सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.2 द्वितीयोऽर्द्धः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ।। १२५३ ।। ऋ. ९.९७.४०
मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ।। १२५४ ।।
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ।। १२५५ ।।

टिप्पणी

अक्रान् समुद्रः परमे विधर्मन्न्"इति नवमस्याह्नः प्रतिपद्भवति। परमं वा एतदहर्विधर्म विधर्म वा एतदन्यैरहर्भिरहर्यन्नवमं ज्येष्ठं हि वरिष्ठम्। मत्सि वायुमिष्टये राधसे न"इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजति । स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै। - पञ्च.ब्रा. १५.१.१

अक्रान् समुद्रः परमे विधर्मन्न् इति परमो वा अश्वः पशूनां, परमस् समुद्रः, परमं नवमम् अहस्, तस्माद् एता नवमे ऽहन् क्रियन्ते। जनयन् प्रजा भुवनस्य गोपा इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे स्वानो अद्रिर् इति वृषण्वतीर् बृहद्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। महत् तत् सोमो महिषश् चकारेति महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्॥ अपां यद् गर्भो ऽवृणीत देवान्। अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः॥ इति जनद्वतीर् भवन्ति। प्रातस्सवनाद् एवैतन् नवमम् अहः प्रजनयन्ति। मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः। मत्सि शर्धो मारुतं मत्सि देवान् मत्सि द्यावापृथिवी देव सोम॥ इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्॥जैब्रा ३.२४०

धर्मणा वै देवा धर्मम् आदायासुराणां विधर्मणैनान् विधर्मणः कृत्वा पराभावयन्। धर्मणैव धर्मम् आदाय द्विषतो भ्रातृव्यस्य विधर्मणैनं विधर्माणं कृत्वा पराभावयति य एवं वेद। तच् छ्रीर् वै धर्मो, राज्यं वै धर्मो, धर्मेण वै राजा धर्मो, धर्म स्वानां भवत्य्, ऐनं स्वा यन्ति, धर्मणो धारयति। तद् आहुर् नवमे ऽहनि कार्यम्। अदो वै क्षत्रं यद् बार्हतम्। अथेदं विड् राथन्तरम् इति। तद् उ वा आहुर् विधर्माणो वै राजानो न वै ते ऽन्यैर् मनुष्यै स्वधर्माणः। इदम् उ वाव क्षत्रं यच् चतुश्चत्वारिंशं त्रैष्टुभम्। तस्मान् नवम एवाहन् विधर्म स्याद् इहैतद् इति। - जैब्रा ३.२३१

समुद्रोपरि टिप्पणी


एष देवो अमर्त्यः पर्णवीरिव दीयते ।
अभि द्रोणान्यासदं ।। १२५६ ।। ऋ. ९.३.१
एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
दधद्रत्नानि दाशुषे ।। १२५७ ।।
एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
पवमानः सिषासति ।। १२५८ ।।
एष देवो रथर्यति पवमानो दिशस्यति ।
आविष्कृणोति वग्वनुं ।। १२५९ ।।
एष देवो विपन्युभिः पवमान ऋतायुभिः ।
हरिर्वाजाय मृज्यते ।। १२६० ।।
एष देवो विपा कृतोऽति ह्वरांसि धावति ।
पवमानो अदाभ्यः ।। १२६१ ।।
एष दिवं वि धावति तिरो रजांसि धारया ।
पवमानः कनिक्रदत् ।।१२६२ ।।
एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
पवमानः स्वध्वरः ।। १२६३ ।।
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
हरिः पवित्रे अर्षति ।। १२६४ ।।
एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
धारया पवते सुतः ।। १२६५ ।।

टिप्पणी

दशर्चो भवति दशाक्षरा विराट वैराजमन्नमन्नाद्यस्यावरुध्यै सप्रभृतयो भवन्तीन्द्रियस्य वीर्यस्य रसस्यानतिचाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन् - पञ्च.ब्रा. १५.१.५

