कूर्मपुराणम्-उत्तरभागः/नवत्रिंशत्तमोऽध्यायः
मुनय ऊचुः ।
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१
पितामह उवाच ।
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥३९.३
संस्थाप्य शांकरैर्मन्त्रैर्ऋग्यजुः सामसंभवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ ३९.१०
दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशनः केचित् संप्रक्षाला मरीचिपाः ॥ ३९.११
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२
ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः ।
चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३
देवः कृतयुगे ह्यस्मिन् श्रृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।
क्वचिन्नृत्यति श्रृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ ३९.१६
आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः ।
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ ३९.१७
कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।
सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ ३९.१८
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५
अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७
प्राणाय च नमस्तुभ्यं नमो भस्मागधारिणे ।
नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे। ३९.२८
ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।
आगतिं ते न जनीमो गतिं नैव च नैव च ।३९.२९
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
नमः प्रमथनाथाय दात्रे च शुभसंपदाम् ।३९.३०
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१
नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।
नमो भुजंगहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३
चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥ ३९.३४
अज्ञानाद् यदि वा ज्ञानाद् यत्किंचित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६
तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शंकरः ॥ ३९.३७
तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९
गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४०
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१
केन वा देवमार्गेण संपूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ ३९.४२
देवदेव उवाच ।
एतद् वः संप्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३
सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४
न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय सांख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६
एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।
आगतोऽहमिमं देशं ज्ञापयन् मोहसंभवम् ॥ ३९.४७
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ ३९.४९
एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२
बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥ ३९.५३
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७
यद् वा कौपीनवसनः स्याद्वादिग्वसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति श्रुतम् ॥ ३९.५९
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६०
अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानितु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२
वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५
इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।
तोऽपि दारुवने तस्मिन् पूजयन्ति स्म शंकरम् ।३९.६६
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ।
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।३९.६७
विचक्रिरे बहून् वादान्नध्यात्मज्ञानसमाश्रयान् ।
किमस्य जगतो मूलमात्मा चास्माकमेव हि ।३९.६८
कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ।
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७०
तामन्वपश्यन् गिरिजाममेयांज्वालासहस्रान्तरसन्निविष्टाम् ।
प्रणेमुरेतामखिलेशपत्नींजानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१
अस्माकमेषा परमेशपत्नीगतिस्तथात्मा गगनाभिधाना ।
पश्यन्त्यथात्मानमिदं च कृत्स्नंतस्यामथैते मुनयश्च विप्राः ॥ ३९.७२
निरीक्षितास्ते परमेशपत्न्यातदन्तरे देवमशेषहेतुम् ।
पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३
आलोक्य देवीमथ देवमीशंप्रणेमुरानन्दमवापुरग्र्यम् ।
ज्ञानं तदीशं भगवत्प्रसादा-दाविर्बभौ जन्मविनाशहेतु ॥ ३९.७४
इयं हि सा जगतो योनिरेकासर्वात्मिका सर्वनियामिका च ।
माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५
अस्यां महत्परमेष्ठी परस्ता-न्महेश्वरः शिव एकः स रुद्रः ।
चकार विश्वं परशक्तिनिष्ठंमायामथारुह्य च देवदेवः ॥ ३९.७६
एको देवः सर्वभूतेषु गूढोमायी रुद्रः सकलो निष्कलश्च ।
स एव देवी न च तद्विभिन्न-मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७
अन्तर्हितोऽभूद् भगवान्महेशोदेव्या तया सह देवादिदेवः ।
आराधयन्ति स्म तमाधिदेवंवनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८
एतद् वः कथितं सर्वं देवदेवस्य चेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८०
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे नवत्रिंशोऽध्यायः ॥ ३९ ॥