कूर्मपुराणम्-उत्तरभागः/त्रिचत्वारिंशत्तमोऽध्यायः
इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् ।
सूत उवाच
महादेवप्रियकरं महापातकनाशनम् ।। ४३.१
महादेवं दिदृक्षूणामृषीणणा परमेष्ठिनाम् ।
ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ।। ४३.२
मरीचयोऽत्रये विप्रा वसिष्ठाः क्रतवस्तथा ।
भृगवोऽङ्गिरसः पूर्वं ब्रह्माणं कमलोद्भवम् ।। ४३.३
समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् ।
पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ।। ४३.४
षट्कुलीया ऊचुः ।
भगवन् देवमीशानं तमेवैकं कपर्दिनम् ।
केनोपायेन पश्यामो ब्रूहि देवनमस्तव।। ४३.५
ब्रह्मोवाच ।
सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ।। ४३.६
मुक्त्वा मनोमयं चक्रं संसृष्ट्वा तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ।।४३.७
यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ।४३.८
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ।।४३.९
सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् ।
स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ।। ४३.१०
अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ।। ४३.११
इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः ।
सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ।। ४३.१२
अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् ।
एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ।। ४३.१३
अत्र पूर्वं स भगवानृषीणां सत्रमासताम् ।
स वै प्रोवाच ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ।। ४३.१४
अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् ।
रमतेऽध्यापि भगवान् प्रमथैः परिवारितः ।। ४३.१५
अत्र प्राणान् परित्यज्य नियमेन द्विजातयः ।
ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ।। ४३.१६
अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् ।
जजाप रुद्रमनिशं यत्र नन्दी महागणः ।। ४३.१७
प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ।
ददावात्मसमानत्वं मृत्युवञ्चनमेव च ।। ४३.१८
अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् ।
आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ।। ४३.१९
स्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ।
शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ।। ४३.२०
स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ।
अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ।। ४३.२१
तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ।
पश्यतस्तस्य विप्रर्षेरन्तर्द्धानं गतो हरः ।। ४३.२२
ततो युयोजितां भूमिं शिलादो धर्मवित्तमः ।
चकर्ष लाङ्गलेनोर्वां भित्त्वादृश्यत शोभनः ।। ४३.२३
संवर्त्तकोऽनलप्रख्यः कुमारः प्रहसन्निव ।
रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः ।। ४३.२४
कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।
शिलादं तात तातेति प्राह नन्दी पुनः पुनः ।। ४३.२५
तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे ।
मुनीनां दर्शयामास ये तदाश्रमवासिनः ।। ४३.२६
जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।
उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ।। ४३.२७
अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् ।
चक्रे महेश्वरं दृष्ट्वा जेष्ये मृत्युमिति प्रभुम् ।। ४३.२८
स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः ।
जजाप रुद्रमनिशं महेशासक्तमानसः ।। ४३.२९
तस्य कोट्यां तु पूर्णायां शंकरो भक्तवत्सलः ।
आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ।। ४३.३०
स वव्रे पुनरेवेशं जपेयं कोटिमीश्वरम्।
भवदाहंमहादेव देहीति परमेश्वर ।। ४३.३१
एवमस्त्विति संप्रोच्य देवोऽप्यन्तरधीयत ।
जजाप कोटिं भगवान् भूयस्तद्गतमानसः ।। ४३.३२
द्वितीयायां च कोट्यां वै संपूर्णायां वृषध्वजः ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ।। ४३.३३
तृतीयां जप्तुमिच्छामि कोटिं भूयोऽपि शंकर ।
तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ।। ४३.३४
कोटित्रयेऽथ संपूर्णे देवः प्रीतमना भृशम् ।
आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ।। ४३.३५
जपेयं कोटिमन्यां वै भूयोऽपि तव तेजसा ।
इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ।। ४३.३६
अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।
महागणपतिर्देव्याः पुत्रो भव महेश्वरः ।। ४३.३७
योगीश्वरो महायोगी गणानामीश्वरेश्वरः ।
सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ।। ४३.३८
ज्ञानं तन्मामकं दिव्यं हस्तामलकवत्तव ।
आभूतसंप्लवस्थायी ततो यास्यसि तत्पदम् ।। ४३.३९
एतदुक्त्वा महादेवो गणानाहूय शंकरः ।
अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ।। ४३.४०
उद्वाहयामास च तं स्वयमेव पिनाकधृक् ।
मरुतां च शुभां कन्यां स्वयमेति च विश्रुताम् ।। ४३.४१
एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः ।
यत्र तत्र मृतो मर्त्त्यो रुद्रलोके महीयते ।। ४३.४२
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिचत्वारिंशोऽध्यायः ।। ४३।।