ता एता भवन्ति त्रिष्टुभो जगद्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एष देवो अमर्त्य इति सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता। कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत राहिणी कन्माषम्, उत कन्माषी रोहितम्। तास् समानप्रभृतयो भवन्ति नानोदर्काः - एष देवो अमर्त्य, एष देवो विपा कृत, एष देवो विपन्युभिर् इति। इदं वै प्रथमं पदम्, इदं द्वितीयं, अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनः। अन्तम् इव हि गच्छन्ति तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्काः। अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नाना - प्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उ ताभिर् लोके प्रतितिष्ठन्ति॥जैब्रा ३.२४१ दशर्चं भवति - दशाक्षरा विराट्। अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। - जैब्रा ३.२४२



एष धिया यात्यण्व्य शूरो रथेभिराशुभिः ।
गच्छन्निन्द्रस्य निष्कृतं ।। १२६६ ।। ऋ. ९.१५.१
एष पुरू धियायते बृहते देवतातये ।
यत्रामृतास आशत ।। १२६७ ।।
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
प्रचक्राणं महीरिषः ।। १२६८ ।।
एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा ।
यदी तुञ्जन्ति भूर्णयः ।। १२६९ ।।
एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः ।
पतिः सिन्धूनां भवन् ।।१२७० ।।
एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा ।
नृम्णा दधान ओजसा ।। १२७१ ।।
एष वसूनि पिब्दनः परुषा ययिवां अति ।
अव शादेषु गच्छति ।। १२७२ ।।
एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे ।
स्वायुधं मदिन्तमं ।। १२७३ ।।

टिप्पणी

अष्टर्चो भवति। (अष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति) अष्टाक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे - पञ्च.ब्रा. १५.१.७

अष्टर्चं भवति। अष्टाचत्वारिंशम् एवैवैतेन स्तोमम् अभिवदति। अथो अष्टाक्षरा वै गायत्र्य् - अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। इन्द्रो वै वृत्रम् अहन्। तं वृत्रं जघ्निवांसम् एभ्यो लोकेभ्यस् सर्वाणि भूतान्य् अन्ववदन्न् - एष वीर, एष वृत्रहति। वीर्यम् एवास्मिंस् तद् अभिपूर्वम् अदधुः। वीर्यम् इव वा एष चक्रिवान् भवति वृत्रम् इव जघ्निवान् य एतद् अहर् आगच्छति। तद् यद् एष इति भवति वीर्यम् एवास्मिंस् तद् अभिपूर्वं दधति। - जैब्रा ३.२४२



एष उ स्य वृषा रथोऽव्या वारेभिरव्यत ।
गच्छन्वाजं सहस्रिणं ।। १२७४ ।। ऋ. ९.३८.१
एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
इन्दुमिन्द्राय पीतये ।। १२७५ ।।
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
गच्छं जारो न योषितं ।। १२७६ ।।
एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
य इन्दुर्वारमाविशत् ।।१२७७ ।।
एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
क्रन्दन्योनिमभि प्रियं ।। १२७८ ।।
एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भते ।। १२७९ ।।

टिप्पणी

षडृचा भवन्त्यृतूनां धृत्यै। चत्वारः षडृचा भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति। सवानुत्तमः षडृचो भवत्युभयस्य परोक्षप्रत्यक्षस्यावरुध्यै - पञ्च.ब्रा. १५.१.९

तद् आहुर् ऋतुमान् पृष्ठयष् षडहो ऽनृतवश् छन्दोमाः। अनृताव् इव वा एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च षडृचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। स वानुत्तमष् षडृचो भवति। यदा वै प्रत्यक्षं भवत्य् अथैष इत्य् आचक्षते, यदा परोक्षम् अथ स इति। परोक्षम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तस्मात् स वानुत्तमष् षडृचो भवति येन प्रयन्ति। तेनोद्यन्ति। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति॥ - जैब्रा ३.२४२



एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
अव्यो वारं वि धावति ।। १२८० ।।
एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
विश्वा धामान्याविशन् ।।१२८१ ।।
एष देवः शुभायतेऽधि योनावमर्त्यः ।
वृत्रहा देववीतमः ।। १२८२ ।।
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
अभि द्रोणानि धावति ।। १२८३ ।।
एष सूर्यमरोचयत्पवमानो अधि द्यवि ।
पवित्रे मत्सरो मदः ।। १२८४ ।।
एष सूर्येण हासते संवसानो विवस्वता ।
पतिर्वाचो अदाभ्यः ।। १२८५ ।।


एष कविरभिष्टुतः पवित्रे अधि तोशते ।
पुनानो घ्नन्नप द्विषः ।। १२८६ ।।
एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
पवित्रे दक्षसाधनः ।। १२८७ ।।
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
सोमो वनेषु विश्ववित् ।।१२८८ ।।
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
इन्दुः सत्राजिदस्तृतः ।। १२८९ ।।
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
पुनान इन्दुरिन्द्रमा ।। १२९० ।।
एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
देवावीरघशंसहा ।। १२९१ ।।


स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
विघ्नन्रक्षांसि देवयुः ।। १२९२ ।।
स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
अभि योनिं कनिक्रदत् ।।१२९३ ।।
स वाजी रोचना दिवः पवमानो वि धावति ।
रक्षोहा वारमव्ययं ।। १२९४ ।।
स त्रितस्याधि सानवि पवमानो अरोचयत् ।
जामिभिः सूर्यं सह ।। १२९५ ।।
स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
सोमो वाजमिवासरत् ।।१२९६ ।।
स देवः कविनेषितो३ऽभि द्रोणानि धावति ।
इन्दुरिन्द्राय मंहयन् ।।१२९७ ।।


यः पावमानीरध्येत्यृषिभिः सम्भृतं रसं ।
सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ।। १२९८ ।।
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसं ।
तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकं ।। १२९९ ।।
पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ।
ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितं ।। १३०० ।।
पावमानीर्दधन्तु न इमं लोकमथो अमुं ।
कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ।। १३०१ ।।
येन देवाः पवित्रेणात्मानं पुनते सदा ।
तेन सहस्रधारेण पावमानीः पुनन्तु नः ।। १३०२ ।।
पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनं ।
पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ।। १३०३ ।।


अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं ।। १३०४ ।। ऋ. ७.१२.१
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ।। १३०५ ।।
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ।। १३०६ ।।

टिप्पणी

अगन्म महा नमसा यविष्ठम् इति गद्वन्त्य् आज्यानि भवन्ति। गच्छन्तीव वा एते य एतद् अहर् आगच्छन्ति। यो दीदाय समिद्ध स्वे दुरोण इति दीद्यन्त्य् एवैनम् एतेन। चित्रभानुं रोदसी अन्तर् ऊर्वी इतीमे ह वाव रोदसी इदम् एवान्तरिक्षं मरुतः। स्वाहुतं विश्वतः प्रत्यञ्चम् इति प्रत्यङ् ह्य् एष त्रियहस् तायते। स मह्ना विश्वा दुरितानि साह्वान् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अग्नि ष्टवे दम आ जातवेदाः। स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः॥ इत्य् आशिषम् एवैतेनाशास्ते। त्वं वरुण उत मित्रो अग्न इत्य् आग्नावारुणी भवति, दुरिष्टस्यैवावेष्टयै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एषा वेष्टयै। त्वां वर्धन्ति मतिभिर् वसिष्ठा इति वृद्धं ह्य् एतद् अहः। त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिस् सदा न इत्य् आशिषम् एवैतेनाशास्ते॥जैब्रा ३.२४३


