१०५

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।
दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो द्विजोत्तमः ।। १८.१०६

सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ।। १८.१०७

एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सन्ततम् ।
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ।। १८.१०८

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ।। १८.१०९

पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद् द्विजम् ।
मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ।। १८.११०
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु।
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।१८.१११
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ।

भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् ।१८.११२
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।

गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।१८.११३
अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सदा ।
भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ।। १८.११४
सर्वेषामप्यलाभे त्वन्नं गोभ्यो निवेदयेत् ।
भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ।। १८.११५
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।

भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं स गच्छति ।। १८.११६

वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।
नाशयत्याशु पापानि देवानामर्चनं तथा ।। १८.११७
यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुङ्‌क्ते स याति नरकं शूकरेष्वभिजायते ।। १८.११८
तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।
भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ।। १८.११९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे अष्टादशोऽध्यायः ।।