कूर्मपुराणम्-उत्तरभागः/षड्विंशतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

अर्थानामुदिते पात्रे श्रद्‌धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ।। २६.२

यद् ददाति विशिष्टेभ्यः श्रद्‌धया परया युतः ।
तदविचित्रमहं मन्ये शेषं कस्यापि रक्षति ।। २६.३

नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ।। २६.४

अहन्यहनि यत् किंचिद् दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ।। २६.५

यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ।। २६.६

अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ।। २६.७

यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ।। २६.८

दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।
उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ।। २६.९

कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते ।
अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ।। २६.१०

श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ।। २६.११

यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।
स याति परमं स्थानं यत्र गत्वा न शोचति ।। २६.१२

इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् ।
ददाति वेदविदुषे यः स भूयो न जायते ।। २६.१३
गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति ।
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ।। २६.१४

भूमिदानात् परं दानं विद्यते नेह किञ्चन ।
अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ।। २६.१५

यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।
ददाति विद्यां विधिना ब्रह्मलोके महीयते ।। २६.१६

दद्यादहरहस्त्वन्नं श्रद्‌धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ।। २६.१७

गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।
आममेचास्य दातव्यं दत्त्वाप्नोति परां गतिम् ।। २६.१८

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ।। २६.१९

पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।
गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ।। २६.२०

प्रीयतां धर्मराजेति यद् वा मनसि वर्त्तते ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।। २६.२१

कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ।। २६.२२

कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ।। २६.२३

सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ।। २६.२४

(माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।)
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ।। २६.२५

अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।
यत्किचिद् देवदेवेशं दद्याद्बोद्दिश्य शंकरम् ।। २६.२६

प्रीयतामीश्वरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।। २६.२७

यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।
आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ।। २६.२८

कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।
स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ।। २६.२९

प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ।। २६.३०

द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।
अमावास्यायां वै भक्तैस्तु पूजनीयस्त्रिलोचनः ।। २६.३१

एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।
अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ।। २६.३२

एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके ।
तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ।। २६.३३

यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।
दीयते विष्णवे वापि तदनन्तफलप्रदम् ।। २६.३४

यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।
ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषहेतुतः ।। २६.३५

द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।
पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ।। २६.३६
तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सुभिः ।
द्विजेषु देवता नित्यं पूजनीया विशेषतः ।। २६.३७

विभूतिकामः सततं पूजयेद् वै पुरंदरम् ।
ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ।। २६.३८

आरोग्यकामोऽथ रविं धनकामो हुताशनम् ।
कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ।। २६.३९

भोगकामस्तु शशिनं बलकामः समीरणम् ।
मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ।। २६.४०

यस्तु योगं तथा मोक्षम् इच्छेत्तज्ज्ञानमैश्वरम् ।
सोऽर्चयेद् वै विरूपाक्षं प्रयत्नेन महेश्वरम् ।। २६.४१

ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।
ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ।। २६.४२

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।। २६.४३

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ।। २६.४४

वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ।। २६.४५

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ।। २६.४६

धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ।। २६.४७

गवां वा संप्रदानेन सर्वपापैः प्रमुच्यते ।
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ।। २६.४८
फलमूलानि शाकानि भोज्यानि विविधानि च ।
प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ।। २६.४९

औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितः सुखी दीर्घायुरेव च ।। २६.५०

असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ।। २६.५१

यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ।। २६.५२

अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ।। २६.५३

प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ।। २६.५४

दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।
तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ।। २६.५५

स्वगायुर्भूतिकामेन तथा पापोपशान्तये ।
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ।। २६.५६

दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ।। २६.५७

यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् ।
सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ।। २६.५८

यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ।। २६.५९

न तस्मात् प्रतिगृह्णीयात् न वै देयञ्च तस्य हि ।
अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत् ।। २६.६०

यस्त्वसद्‌भ्यो ददातीह न द्रव्यं धर्मसाधनम् ।
स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ।। २६.६१

स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ।। २६.६२

सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् ।
न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ।। २६.६३

सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।
स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ।। २६.६४

यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।
तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ।। २६.६५

योर्च्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ।। २६.६६

न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च ।
पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ।। २६.६७

अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ।। २६.६८

द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ।। २६.६९

वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ।। २६.७०

वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।
न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ।। २६.७१

प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु धनं हरेत् ।
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ।। २६.७२

यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।
उद्वेजयति भूतानि यथा चौरस्तथैव सः ।। २६.७३

गुरून् भृत्यांश्चोज्जिहीर्षन् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयंततः ।। २६.७४

एवं गृहस्थो युक्तात्मा देवताऽतिथिपूजकः ।
वर्त्तमानः संयातात्मा याति तत् परमं पदम् ।। २६.७५

पुत्रे निधाय वा सर्वं गत्वाऽरण्यं तु तत्त्ववित् ।
एकाकी विचरेन्नित्यमुदासीनः समाहितः ।। २६.७६

एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।
ज्ञात्वाऽतु तिष्ठेन्नियतं तथाऽनुष्ठापयेद् द्विजान् ।। २६.७७

इति देवमनादिमेकमीशं
गृहधर्मेण समर्चयेदजस्रम्
समतीत्य स सर्वभूतयोनिं
प्रकृतिं वै स परं न याति जन्म ।। २६.७८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे षड्‌विंशोऽध्यायः ।।