कूर्मपुराणम्-उत्तरभागः/चतुर्थोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

  ईश्वर उवाच
वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ।
माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१

नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२

अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३

यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः ।
सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४

न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः ।
ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५

गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६

सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७

अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंप्लुतः ॥ ४.८

मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९

ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१०

अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११

न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२

यो वै निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३

पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४

अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५

अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६

अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७

अहमेव हि संहर्त्ता संस्रष्टा परिपालकः ।
मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८

ममैव च परा शक्तिर्या सा विद्यते गीयते ।
नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९

अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः ।
आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२०

एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१

अन्या च शक्तिर्विपुला संस्थापयति मे जगत् ।
भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२

तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३

ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४

सर्वेषामेव भक्तानामिष्टः प्रियतमो मम ।
यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५

अन्ये च हरये भक्ता मदाराधनकाङ्‌क्षिणः ।
तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६

मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं चित्तं मया संप्रेर्यते जगत् ॥ ४.२७

नाहं प्रेरयिता विप्राः परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८

पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः ।
करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९

योगः संप्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।
योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३०

महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः ।
प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१

यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२

सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३

इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४ ॥