कूर्मपुराणम्-उत्तरभागः/नवमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

ऋषय ऊचुः ।
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ।। ९.१

ईश्वर उवाच ।
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ।। ९.२

अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ।। ९.३

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ।। ९.४

तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ।। ९.५

अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ।। ९.६

अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ।। ९.७

याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ।। ९.८

पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ।। ९.९

तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ।। ९.१०

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ।। ९.११

यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ।। ९.१२

वेदाहमेतं पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
तद् विज्ञाय परिमुच्येत विद्वान्
नित्यानन्दी भवति ब्रह्मभूतः ।। ९.१३

यस्मात् परं नापरमस्ति किञ्चित्
यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।
तदेवात्मानं मन्यमानोऽथ विद्वा-
नात्मनन्दी भवति ब्रह्मभूतः ।। ९.१४

तदप्ययं कलिलं गूढदेहं
ब्रह्मानन्दममृतं विश्वधामा ।
वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा
यत्र गत्वा न निवर्त्तेत भूयः ।। ९.१५

हिरण्मये परमाकाशतत्त्वे
यदर्चिषि प्रविभातीव तेजः ।
तद्विज्ञाने परिपश्यन्ति धीरा
विभ्राजमानं विमलं व्योम धाम ।। ९.१६

ततः परं परिपश्यन्ति धीरा
आत्मन्यात्मानमनुभूय साक्षात् ।
स्वयंप्रभुः परमेष्ठी महीयान्
ब्रह्मानन्दी भगवानीश एषः ।। ९.१७

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
तमेवैकं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वतीनेतरेषाम् ।। ९.१८

सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ।। ९.१९
इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ।। ९.२०

इति श्रीकूर्मपाराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमोऽध्यायः ।।