कूर्मपुराणम्-उत्तरभागः/विंशतितमोऽध्यायः
व्यास उवाच ।
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ।। २०.१
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्णे द्विजातीनां प्रशस्तेनामिषेण च ।। २०.२
प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तरे ।। २०.३
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।
तिस्रस्तास्त्वष्टकाः पुण्या माघी पञ्चदशी तथा ।। २०.४
त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ।। २०.५
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ।। २०.६
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ।। २०.७
संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काले विशेषतः ।। २०.८
स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ।। २०.९
रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ।। २०.१०
सर्वान् कामांस्तथा सर्प्ये पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ।। २०.११
ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ।। २०.१२
मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेद् ज्ञानं सिद्धिमाप्ये समुद्रतः ।। २०.१३
सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ।। २०.१४
अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।
रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्येऽथ जीवितन्तु स्याद्यदि श्राद्धं प्रयच्छति ।। २०.१५
आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ।। २०.१६
विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ।। २०.१७
कन्यका वै द्वितीयायां तृतीयायां तु विन्दति ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ।। २०.१८
षष्ट्यां द्युतिं कृषिं चापि सप्तम्यां च धनं नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ।। २०.१९
स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ।। २०.२०
द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।
ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ।। २०.२१
तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ।। २०.२२
द्रव्यब्राह्मणसंपत्तौ न कालनियमः कृतः ।
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ।। २०.२३
कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वसु स्मृतम् ।। २०.२४
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ।। २०.२५
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ।। २०.२६
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ।। २०.२७
संन्ध्यां रीत्रौ न कर्त्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ।। २०.२८
गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ।। २०.२९
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ।। २०.३०
गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ।। २०.३१
वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ।। २०.३२
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ।। २०.३३
केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ।। २०.३४
नर्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विशाखायां गोदावर्यां विशेषतः ।। २०.३५
एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ।। २०.३६
व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।
श्यामाकैश्च यवैः शाकैर्नीवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ।। २०.३७
आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदाश्वांश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ।। २०.३८
लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन श्रृङ्गाटककशेरुकान् ।। २०.३९
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ।
षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ।२०.४०
अष्टावेणस्य मांसेन रौरवेण नवैव तु ।
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।२०.४१
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ।
संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।। २०.४२
कालशाकं महाशल्कः खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ।। २०.४३
क्रीत्वा लब्ध्वा स्वयं वाऽथ मृतानादृत्य वै द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ।। २०.४४
पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्त्ताक भूतृणं सुरसं तथा ।। २०.४५
कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषाजं च विवर्जयेत् ।। २०.४६
आढक्यः कोविदारांश्च पालक्या मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ।। २०.४७
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशोऽध्यायः ।।