१०
महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
स्तोमैर्वत्सस्य वावृधे ।। १३०७ ।। ऋ. ८.६.१
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनं ।
जामि ब्रुवत आयुधा ।। १३०८ ।।
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा ।। १३०९ ।।

टिप्पणी

दशरात्रे नवममहः। आज्यानि -- महं इन्द्रो य ओजसेत्य् ऐन्द्रं भवति। महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्। पर्जन्यो वृष्टिमं इव। स्तोमैर् वत्सस्य वावृधे॥ इति वृद्धं ह्य् एतद् अहः। कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् इति सिद्ध्या एव। प्रजाम् ऋतस्य पिप्रत इति जनद्वत्। नवमाद् एवैतद् अह्नो दशमम् अहः प्रजनयन्ति। नवमाद् वा एतद् अह्नः प्रजातं यद् दशमम् अहः। - जै.ब्रा. ३.२४४

महां इन्द्रो य ओजसा"इत्यैन्द्रमष्टमेन वै देवा अह्नेन्द्रमवाजयन्नवमेन पाप्मानमघ्नन्नहरेवैतेन महयन्ति - पञ्च.ब्रा. १५.२.७


११
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।
अदारसृक् १.९.१४
सुरूपोत्तरम् १.९.१५
हरिश्रीनिधनम् १.९.१६
सैन्धुक्षितम् १.९.१७
गतनिधनबाभ्रवम् १.९.१८
इडानां संक्षारः १.९.१९
ऋषभॅ पवमानः

१२
परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।
अर्कपुष्पम्
दैर्घश्रवसम्
यशः
पृष्ठम्
वैयश्वम्
कौल्मलबर्हिषम्
आभीशवाद्यम्
देवस्थानम्
सङ्कृति
भर्गः

१३
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ।।१३१६ ।।
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ।। १३१७ ।।
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं ।। १३१८ ।।
दीर्घतमसः अर्कः
महासामराजम्

१४
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।।
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।
महादिवाकीर्त्यानि
श्रायन्तीयम्


१५
यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ।। १३२१ ।।
त्वं हि राधस्पते राधसो महः क्षयस्यासि विधर्त्ता ।
तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ।। १३२२ ।।
समन्तम्

१६
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।।
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ।। १३२५ ।।
आश्वसूक्तम्
शाम्मदम्
दावसुनिधनम्
प्रतीचीनेडं काशीतम्
हाविष्कृतम्

१७
पवस्व देववीतय इन्दो धाराभिरोजसा ।
आ कलशं मधुमान्त्सोम नः सदः ।। १३२६ ।।
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
त्वां देवासो अमृताय कं पपुः ।। १३२७ ।।
आ नः सुतास इन्दवः पुनाना धावता रयिं ।
वृष्टिद्यावो रीत्यापः स्वर्विदः ।। १३२८ ।।
वैयश्वम्(वैश्वमनसम्)

१८
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।।
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।
गौरीवितम्
निहवम्
यद्वाहिष्ठीयोत्तरम्
आसितम्
साध्रम्
आकूपारम्

१९
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। १३३२ ।।
प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ।। १३३३ ।।
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं ।। १३३४ ।।
विधर्म


२०
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ।। १३३५ ।।
तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
य इन्द्रस्य हृदंसनिः ।। १३३६ ।।
अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं ।
वर्धा समुद्रमुक्थ्यं ।। १३३७ ।।
श्रुध्यम्


२१
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ।। १३३८ ।।
बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
येषामिन्द्रो युवा सखा ।। १३३९ ।।
अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
येषामिन्द्रो युवा सखा ।। १३४० ।।
ऐध्मवाहम्

२२
य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ।। १३४१ ।।
यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ।। १३४२ ।।
कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ।। १३४३ ।।
त्रैककुभम्

२३
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ।। १३४४ ।।
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं ।
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ।। १३४५ ।।
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ।। १३४६ ।।
(द्र. उद्वꣳशीयम्)
गौरीवितानि